शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ।। ४२ ।।

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ।। ४२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तत्र ब्राह्मणस्य नैसर्गिककर्माण्युच्यन्ते– शमो दम इति ।। शमः बुद्धेर्भगवन्निष्ठता , दम इन्द्रियनिग्रहः, तपः ब्रह्मचर्यादि, शौचं शुद्धिः बाह्या आन्तरी च, शान्तिः क्रोधानुत्थितिः, आर्जवं मनोवाक्कायकर्मणाम् अवैपरीत्यं, ज्ञानं सामान्यतः, विज्ञानं विशेषतः, आस्तिक्यं धर्मादौ अस्त्येवानेन प्रयोजनम् इति भावः , एतत्सर्वं ब्राह्मं ब्रह्म ब्राह्मणजातिः, तस्य सम्बन्धि कर्म तच्च स्वभावजं सहजं ‘ब्रह्मकर्म’ इति क्वचित् गीतापाठः । तत्र ब्रह्मणः ब्राह्मणजातेः कर्मेत्यर्थः ।। ४२ ।।