ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ।। ५ ।।

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ।। ५ ।।

भाष्यम्

ब्रह्मसूत्राणि शारीरकम् (शारीरकसूत्राणि) ।। ५ ।।

भावप्रदीपिका

एवं ब्रह्मसूत्राणां ब्रह्ममीमांसात्वात् कथं क्षेत्राख्य-शरीरपरता ? इत्यत आह– ब्रह्मेति ।।

प्रमेयदीपिका

ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि। ततश्च छन्दसामृषिवाक्यानां च तथात्वात् ‘ऋषिभिः’ इत्यादिकं वृथा स्यादित्यतो रूढि-माश्रित्याह– ब्रह्मेति ।। ५ ।।

भावरत्नकोशः

।। छन्दसां वेदानाम् ऋषिवाक्यानां व्यासादिवचनानां तथात्वात् ब्रह्मसूचकवाक्यत्वात् । रूढिमपीति ।। न केवलम् उक्तयोगम्, रूढिमपि । तथा च योगरूढोऽयं ब्रह्मसूत्रशब्द इति ‘ऋषिभिः’ इत्यादिकमप्यर्थवदिति भावः ।।

 गीताक्षरार्थस्तु श्रोतुरत्यादरजननाय स्वेनोच्यमानं प्रामाणिकमित्युच्यते– ऋषिभि-रिति ।। बहुधा बहुप्रकारेण विविधैश्छन्दोभिः वेदैः पृथग् विवेकतो गतिम् ‘गै शब्दे’, निरूपितं हेतुमद्भिः न्यायोपेतैः, अत एव विनिश्चितैः विशिष्टं निश्चितं निश्चयो यैस्तानि तथा, तैः निश्चयप्रत्ययोत्पादकैः । ब्रह्मसूत्रपदैः शारीरकसूत्राक्षरैश्च गीतम् । एवं तत्र तत्र विस्तरेणोक्तं सर्वं सङ्क्षिप्य वच्मि, तच्छृण्विति पूर्वेण सम्बन्धः ।। ५ ।।

भावदीपिका

।। सूचकानीति ।। प्रतिपादकानीत्यर्थः । तथात्वात् ब्रह्मप्रतिपादकत्वादित्यर्थः ।। ५ ।।