शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ।। ८ ।।
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ।। ८ ।।
भाष्यम्
‘कर्षति’ इत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम् । तन्निवारयति– शरीर-मित्यादिना ।। यत् यदा शरीरमवाप्नोति उत्क्रामति च जीवः, तदा ईश्वरः एतानि गृहीत्वा संयाति ।।
भावप्रदीपिका
अंशोऽपि स्वरूपांशो नेत्यभिप्रायेण तदुत्तरं श्लोकद्वय-मवतार्य व्याचष्टे– कर्षतीति ।।
प्रमेयदीपिका
‘पूर्ववाक्ये जीवस्य प्रकृतत्वात् तदुत्तरमपि तद्विषयम्’ इति व्याख्यानमसत्। ईश्वरपदरूढार्थपरित्यागदोषादित्याशयवान् सङ्गतिं तावदाह– कर्षतीति ।। ‘शरीरावाप्तौ मूलकारणाद् उत्क्रमणे शरीरात् स्थितौ गोलकादिभ्यो विषयान् प्रतीन्द्रियाणि जीवः कर्षति’ इति पूर्वत्रोक्तम् । तथा च तस्य नियाम-कान्तरानुक्त्या इन्द्रियकर्षणे स्वातन्त्रं प्रतीतम् । तदयुक्तम् । पूर्वोक्तेन विरोधा-दित्याशङ्क्य, ईश्वरस्यैव तत्प्रतिपादयन् तत् जीवस्य स्वातन्त्र्यं निवारयतीत्यर्थः । श्लोकद्वयोपपादनायादिपदम् ।।
भावबोधः
।। पूर्ववाक्य इति ।। ‘ममैवांशः’ इति श्लोके इत्यर्थः । तत्परि-मार्गणीयत्वादिना स्वरूपमेव प्रकृतं नतु स्थानादिकम् । तस्य परिमार्गणीयत्वादियोगादिति भावः । मूलकारणादित्यादिना प्रकृतिस्थानि इत्येतत् त्रेधा व्याख्यातं भवति । पूर्वोक्त-विरोधादिति ।। ‘न हि प्रतिबिम्बस्य क्रिया च’ (२.१९) इत्याद्युक्तविरोधादित्यर्थः ।। ८ ।।
भावदीपः
‘प्रकृतिस्थानीन्द्रियाणि कर्षति’ इत्यत्र कस्मात् कर्षणम्? किं निमित्तं च कर्षति? इत्याकाङ्क्षायामाह – शरीरावाप्तौ मूलकारणादित्यादिना ।। पूर्वोक्ते-नेति ।। ‘न हि प्रतिबिम्बस्य क्रिया च’ (२.१९) इत्यादिना जीवास्वातन्त्रस्य द्वितीये समर्थनेन तद्विरोधादित्यर्थः ।।
भावरत्नकोशः
।। पूर्ववाक्ये ‘ममैवांशः’ इति श्लोके । उत्तरम् ‘शरीरं यदवाप्नोति’ इति वाक्यम् । इति व्याख्यानमिति ।। तथा च शङ्करः ‘यच्चापि यदा च आशु उत्क्रामतीश्वरो देहादिसङ्घातस्वामी जीवः’ इति । रूढार्थेति ।। यद्यपि ‘ईश्वरः शर्व ईशानः शङ्करः’ इतीश्वरशब्दः शङ्करे लोकतो रूढः । तथापि ‘बिभर्त्यव्यय ईश्वरः’ ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इत्यादौ ईश्वरशब्दस्य भगवत्येव प्रयोगात् ‘ईश्वरो विक्रमी धन्वी’ इति विष्णुसहस्रनामस्तुतस्य तस्य विष्णावेव प्राज्ञप्रसिद्धेः, ‘बिभर्त्यव्यय ईश्वरः’ इत्यत्र ‘ईश्वरः ईशनशीलो नारायणाख्यः’ इति स्वेनैव योगरूढेर्भाषितत्वाच्च तत्परित्याग एव परपक्षे दोष इत्यभिप्रायेणेवमुक्तम् । मूलकारणात् कर्षति शरीरात् कर्षति । गोलकशब्देन इन्द्रियाधिष्ठाना-वयवविशेषग्रहः । प्रत्याहारादिकाले विषयेभ्य इन्द्रियाणि चक्षुरादीनि आन्तरं विषयं प्रति कर्षतीति विषय आदिपदार्थः । अनेन ‘प्रकृतिस्थानि कर्षति’ इत्येतत् त्रेधा व्याख्यातं भवति । तस्य जीवस्य नियामकान्तरानुक्त्या ‘जीवस्य विषयान् प्रतीन्द्रियाकर्षणे शक्तिप्रदोऽन्योऽस्ति नियामकः’ इत्यनुक्त्या स्वातन्त्र्यं प्रतीतमिति ।। ‘कर्षति’ इत्याख्यातार्थो हि कर्ता, कर्ता च स्वतन्त्रः, ‘स्वतन्त्रः कर्ता’ इति पाणिनिवचनादिति भावः । पूर्वोक्तविरोधादिति ।। ‘न हि प्रतिबिम्बस्य क्रिया, स हि बिम्बक्रिययैव क्रियावान्’ इति द्वितीयादौ जीवास्वातन्त्र्यस्योक्तत्वेन तद्विरोधादित्यर्थः । ‘तत् कर्षणे स्वातन्त्र्यं निवारयति’ इति वदन् ‘ईश्वरदत्तस्वातन्त्र्येण जीवः इन्द्रियाणि विषयान् प्रति कर्षति’ इत्येव पूर्ववाक्यं व्याख्यातव्यम् । तथा च पाणिनिवचनमपि अनुकूलितमित्यभिसन्धत्ते ।
भावदीपिका
।। तद्विषयमिति ।। जीवविषयमित्यर्थः । ईश्वरपदं तु जीवयोगेन सावकाशम्, सोऽपि हि स्वशरीरेन्द्रियादीनाम् ईष्ट इति भावः । रूढार्थेति ।। ‘ईश्वरः क्षमणः क्षामः’ इति वचनेन विष्णुरेवेश्वरपदमुख्यार्थत्वेन प्रसिद्ध इति भावः । ‘प्रकृति-स्थानि’ इत्येतत् त्रेधा व्याचष्टे– शरीरावाप्तावित्यादिना ।। शरीरप्राप्तिरूपोत्पत्तिकाले प्रकृतिस्थानि पूर्वं स्वमूलकरणे स्थितानि इन्द्रियाणि मूलकारणाच्छरीरं प्रकर्षति । तथोत्क्रमणे मरणकाले पूर्वं प्रकृतिस्थानि स्वशरीरस्थानीन्द्रियाणि शरीरात् मूलकारणं प्रति कर्षति । तथा स्थितिसमये प्रकृतिस्थितानि स्वस्वगोलकेषु स्थितानीन्द्रियाणि गोलकेभ्यो विषयान् प्रति कर्षति, इत्येवं ‘प्रकृतिस्थानि’ इत्यस्य मूलकारणशरीरगोलकरूपार्थत्रयम् अभिप्रेत्य योजितं भवति । पूर्वत्रोक्तमिति ।। ‘ममैवांशः’ इति श्लोक इत्यर्थः । पूर्वोक्तेति ।। ‘न हि प्रतिबिम्बस्य क्रिया’ इति पूर्वमस्वातन्त्र्यस्य प्रतिपादितत्वेन तद्विरोधादित्यर्थः । तदिति ।। इन्द्रियकर्षणादि-रूपमित्यर्थः । ‘लोकान्तरं च’ इत्यनन्तरं ‘विषयान् प्रति च’ इति शेषः कार्यः । तथा चेश्वरः मूलकारणाद् इन्द्रियाणि गृहीत्वा शरीरं संयाति, उत्क्रमणे शरीरादेतानि गृहीत्वा मूलकारणं संयाति, स्थितौ गोलकेभ्य एतानि गृहीत्वा विेयान् प्रति संयातीत्यर्थः ।
भावप्रकाशः
।। पूर्ववाक्य इति ।। ‘ममैवांशः’ इति श्लोक इत्यर्थः । मूलकारणत्वादित्यादिना प्रकृतिस्थानीत्येतत् त्रेधा व्याख्यातं भवति । गोलकादिभ्य इति ।। इन्द्रियाधिष्ठानं गोलकशब्दार्थः । आदिपदेनेन्द्रियविषययोः ग्रहणम् । अयमर्थः । गोलकेभ्यो विषयान् प्रति इन्द्रियाणि कर्षति यदा जीवः प्रणिधानादिकं करोति तदा मनस्तदधिष्ठान-भूत-चक्षुरादिबाह्येन्द्रियेभ्यो विषयविशेषान् प्रति कर्षति । एवं प्रत्याहारादिकाले विषयविशेषोप-क्षीणानि चक्षुरादीनि तेभ्यो विषयान्तराणि प्रति कर्षति । इत्येवं गोलकादिभ्यो विषयान् प्रति कर्षतीति । पूर्वोक्तेति ।। ‘न हि प्रतिबिम्बस्य क्रिया’ इत्याद्युक्तविरोधादित्यर्थः । ईश्वरस्यैव तत्प्रतिपादयन्निति ।। इन्द्रियकर्षणादिरूपमित्यर्थः ।।
ननु ‘शरीरं यत्’ इति श्लोके ईश्वरस्वातन्त्र्यं जीवस्य तदभावश्च न प्रतीयते । ततो नेदं व्याख्यानं युक्तमिति चेदुच्यते । जीवः इन्द्रियाणि कर्षतीति यदुक्तं तदेव ‘शरीरं यत्’ इति श्लोकेन नियामकान्तरोक्त्या व्याख्यायते । तत्र चेश्वरपदेन तस्य स्वातन्त्र्यमुच्यते ‘वायुर्गन्धानिव’ इति दृष्टान्तोक्त्या च तत्सूच्यते । वायोर्गन्धोपादानेऽन्यानपेक्षत्वात् । ततश्चोक्तव्याख्यानं युक्तमेवेति । नचैवं जीवः कर्षतीति कथमिति वाच्यम् । ‘अपो दहत’ इतिवदुपपत्तेरित्याशयात् ।