य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।। ६८ ।।

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।। ६८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- गीताव्याख्यानमध्ययनं श्रवणं च फलकथनेन स्तूयते– य इत्यादिना ।। यः साधकः परमं गुह्यम् अतिगोप्यम् इमम् आवयोः संवादरूपं ग्रन्थं मद्भक्तेष्वभिधास्यति व्याख्यास्यति स मयि परां भक्तिं कृत्वा मामेवैष्यति इत्यत्र असंशयः संशयाभावः । ‘... असन्देहः प्रयोजनम्’ इत्यत्रेव ‘असंशयः’ इति प्रयोगः । ‘यः’ इत्यस्य ‘असंशयः’ इत्येतद्विशेषणमिति आहुः ।। ६८ ।।