तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ।। २५ ।।
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ।। २५ ।।
भाष्यम्
तत् फलं मे स्यात् इत्यनभिसन्धाय ।। २५ ।।
भावप्रदीपिका
तत् इत्यस्यान्वयं सूचयति– तदिति । तत्फलं मे स्यादित्यनभिसन्धाय क्रियमाणत्वात् किञ्चित् तेषां तच्छब्दवाच्यताऽपीत्यर्थः ।। २५ ।।
प्रमेयदीपिका
‘तदित्यनभिसन्धाय’ इति वाक्यं ब्रह्मणीव यज्ञादावपि तच्छब्दस्य प्रवृत्तिं प्रतिपादयतीति ज्ञापयितुं योजयति– तदिति ।। वेदोक्तं स्वर्गादिकम्
।। २५ ।।
भावदीपः
।। प्रतिपादयतीति ।। ‘भगवान्’ इति योज्यम् । ‘ज्ञापयति’ इत्यत्राप्येवं ज्ञेयम् ।। २५ ।।
भावरत्नकोशः
परमेश्वरस्य परोक्षत्वं हि तच्छब्दप्रवृत्तिनिमित्तम् । वेदोक्तं स्वर्गादिफलं च परोक्षमेवेति तत्साधयतो यज्ञादेर्युक्तं तच्छब्दवाच्यत्वमिति भावेन तच्छब्दार्थ-माह– वेदोक्तं स्वर्गादिकमिति ।।
गीताक्षरार्थस्तु– एवं तच्छब्दोऽपि ब्रह्मणीव यज्ञदानतपआद्येषु प्रवर्तन्ते इति भावेनोच्यते– तदिति ।। वेदोक्तं फलं स्वर्गादिकम् अनभिसन्धाय ‘मम स्यात्’ इति अभिसन्धिं विना मोक्षकाङ्क्षिभिः मुमुक्षुभिः विविधा यज्ञदानतपःक्रिया दानक्रियाश्च क्रियन्ते निर्वर्त्यन्ते । अत्र ‘तत् वेदैकवेद्यं ब्रह्म अभिसन्धाय च’ इत्यपि ग्राह्मम् । तेन ब्रह्मणि यज्ञादौ च तच्छब्दस्य प्रवृत्तिरावेदिता भवति ।। २५ ।।
।। तच्छब्दप्रवृत्तिनिमित्तमिति ।। वेदवेद्यत्वेन निमित्तेनेति शेषः ।। २५ ।।