एतां दृष्टिमवष्टभ्य नष्टाऽत्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। ९ ।।

एतां दृष्टिमवष्टभ्य नष्टाऽत्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। ९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एतां ‘जगदसत्यम्’ इत्यादिनोक्तां दृष्टिं मिथ्याऽध्यवसायम् अवष्टभ्य आश्रित्य नष्टात्मानः दुष्टचित्ताः आगामिनिश्चितनाशस्वरूपा वा अल्पा अल्पविषया, महति भगवति अल्पजीवाभेदावगाहिनी वा बुद्धिर्येषां ते तथाक्ताः, उग्रं क्रूरं मिथ्याशास्त्रनिर्माणतदुपदेशादिरूपं कर्म व्यापारो येषां ते उग्रकर्माणः जगतोऽहिताः शत्रवः । कथं जगतः क्षयाय नाशाय नरकप्राप्त्याद्यनिष्टाय प्रभवन्ति समर्था भवन्ति, कलियुगादावुद्भवन्ति वा ।। ९ ।।