वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही।। २२ ।।
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।। २२ ।।
भाष्यम्
देहात्मविवेकानुभवार्थं दृष्टान्तमाह– वासांसीति ।। २२ ।।
भावप्रदीपिका
देहात्मनोः प्राक्प्रतिपादितो विवेको नानुभवारूढोऽत्यभिमानित्वात् । तदर्थं दृष्टान्तमाहे-त्युत्तरश्लोकमवतारयति– देहेति ।। २२ ।।
भावप्रकाशिका
आत्मनो देहे व्याप्तत्वात् प्रायः प्राणिनां व्यवहारापाटवात् भेदज्ञानेऽपि तयोरङ्गारवह्निवद-विविक्तव्यवहारो भवतीति दृष्टान्तमुखेनापि तद्विवेकमनुभवरूपं दृढीकरोतीत्याह– देहेति ।।२२।।
प्रमेयदीपिका
देहानामपगमोपगमयोरप्येक एवायमात्मेत्येतत् ‘देहिनोऽस्मिन्’(२.१३) इत्यत्रैव सदृष्टान्तमुक्तम् । अतो ‘वासांसि’ इति व्यर्थोऽयं श्लोक इत्यत आह– देहेति ।। कौमारादि-देहानामतिभिन्नत्वाभावान्न तेन देहात्मनोर्विवेको विनाशित्वाविनाशित्वादिलक्षणः स्पष्टमनु-भवारूढो भवतीति भावः । दृष्टान्तं ‘पूर्वोक्ताद्विलक्षणम्’ इति शेषः । दृष्टान्तमित्युपलक्षणम् । दार्ष्टान्तिकस्यापि कथितत्वात् ।। २२ ।।
भावरत्नकोशः
यथा कौमारमित्याद्युक्तेस्सदृष्टान्तमित्युक्तम् । प्रत्यभिज्ञानेनैकतया सिद्धस्य देहरूप-स्यावयवोपचयापचयाभ्यां तत्तत्परिणामतया विकारदर्शनादुक्तम्– अतिभिन्नत्वाभावादिति ।। आविपालगोपालं देहात्मविवेक आजानसिद्ध इति न स दृष्टान्तेनोपपादनीय इत्याशङ्क्यात्र विवक्षितं विवेकशब्दार्थमाह– विनाशित्वाविनाशित्वलक्षण इति ।। दुर्ग्रहमर्थं बुद्धिमारोहयितु-मवश्यं वक्तव्यस्य दृष्टान्तस्य यथा देह इत्युक्तत्वादाह पूर्वोक्ताद् विलक्षणमिति ।। देहा-नामपगमोपगमयोरप्येक एवायमात्मेत्येतद् देहिनोऽस्मिन्नित्यत्रैव सदृष्टान्तमुक्तम् । तथाऽपि कौमारादिदेहानामतिभिन्नत्वाभावान्न तेन देहात्मनोर्विनाशित्वाविनाशित्वलक्षणो विवेकः स्पष्ट-मनुभवारूढो भवतीत्यतो दृष्टान्तान्तरेण पूर्वोक्ताद् विलक्षणेनैक एवायमात्मेत्येतत् प्रत्याय्यते– वासांसीति ।। गीताक्षरार्थस्तु स्पष्टः ।। २२ ।।
भावदीपिका
अतिभिन्नत्वाभावादिति ।। अभेदस्यापि सत्त्वादिति भावः ।। पूर्वोक्ताद् विलिक्षण-मिति ।। अत्यन्तभेदोपेतमित्यर्थः ।। कथितत्वादिति ।। उत्तरार्धेनेति शेषः ।। २२ ।।
भावप्रकाशः
अनतिभिन्नत्वादिति ।। अवस्थितस्यैव द्रव्यस्यावयवोपचयापचयाभ्यां तत्तत्परिमाणतया विक्रियमाणत्वादिति भावः । एतच्च सौगतपरीक्षायामभेदेऽपि विशेषेणेत्यनुव्याख्यानसुधायां स्पष्टम् ।। २२ ।।