द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेताऽसि रणे सपत्नान् ।।एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ।।३५।।
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेताऽसि रणे सपत्नान् ।।
सञ्जय उवाच–
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ।।३५।।
भाष्यम्
‘योऽस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यति’ इति तत्पितुर्वराद् जयद्रथोऽपि विशेषेणोक्तः । ‘सवरा वासवी शक्तिः’ इति कर्णः ।।
भावप्रदीपिका
ननु द्रोणभीष्मयोर्विरिञ्चावेशिनोः विशेषोक्तौ जयद्रथ-कर्णयोः किमर्था सेत्यत आह– योऽस्येति ।।
प्रमेयदीपिका
‘यद्वा जयेम यदि वा नो जयेयुः’ इत्यस्य सन्देहेऽपि प्रवृत्तिर्युक्ता । पक्षद्वयेऽपि फललाभादिति ‘हतो वा’ इत्युत्तरमुक्तम् । इदानीं तव पराजयशङ्काऽपि नास्तीत्युच्यते– द्रोणं चेति ।। तत्र द्रोणस्य धनुर्विद्याचार्यत्वेन, भीष्मस्य स्वच्छन्दमृत्युत्वेन चाशङ्काविषयत्वाद्युक्तं योधवीरसमुदायात् पृथक्कृत्य स्वशब्देन ग्रहणम् । जयद्रथस्य कर्णस्य च कुतः? इत्यत आह– योऽस्येति ।। अस्य जयद्रथस्य तच्छिरः तस्य पातयितुः शिरः भेत्स्यति भेत्स्यते । तत्पितुः जयद्रथपितुः । शक्तिः ‘अस्ति कर्णस्य’ इति शेषः । कर्णः ‘विशेषेणोक्तः’ इति वर्तते ।। ३४,३५ ।।
भावरत्नकोशः
।। ‘हतो वा’ इति श्लोकेन उत्तरम् इति सम्बन्धः । तत्र श्लोके आशङ्काविषयत्वात् वधानर्हत्वात् ज्येष्ठत्वशङ्काया विषयत्वात्, स्वशब्देन स्वासाधारण-द्रोणादिशब्देन । कुतः ‘स्वशब्देन ग्रहणम्’ इति वर्तते । ननु भाष्ये ‘भेत्स्यति’ इति कथं परस्मैपदम् ? यावता प्रकृते द्वैधीभावलक्षणां भिदिक्रियां प्रति शिरसः कर्मत्वम्, ‘कर्मस्था च भिदेः क्रिया’ इति पाणिनीयवचनात्, शिरसश्चात्र कर्तृत्वं विवक्षणीयम् । जयद्रथपितुरिति ।। जयद्रथपित्रा ‘स्वपुत्रशिरः पातयितुः शिरः स्वयमेव द्वैधीभावं प्राप्स्यति’ इति वरप्रदानात् । तथा च भारते–
‘धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ।
तस्यापि शतधा मूर्धा पतिष्यति न संशयः ।।’
इति । एवं च भिदिक्रियाकर्मणः ‘कर्मवत् कर्मणा तुल्यक्रियः’ इति कर्तृत्वे ‘भावकर्मणोः’ इत्यात्मनेपदमेव युक्तम्, ‘मोक्ष्यते वत्सः स्वयमेव’ इतिवत् ? इत्यत आह– भेत्स्यतीति भेत्स्यत इति ।। भाष्ये परस्मैपदम्, छन्दस्तुल्यत्वाद् युक्तमिति भावः । यद्यपि भिदेः कर्मस्था क्रिया द्विधा भवनम्, सैव इदीनां कर्तृस्था न तुल्या । तथापि ‘कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्यैव क्रियातुल्यताव्यवहारः’ इति वैयाकरणैरभ्युपगतमिति द्रष्टव्यम् । ‘शक्तिः’ इत्यनूद्य तत्राध्याहार्यमाह– अस्ति कर्णस्येति ।। विशेषेण स्वासाधारणशब्देन ।। ३४ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु ‘यद्वा जयेम यदि वा नो जयेयुः’ इत्यस्य सन्देहेऽपि प्रवृत्तिर्युक्ता । पक्षद्वयेऽपि फलभावादिति ‘हतो वा’ इत्युत्तरमुक्तम् । इदानीं तव पराजयशङ्काऽपि नास्तीत्युच्यते– द्रोणं चेति ।। तत्र द्रोणस्य धनुर्विद्याचार्यत्वेन, भीष्मस्य स्वच्छन्दमृत्युत्वेन अवध्यत्वशङ्काविषयत्वाद् युक्तं योधवीरसमुदायात् पृथक्कृत्य स्वशब्देन ग्रहणम् । जयद्रथस्य कर्णस्य च कुतस्तत् ? इति शङ्का ‘योऽस्य जयद्रथस्य शिरश्छिन्नं भूमौ पातयति तस्य पातयितुः शिरो भिन्नं भविष्यति’ इति जयद्रथपितुर्वराज्जयद्रथोऽपि विशेषेणोक्तः, ‘सवरा वासवी शक्तिरस्ति कर्णस्य’ इति कर्णोऽपि तथोक्त इति भाष्यादौ परिहृता । अर्जुने स्थित्वा स्वस्यैव हन्तृत्वात् ‘मया हतेषु त्वमेव हन्ता’ इति व्यवहारविषयो भवेति भगवतोच्यते– मया हतानिति ।। हतान् हतप्रायान् त्वं जहि छिन्धि मा व्यथिष्टाः भयं मा कार्षीः । जेतृशब्दस्तृन्नन्त इति ‘सपत्नान्’ इति द्वितीया ।।
ततो यद् वृत्तं तद्् धृतराष्ट्रं प्रति सञ्जय आहेत्युच्यते– सञ्जय उवाच– एतच्छ्रुत्वेति ।। एतत् पूर्वश्लोकत्रयात्मकं केशवस्य ब्रह्मरुद्रादिनियामकस्य वचनं श्रुत्वा वेपमानः कम्पमानः किरीटी अर्जुनः सगद्गदं भयाविष्टस्य दुःखाभिघातात्, स्नेहाविष्टस्य च हर्षोत्कर्षाद् अश्रुपूर्णनेत्रत्वे सति यः श्लेष्मणा कण्ठावरोधः, तेन वाचाम् अपाटवं मन्दत्वं यत्र शब्दे स गद्गदः, तेन सह वर्तत इति ‘सगद्गदम्’ इति क्रियाविशेषणम् । भीतभीतः भीतादपि भीतः पुनःपुनः भयाविष्टचेताः प्रणम्य प्रह्वो भूत्वा आह ।। ३४,३५ ।।
भावदीपिका
।। पक्षद्वयेऽपीति ।। हतो वेतीति ।। ‘हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्’ इत्यनेनेत्यर्थः । आशङ्काविषयत्वादिति ।। एतादृशानां जयो मम कथं स्यात् ? इत्यर्जुनशङ्काविषयत्वादित्यर्थः । एतद्धातोरात्मनेपदित्वादाह– भेत्स्यत इति
।। ३४,३५ ।।
भावप्रकाशः
।। इत्यस्य हतो वेत्यत्तुरमिति सम्बन्धः । ननु भिदिर्विदारण इत्युक्तत्वात् भिदेर्द्विधाभवनानुकूलव्यापारवाचित्वे विप्रकृतेन तत्परत्वम् । तच्छिरः स्वयमेव भेत्स्यत इति जयद्रथपित्रा वरप्रदानेन द्विधा भवनानुकूलव्यापाराश्रयकर्त्रन्तराभावात् किन्तु द्विधाभवनमात्रपरत्वम् । द्विधाभवने च शिरसः कर्तृत्वमेव । स्वतन्त्रः कर्तेति लक्षणात् । शिरसः च कर्मवद्भाव आवश्यकः । कर्मवत्कर्मणा तुल्यक्रिय इति तदुक्तेः । एवं च कर्मणि कारकवत्कर्मकर्तरि लकारेऽपि भावकर्मणोरित्यात्मनेपदे सति मोक्ष्यते वत्सः स्वयमेवेतिवच्छिरो भेत्स्यत इति स्यात् । भेत्स्यतीति परस्मैपदं तु कथमित्यत आह– भेत्स्यत इति ।। ननु कर्मवत्सूत्रे कर्मस्थया क्रियया तुल्यक्रियस्य कर्तुः कर्मवत्त्वमुक्तम् । प्रकृते द्विधाभवनस्यैकस्यैव कर्तृकर्मोभयगतत्वात् कथं तुल्यत्वम् । उच्यते । कर्मस्थत्वकर्तृस्थत्वरूपोपाधिभेदेन द्विधा-भवनस्याप्यौपाधिकभेदसम्भवात् तुल्यत्वोपपत्तेरिति ।। ३४ ।।