त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे ।। ३ ।।
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपः कर्म न त्याज्यमिति चापरे ।। ३ ।।
भाष्यम्
मनीषिणः इति विशेषणात् पूर्वपक्षोऽपि ग्राह्य एव । फलत्यागेन त्यागो विवक्षितः । यज्ञादेस्तत्पक्षे । ‘यस्तु कर्मफलत्यागी’ (१८.११) इति च वक्ष्यति । अत एक एवायं पक्षः ।। ३ ।।
भावप्रदीपिका
यज्ञदानतपः कर्म न त्याज्यम् इति श्रवणात् त्याज्यं दोषवत् इति पक्षो हेय इति न शंक्यमित्याह– मनीषिण इति । तर्हि कृष्णमतविरोध इत्यत आह– फलेति । त्यागशब्दः फलत्यागमात्रे कथं पर्यवस्यति ? इत्यत आह– यस्त्वति । यतो न भगवन्मतविरोधः, अतोऽयमेक एव पक्ष इत्याह– अत इति ।।
प्रमेयदीपिका
‘त्याज्यं दोषवत्’ इत्यनेन ‘हेयः कापिलानां पक्ष उपन्यस्तः’ इति केचित्। तदसदिति भावेनाऽह– मनीषिण इति ।। पूर्वपक्षः पूर्वोपन्यस्तः पक्षः । ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ’ (१८.५) इति भगवन्मतविरुद्धोऽसौ कथं ग्राह्यः? इत्यत आह– फलत्यागेनेेति ।। फलत्यागाभि-प्रायेण यज्ञादेः त्यागो विवक्षितः तत्पक्षे न स्वरूपतः । कुतः? मनीषिणः इति विशेषणादेव । अतो न भगवन्मतविरुद्धोऽसौ । कर्मत्यागशब्दः कथं फलत्यागे-नार्थेनार्थवान्? इत्यत आह– यस्त्विति ।। नन्वेवं सति पूर्वोत्तरार्धोपन्यस्तयोः पक्षयोरविरोध आपद्यत इति चेत् सत्यमित्याह– अत इति ।। अतः मनीषिपक्षत्वात् एकः अविरुद्धः । अयं पूर्वोत्तरार्धोपन्यस्तः । किन्त्वापातप्रतीतिमपेक्ष्य सन्देहबीजत्वेन विप्रतिपत्तिरियमुद्भावितेति भावः ।। ३ ।।
भावबोधः
।। पूर्वोपन्यस्त इति ।। ‘यज्ञदानतपःकर्म न त्याज्यमिति चापरे’ इत्येतदपेक्षयेत्यर्थः । अविरुद्ध इति ।। न त्याज्यमित्युत्तरपक्षेऽपि फलत्यागेन स्वरूप-करणस्य विवक्षितत्वादिति भावः । आपातप्रतीतिमिति ।। ‘त्याज्यं ’ इत्यनेन स्वरूपत्याग एवोच्यते, न त्याज्यमित्यनेन फलेच्छया कर्तव्यत्वमुच्यते इत्यापातप्रतीतिमित्यर्थः ।। ३ ।।
भावदीपः
।। पूर्वोपन्यस्त इति ।। ‘त्याज्यम्’ इति श्लोके पूर्वोत्तरार्धयोः ‘एके अपरे ’इत्युक्तपक्षयोर्मध्ये पूर्वार्धोपन्यस्तः पक्ष इत्यर्थः ।। फलत्यागेन इति वाक्यस्य ‘ग्राह्यः’ इत्यन्तवाक्येन अन्वयमाह – अत इति ।। अविरोध इति ।। फलत्यागानुमानस्य पक्षद्वयेऽपि साम्याद् इति भावः ।। कुतस्तर्हि पक्षभेदोपन्यासः इति पृच्छायामाह– किन्त्वि-त्यादिना ।। आपातेति ।। कर्मणस्त्यागरूपापातप्रतीतिमित्यर्थः ।। अपेक्ष्य इत्यस्य उद्भाविता इत्यनेनान्वयः ।। ३ ।।
भावरत्नकोशः
।। ‘हेयः’ इति साधुकपिलपक्षव्यावृत्त्यर्थमुक्तम् । ‘पूर्वपक्षो ग्राह्यः’ इत्यलौकिकम् इत्यत आह– पूर्वोपन्यस्त इति ।। ‘त्याज्यं दोषवदित्येके’ इत्यर्धोपन्यस्त इत्यर्थः । असौ ‘कर्मयज्ञादिकं त्याज्यम्’ इति पूर्वोपन्यस्तः पक्षः । तत्पक्षे पूर्वोपन्यस्तपक्षे । कुतः यज्ञादेः स्वरूपतस्त्यागो न विवक्षित इत्ययमर्थः कस्मात् प्रमाणाद् अवसेय इत्यर्थः । अतः ‘त्याज्यं कर्म’ इति आद्यपक्षस्य फलत्यागाभिप्रायकत्वात् । असौ पूर्वार्धोपन्यस्तः । ‘इति भावः’ इति शेषः । शङ्कते– कर्मत्यागशब्द इति ।। ‘अतः’ इत्यनु-वादः, ‘मनीषिपक्षत्वाद्’ इति व्याख्या । करणाकरणपक्षयोरिति भेदात् कथमेकत्वम् इत्यत उक्तम्– एकः अविरुद्ध इति ।। ‘न त्याज्यम्’ इत्युत्तरार्धोपन्यस्तपक्षेऽपि फलत्यागेन स्वरूपकरणस्य विवक्षितत्वात् । ‘त्याज्यं कर्म’ इत्यत्रापि फलत्यागस्यैवाभिसंहितत्वादिति भावः । एवं तर्हि ‘एके’ इति, ‘अपरे’ इति च विप्रतिपत्त्युद्भावनं कथम् इति पृच्छति– किन्त्विति ।। आपातप्रतीतिमिति ।। ‘त्याज्यम्’ इत्यनेन कर्मणः स्वरूपतस्त्याग उच्यते, ‘न त्याज्यम्’ इत्यनेन च स्वरूपतोऽत्याग इति झटिति उत्पन्नापरामर्शपूर्वकप्रतीतिमित्यर्थः ।।
गीताक्षरार्थस्तु ‘सर्वकर्मफलत्यागम्’ इति स्वोक्तत्यागस्वरूपावधारणाय आपातप्रतीति-मपेक्ष्य सन्देहबीजत्वेन विद्वन्मतविप्रतिपत्तिरुद्भाव्यते– त्याज्यं दोषवदिति ।। एके मनीषिणः पण्डिताः कर्म काम्यं त्याज्यं प्राहुः । कुतः दोषवत् । हिंसाबन्धकत्वाख्यदोषवद् इति हेत्वर्थगर्भं विशेषणम्, दोषयुक्तत्वादित्यर्थः । अपरे तु मनीषिणः यज्ञदानतपांसि कर्म कर्तव्यत्वेन विहितो धर्मः, यद्वा द्वन्द्वैकवद्भावः । कर्म नित्यनैमित्तिकलक्षणं तन्न त्याज्यमिति प्राहुः । अत्र पूर्वोत्तरार्धोपन्यस्तौ पक्षौ अविरुद्धावेव, फलत्यागाभिपायेणैव यज्ञादेस्त्यागो विवक्षितः । पूर्वोपन्यस्तपक्षे न स्वरूपत्यागः । कुतः ‘मनीषिणः’ इति विशेषणादेव । एवमपि कर्मत्याग-शब्दः कथं फलत्यागेनार्थेन अर्थवान् इति चेत् ‘सर्वकर्मत्यागं ततः कुरु’ इति, ‘यस्तु कर्मफलत्यागी’ इति च भगवतैव कर्मत्यागशब्दाभिप्रायाविष्करणाद् इत्यवेहीति भाष्यटीकयोः स्फुटम् ।। ३ ।।
भावदीपिका
वक्ष्यमाणरीत्या ‘त्याज्यम्’ इत्युक्तपक्षस्यापि सिद्धान्तत्वेन पूर्वपक्षत्वाभावादाह– पूर्वोपन्यस्तमिति ।। ‘यज्ञदान’ इत्येतदपेक्षया पूर्वोपन्यस्त इत्यर्थः । अविरुद्ध इति ।। ‘न त्याज्यम्’ इत्युक्तपक्षेऽपि फलत्यागेन स्वरूपकरणस्य विवक्षितत्वादिति भावः । नन्वेवम् उभयोरपि पक्षयोरविरुद्धत्वे ‘एके’, ‘अपरे’ इति विप्रतिपत्तिः कथमुद्भावि-तेत्याशयेन पृच्छति – किन्त्विति ।। उत्तरमाह– आपातेति ।। ‘त्याज्यम्’ इत्यनेन स्वरूपत्याग एवोच्यते, ‘न त्याज्यम्’ इत्यनेन फलेच्छया कर्तव्यत्वमुच्यत इत्यापात-प्रतीतिमपेक्ष्येत्यर्थः ।। ३ ।।
भावप्रकाशः
साधुकापिलपक्षव्यावृत्त्यै ‘हेय’ इत्युक्तम् । पूर्वपक्षस्य व्याहतत्वं व्याहतमित्यत आह– पूर्वोपन्यस्त इति ।। अविरुद्ध इति ।। ‘न त्याज्यम्’ इत्युत्तरपक्षेऽपि फलत्यागेन स्वरूपकरणस्य विवक्षितत्वादिति भावः । तर्हि ‘एके अपरे इति विप्रतिपत्त्युद्भावनं कथमित्याशयेन पृच्छति– किन्त्विति ।। उत्तरमाह– आपातेति ।। त्याज्यमित्यनेन स्वरूपत्याग एवोच्यते । ‘न त्याज्यम्’ इत्यनेन तु कर्तव्यत्वमित्यापात-प्रतीतिमित्यर्थः ।। ३ ।।