स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ।। ५४ ।।

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ।। ५४ ।।

भाष्यम्

स्थिता प्रज्ञा ज्ञानं यस्य स स्थितप्रज्ञः । भाष्यतेऽनयेति भाषा । लक्षणमित्यर्थः ।। उक्तं लक्षणमनुवदति लक्षणान्तरं पृच्छामीति ज्ञापयितुम्– समाधिस्थस्येति ।।

भावप्रदीपिका

प्रकृतज्ञानिलक्षणं पृच्छतीति सम्बन्धस्य स्पष्टत्वात् ‘स्थितप्रज्ञस्य’ इति श्लोकव्याख्यामेव करोति– स्थितेति ।। ‘किं प्रभाषेत’ इत्यतः ‘का भाषा’ इत्यस्यार्थभेदमाह– भाष्यत इति ।। समाधिस्थज्ञानिनः किं लक्षणमिति भ्रान्तिर्मा भूदित्याह– उक्तमिति ।।

भावप्रकाशिका

उक्तार्थप्रश्नरूपत्वेन पूर्वसङ्गतेः प्रसिद्धत्वादुत्तरश्लोकस्य व्याख्यानमेव करोति– स्थितेति ।। ‘किं प्रभाषेत’ इत्यतः ‘का भाषा’ इत्यस्यार्थभेदमाह– भाष्यत इति ।। ‘समाधिस्थस्य’ इति समाधिं कुर्वत इति प्रतीतिः स्यात् । तां व्यावर्तयन् यथावद्व्याचष्टे– उक्तमिति ।। समाधौ सत्यां ब्रह्मप्रत्यक्षदर्शनेन परमानन्दमग्नत्वात् यस्य बुद्धिरचलत्वेन स्थिता तस्येत्यर्थः ।

प्रमेयदीपिका

ज्ञानिनि प्रकृते लब्धावसरोऽर्जुनः पृच्छतीति सङ्गतेः स्फुटत्वात्तामनुक्त्वा प्रज्ञाशब्दस्य बुद्धिमात्रार्थत्वप्रतीतिनिरासाय स्थितप्रज्ञशब्दार्थमाह– स्थितेति ।। प्रतिष्ठां प्राप्ता । ज्ञानम् अपरोक्षम् । ‘किं प्रभाषेत’ इत्यतः ‘का भाषा’ इत्यस्यार्थान्तरमाह– भाष्यत इति ।। ज्ञानीति व्यवह्रियत इत्यर्थः । भाषा इति भाषाशब्दस्य स्त्रीलिङ्गत्वाद् ‘अनया’ इत्युक्तम् । व्यवहारकारणानामनेकत्वात् कस्यायं प्रश्न इति न ज्ञायते । अत आह– लक्षणमिति ।। सास्नादिमत्वं लक्षणं दृष्ट्वा हि गौरिति व्यवह्रियते ।।

ज्ञानिमात्रव्युदासाय ‘समाधिस्थस्य’ इति विशेषणमिति प्रतीयते । समाधिं कुर्वत इति । यथाह सङ्करः ‘लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सयाऽर्जुन उवाच’ इति । तदसदिति भावेनाऽह– उक्तमिति ।। ज्ञानिसामान्यलक्षणविषय एवायं प्रश्नः । किमर्थं तर्हि ‘समाधिस्थस्य’ इत्युक्तमिति चेत् ‘समाधावचला बुद्धिः’ इत्यनेनोक्तं ज्ञानिसामान्यलक्षण-मनेनानुवदतीति ब्रूमः । न हीदं न लक्षणम् । ज्ञानिमात्रनिष्ठधर्मत्वात् । किमर्थोऽनुवादः? इति चेत् तज्ज्ञातं मयेति ज्ञापनार्थमिति वदामः । एतज्ज्ञापनेऽपि किं प्रयोजनम्? इति चेत् लक्षणान्तरं पृच्छामीति ज्ञापयितुम् । अन्यथा सिद्धप्रश्नोऽयमित्युपेक्ष्यः प्रसज्येतेति भावः । लक्षणान्तरप्रश्नस्य चेदं प्रयोजनम् । अयावल्लक्ष्यभावित्वान्न तत् सम्यग्व्यवहारोपयोगि । यावल्लक्ष्यभावि तु सार्वत्रिकव्यवहारोपयोगि ज्ञास्यामीति । अत एव प्रसिद्धलक्षणपद-परित्यागेनाप्रसिद्धभाषापदोपादानमिति ।।

भावबोधः

अर्थान्तरमिति ।। तथा च न पुनरुक्तिरिति भावः ।।

भावदीपः

स्थितापदार्थः प्रतिष्ठां प्राप्तेति ।। भेरीताडनादिनाऽप्यचञ्चलतां प्राप्तेत्यर्थः । लक्षणस्य व्यवहारहेतुत्वं व्यनक्ति– सास्नादीति ।। अन्यथेति ।। लक्षणान्तरप्रश्न-ज्ञापनाभाव इत्यर्थः । न तदिति ।। समाधिस्थत्वम् ।। अत एवेति ।। अयावल्लक्ष्येत्यादि-नोक्तार्थज्ञापनार्थत्वादेवेत्यर्थः ।।

वाक्यार्थप्रदीपः

ननु ज्ञानिलक्षणस्यैव ज्ञानीति व्यवहारसाधनत्वात् तद्विवक्षया अनेनेति वक्तव्यम् । अनयेति स्त्रीलिङ्गं तु कथमित्यतः नानयेति भाषाशब्दार्थ-भूतलक्षणापेक्षया स्त्रीलिङ्गं किन्तु भाषापेक्षयेति न तदनुपपत्तिरिति आह– भाषाशब्दस्य स्त्रीलिङ्गत्वादिति ।।

भावरत्नकोशः

प्रकृते अपरोक्षज्ञानकाष्ठाप्रदर्शनेन । ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः’ इति कोशकारवचनादाह– बुद्धिमात्रार्थत्वेति ।। स्थिताशब्दार्थः–  प्रतिष्ठां प्रप्तेति ।। सुदृढनिष्पन्नेत्यर्थः । ‘स्थिता प्रज्ञा ज्ञानं यस्येति’ यत्प्रसिद्धार्थकमपि प्रज्ञापदं ज्ञानार्थं व्याख्याति तेन ज्ञानमित्यपरोक्षज्ञानं मुख्यं ग्राह्यमिति भावेनाऽह– ज्ञानमपरोक्षमिति ।। अर्थान्तरमिति ।। तथाच धात्वर्थैक्यान्न पुनरुक्तिरिति भावः । लक्षणवत् ‘अयं ज्ञानी’ इत्याप्तोपदेशवागिन्द्रियादिरूपव्यवहारकारणबाहुल्यादुक्तम्–  अनेकत्वादिति ।। कस्य व्यवहार- कारणस्य । लक्षणस्य व्यवहारहेतुत्वमुपपादयति– सास्नेति ।। ‘प्रश्नबीजं प्रतिलभ्यार्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया’ इति शङ्करभाष्यं सान्वयमनुवदति– लब्धेति ।। शङ्कर-पक्षस्यासत्वं भाष्याभिप्रायं वदन् दर्शयति– ज्ञानिसामान्येति ।। सम्प्रज्ञातासम्प्रज्ञातसमाध्यव-स्थापन्नज्ञानिमात्रेत्यर्थः । स्थिप्रज्ञस्येति ज्ञानिमात्रप्रतीतेः सङ्कोचे कारणाभावादिति हृदयम् । कारणं शङ्कते– किमर्थमिति ।।  तर्हि ज्ञानिसामान्यलक्षणविषयप्रश्ने । अनुवादस्य प्राप्ति-सापेक्षत्वात् तामाह– समाधाविति ।। अनेन ‘सामाधिस्थस्य’ इत्यनेन । समाधिमत्वस्य ज्ञानिलक्षणत्वमुपपादयति– नहीति ।। ज्ञानीतरावृत्तित्वे सति ज्ञानिवृत्तित्वरूपासाधारण-धर्मत्वादित्यर्थः । असाधरणधर्मो हि लक्षणं परिकीर्त्तितमिति भावः । ज्ञापनार्थः ज्ञापन-प्रयोजकः । अनुवाद इति वर्त्तते । लक्षणान्तरं समाधिस्थत्वलक्षणादन्यत् । अन्यथा लक्षणान्तरप्रश्नज्ञापनाभावे ।। सिद्धप्रश्न इति ।। समाधिस्थस्य ज्ञानिनः समाधिस्थत्वमेव लक्षणमिति सिद्धत्वात् समाधिस्थस्य किं लक्षणमिति प्रश्नः सिद्धार्थविषयत्वेन नोत्तरार्ह इत्युपेक्षणीयः स्यादित्यर्थः । सिद्धः प्रश्नो यस्य स इति बहुव्रीहिर्वा । अत एव भगवत्पादैः ‘प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यम्’ इति सिद्धार्थकत्वं प्रश्नदोष इति विभावितमिति भावः । अयावल्लक्ष्यभावित्वात् लक्ष्यसमसमयवृत्तित्वाभावात् ।। तत्सम्यग्व्यवहारेति ।। समाधिस्थत्वं सार्वत्रिकव्यवहारोपयोगि न भवतीत्यर्थः । ‘इति’ इदं प्रयोजनमिति सम्बन्धः । अत एव सार्वत्रिकव्यवहारोपयोगिलक्षणज्ञानस्य प्रश्नप्रयोजनस्य सत्त्वादेव । अयावल्लक्ष्यभावित्वादित्युक्तार्थज्ञापनार्थत्वादेवेति तु स्वामिनः ।

भावदीपिका

ननूत्तरश्लोकस्य पूर्वेण सङ्गतेरनुक्तत्वान्न्यूनतेत्यत आह– ज्ञानिनीति ।। प्रकृत इति ।। पूर्वश्लोकेनेत्यर्थः ।। लब्धावसर इति ।। शङ्कां कर्तुं लब्धावकाश इत्यर्थः । प्रतिष्ठां निश्चलताम् ।। अर्थान्तरमिति ।। तथाच न पुनरुक्तिरिति भावः । ननु व्यवहारकारणलक्षणशब्दस्य नपुंसकत्वादनेनेति वक्तव्येऽनयेति कथमुक्तमित्यत आह– भाषा-शब्दस्येति ।। योगवृत्त्या लक्षणवाचिभाषाशब्दस्येत्यर्थः।। अनेकत्वादिति ।। वागिन्द्रिय-शब्दज्ञानानामपि व्यवहारकारणत्वादित्यर्थः । लब्धसमाधिप्रज्ञस्य लब्धासम्प्रज्ञातसमाध्यव-स्थावत इत्यर्थः ।। ज्ञानिसामान्येति ।। सम्प्रज्ञातासम्प्रज्ञातोभयावस्थावज्ज्ञानिसामान्येत्यर्थः । इत्यनेनोक्तम् असम्प्रज्ञातसमाध्यवस्थावत्त्वरूपम् । लक्षणत्वं कुत इत्यत आह– ज्ञानि-मात्रेति ।। ततश्चातिव्याप्तिशून्यत्वेनासाधारणधर्मत्वाल्लक्षणमित्यर्थः ।। अन्यथेति ।। लक्षणान्तरं पृच्छामीत्यभिप्रायाभाव इत्यर्थः ।। सिद्धप्रश्नोऽयमिति ।। समाधिस्थस्य ज्ञानिन समाधिस्थत्वमेव लक्षणमिति सिद्धत्वात् समाधिस्थस्य किं लक्षणमिति प्रश्नः सिद्धार्थत्वेनोपेक्ष्यः स्यादिति भावः । यथोक्तम्– ‘प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यम्’ इति ।। न तदिति ।। असम्प्रज्ञातसमाध्यवस्थापन्नत्वरूपलक्षणस्य सम्प्रज्ञातसमाध्यवस्थापन्ने ज्ञानिन्य-भावेनायावल्लक्ष्यभावित्वेनाव्याप्तत्वान्न सार्वत्रिकव्यवहारोपयोगित्वमित्यर्थः । सम्यग् व्यवहारः सार्वत्रिकव्यवहारः । सार्वत्रिकव्यवहारोपयोगि यतोऽतस्तादृशं लक्षणं ज्ञास्यामीति योज्यम् ।। अत एवेति ।। सार्वत्रिकव्यवहारोपयोगिलक्षणज्ञानस्य प्रश्नप्रयोजनस्य विद्यमानत्वादेवेत्यर्थः ।। भाषेति ।। भाष्यते व्यवह्रियतेऽनयेति सार्वत्रिकव्यहारहेतुभूतलक्षणवाचिभाषाशब्देनोक्तं प्रयोजनं सूचितमिति भावः ।।

भावप्रकाशः

 अर्थान्तरमिति ।। तथा च न पुनरुक्तिरिति भावः । मूले भाष्यतेऽनयेति । ‘गुरोश्च हल’ (पा.३.३.१०३) इति करणे प्रत्ययेऽजाद्यतष्टाबिति टापि च भाषेति रूपसिद्धिरिति बोध्यम् ।। अनेकत्वादिति ।। लक्षणवदुपदेशादेरपि व्यवहारकारण-त्वादिति भावः ।।

Load More