अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ।। ५ ।।

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ।। ५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यक्षरक्षोभूतप्रेतगणयाजिनो राजसास्तामसा इत्युक्तम् । इतोऽपि तन्निष्ठैव विविच्योच्यते – अशास्त्रविहितमिति द्वाभ्याम् ।। ये जनाः वेदादिशास्त्रविरुद्धम् अशास्त्रम् दुरागमः, तद्विहितं तत्र कर्तव्यत्वेनोक्तं भगवच्छ्रद्धाविरहितत्वात् शास्त्रविहितमपि अशास्त्रविहितमिति वा घोरं भूतभयङ्करं तपस्तप्यन्ते निर्वर्तयन्ति । तत्र हेतूक्तिः दम्भाहङ्कारसंयुक्ताः । दम्भः लोकवचनम्, अहङ्कारः ‘अहमेव क्रियाकर्ता’ इत्यभिमानः, ताभ्यां संयुक्ताः कामरागबलान्विताः कामः दुष्टविषयाभिलाषः, रागः आसक्तिः, तद् बलं तेन अन्विताः । बलम् आग्रहः, तैरन्विता इति वा । ‘तपस्तप्यन्ते’ इत्युपलक्षणम् ‘यज्ञदानजपादि कुर्वन्ति’ इत्यपि ग्राह्यम् ।। ५ ।।