अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।। ५३ ।।

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।। ५३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- अहङ्कारं स्वस्य कर्तृत्वाभिमानं बलं समर्थ-ताऽभिमानं दर्पं मदात् समुपनतभीतिहेतोरदर्शनं कामम् अभिलाषं क्रोधं द्वेषं परिग्रहं देहधारण-मात्रानुकूलपरिग्रहाद् अधिकं विमुच्य विशेषेण मुक्त्वा निर्ममः ‘ममेदं कर्म’ इति ममताभिमान-हीनः शान्ता भगवन्निष्ठबुद्धिः, हेतुभिरपि अनुत्थितकोपः इति स्वामिनः । ब्रह्मभूयाय ब्रह्मणि भावः ब्रह्मभूयम् ब्रह्मणि स्थितिः सर्वदा तन्मनस्कतेति यावत् कल्पते ।। ५३ ।।