आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ।। १३ ।।

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ।। १३ ।।

भावरत्नकोशः

किञ्च सर्वे ऋषयः ज्ञानिनो मरीच्याद्या वा तथा देवर्षिः नारदः असितदेवलनामानौ ऋषी, व्यासः पाराशर्यः पुरुषं पूर्णषड्गुणं सर्वशरीरेषु सन्तं वा, शाश्वतम् एकरूपं दिव्यं लोकविलक्षणम् आदिदेवं देवानाम् आदौ विद्यमानम्, अजं जन्महीनं विभुं विविधभवनहेतुना विभुशब्दवाच्यं त्वा माहुः । ‘अहं सर्वस्य प्रभवः’ इत्यादिना स्वयं च मे मह्यं ब्रवीषि व्यक्तं भाषसे ।। १३ ।।