दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ।। ११ ।।

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ।। ११ ।।

भाष्यम्

सर्वाश्चर्यमयं सर्वाश्चर्यात्मकम् ।। ११ ।।

भावप्रदीपिका

मयटो विवक्षितार्थमाह– सर्वेति ।। ११ ।।

प्रमेयदीपिका

‘सर्वाश्चर्यमयम्’ इति केनचित् प्राचुर्यार्थो मयड्-व्याख्यातः । तदसत् । सर्वशब्देन गतार्थत्वादिति भावेनाऽह– सर्वेति ।। मयट-स्तादात्म्यार्थत्वे प्रमाणमुक्तमेव ।। ११ ।।

भावदीपः

।। प्रमाणमुक्तमिति ।। ‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इत्युक्तं सप्तमाध्याय इत्यर्थः ।। ११ ।।

भावरत्नकोशः

केनचित् ‘सर्वाश्चर्यप्रायम्’ इति भाषमाणेन शङ्करेण ‘सर्वै-राश्चर्यैः प्रचुरम्’ इति व्याचक्षाणेन केशवसाक्षिणा च । गतार्थत्वादिति ‘सर्वैराश्चर्यैः प्रचुरम्’ इत्यत्र सर्वशब्देनैव प्राचुर्यस्य लाभेन पुनर्मयटो न प्रयोजनं परव्याख्यान इति भावः । तदात्मकत्वार्थे मयडनुशासनं न प्रसिद्धव्याकरणेऽस्ति, इत्यत आह– मयट इति ।। उक्तं ‘त्रिभिर्गुणमयैर्भावैः’ इत्यत्र ‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इति सप्तमे ।।११।।

गीताक्षरार्थस्तु- धरतीति धरम्, दिव्यानां माल्यानां पुष्पाणाम् अम्बराणां च धरं धर्तृ । दिव्यो गन्धः परिमलो यस्य तद्् दिव्यगन्धम् अनुलेपनम् अङ्गरागो यस्य तत् तथा । सर्वाश्चर्यमयं तादात्म्ये मयट््, सर्वाश्चर्यात्मकं देवं क्रीडादिगुणकम् अनन्तं देशतः कालतो गुणतश्च परिच्छेदहीनं विश्वतोमुखं ‘विश्वत’ सार्वविभक्तिकस्तसिः प्रथमार्थे, विश्वानि अनन्तानि मुखानि यस्य तत्् तथा । ‘अनेकवक्त्रनयनम्’ इत्यनेन लब्धस्यापि पुनरुक्तिरादरेण तात्पर्य-द्योतनार्था, सर्वदिगवस्थितमुखमिति वा । ‘रूपं दर्शयामास’ इत्यनुषङ्गः ।। ११ ।।

भावदीपिका

।। गतार्थत्वादिति ।। आश्चर्यप्रचुरत्वं नाम बह्वाश्चर्यवत्त्वम् । इदं च सर्वशब्देनैव लब्धम् । अतो मयट् व्यर्थ इत्यर्थः । उक्तमेवेति ।। ‘त्रिभिर्गुणमयैः’ इत्येतद्व्याख्यानावसरे ‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इति सप्तमे प्रमाण-मुक्तमेवेत्यर्थः । ‘सर्व’ इति भाष्यस्य ‘सर्वलोकेषु सर्वापेक्षया ये आश्चर्यभूता गुणाः, तदात्मकम्’ इत्यर्थः ।। ११ ।।

भावप्रकाशः

 ।। उक्तमेवेति ।। ‘त्रिर्भिगुणमयै’रित्येतद्व्याख्यावसरे ‘तादात्म्यार्थे विकारार्थे’ इत्यनेनेति शेषः ।। ११ ।।