अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ।। ३६ ।।

अर्जुन उवाच–

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ।। ३६ ।।

भाष्यम्

बहवः कर्मकारणाः सन्ति । क्रोधादयः कामश्च । तत्र को बलवान्? इति पृच्छति– अथेति ।। अथेत्यर्थान्तरम् । ‘तयोर्न वशमागच्छेत्’ (३.३४) इति प्रश्नप्रापकम् ।। ३६ ।।

भावप्रदीपिका

ननु पापप्रेरकं भगवन्तं देवांश्च जानन्नर्जुनः कथं तं पृच्छति ? इत्यत आह– बहव इति ।। ‘क्रोधादयः’ इत्यनेन पूर्वश्लोकोक्तं ‘द्वेष’पद-मन्योपलक्षकमित्युक्तं भवति ।। ‘अथ’शब्दस्य विवक्षितार्थमाह– अथेति ।। प्रकरणान्तरस्य का सङ्गतिः ? इत्यत आह– तयोरिति ।। ३६ ।।

भावप्रकाशिका

शुभाशुभयोः प्रवर्तकमीश्वरं ब्रह्मादींश्च जानात्येवार्जुनः । केवलाशुभप्रवर्तकानपि बहून् जानाति भगवतोक्तान् क्रोधादीन् कामं च । अतस्तत्र बलवन्तमेव पृच्छतीत्याह– बहव इति ।। प्रकरणविच्छेदज्ञापकः  ‘अथ’शब्द इत्याह– अथेति ।। प्रकरणान्तरसङ्गतिबीजमाह– तयोरिति ।। ३६ ।।

प्रमेयदीपिका

‘अथ केन’ इत्यर्जुनप्रश्नोऽनुपपन्नः। ‘तौ ह्यस्य परिपन्थिनौ’ (३.३४) इति रागद्वेषयोः परिपन्थित्वस्योक्तत्वात् । नहि पापप्रयोजकत्वादन्यद्रागादेः पुरुषपरिपन्थित्वमित्यतः प्रश्नाभिप्रायमाह– बहव इति ।। कारणशब्दः करोतेर्ण्यन्तात् करणे ल्युडन्तः । सच त्रिलिङ्गः । ‘अयमनुमानः’ इति भाष्ये प्रयोगात् । अथवा ‘ण्यास-श्रन्थो युच्’ (पा.सू.३.३.१०७) इति करणे युच् । अयं च स्त्रीलिङ्गः । बहवः इत्यपि स्त्रीलिङ्ग एव । ‘वोतो गुणवचनात्’ (पा.सू.४.१.४४) इति विकल्पविधानात् । ‘कर्म’ इति पापं विवक्षितम् । द्वयोरेवोक्तत्वात् कथं ‘बहवः’ इत्यनुवादः? इत्यत आह– क्रोधादय इति ।। पूर्वं भगवता द्वेषशब्देन मदमत्सरादयोऽप्युपलक्षिताः । अरिषड्वर्ग-प्रसिद्धेः । तदेतद् विदित्वैवमनुवदतीति भावः ।

रागशब्देन कामः, द्वेषशब्देन क्रोधादयश्च त्वयोक्ता इत्यर्थः । अस्य प्रश्नस्य प्रकृते क उपयोगः? इत्यत आह– अथेति ।। नास्य प्रकृतेन हेतुहेतुमद्भावादिलक्षणा सङ्गतिरिति स्वयमेव सूचितमित्यर्थः ।। ‘अथ’ इति शब्देनार्थान्तरमिदम् इति सूच्यते । तर्ह्यसङ्गतं न प्रष्टव्यमित्यतः सङ्गत्यन्तराभावेऽपि प्रासङ्गिकी सङ्गतिरस्तीत्याशयवान् प्रसङ्गं दर्शयति–तयोरिति ।। तत्रापि यो बलवांस्तं प्रति महान्तं यत्नं करिष्यामीति भावेन प्रश्नो युक्त एवेति भावः ।। ३६ ।।

भावबोधः

ननु युच एव ण्यन्तात् ल्युटोऽपवादकत्वात् कथं ल्युट्?इत्यत आह– अथवेति ।। अत्र करोतिर्ण्यन्त इति भावः ।। विकल्पविधानादिति ।। ङीप इत्यर्थः ।। ३६ ।।

भावदीपः

ननु परिपन्थित्वोक्त्या कथं पापप्रयोजकत्वलाभः? इत्यत आह– नहीति ।। ण्यन्तात् करणे ल्युडिति ।। कृधातोः स्वार्थे णिच्प्रत्यये, ‘अचोऽञ्णिति’ (पा.सू. ७.२.११५) इति वृद्धौ कारीति रूपे सति, ततः ‘करणाधिकरणयोश्च’ (पा.सू.३.३. ११७) इति करोत्यनेनेति करणे ल्युट्प्रत्यये, आद्यानुबन्धयोर्लोपे, ‘युवोरनाकौ’ (पा.सू. ७.१.१)इत्यनादेशे, ‘रषाभ्याम्’ (पा.सू.८.४.१) इति णत्वे, ‘णेरनिटि’ (पा.सू.६.४. ५१) इति णिलोपे, ‘कारणाः’ इति रूपमिति भावः ।। ल्युडन्तस्य कथं पुंलिङ्गता? इत्यत आह– स चेति ।। नपुंसकं पूर्वत्र प्रकृतं ‘करणोधिकरणयोश्च’ (पा.सू.३.३.११७) इत्यत्र ‘नानुवर्तते’ इति वृत्त्यादावुक्तेरिति भावः । प्रयोगं च तज्ज्ञापकमाह– अयमिति ।। यद्यपि ‘भूवादयो धातवः’ (पा.सू.१.३.१) इति सूत्रे ‘कोऽसावमनुमानो नाम’ इति भाष्यवाक्यम्, तथाऽपि ‘अयम्’ इत्यर्थानुवादः । ‘कारणा’ इति स्त्रीलिङ्गमिति भावेनाऽह– अथवेति ।। ‘करोतेर्ण्यन्तात्’ इत्यनुवर्तते । ण्यास इति ।। णान्ताद्धातोः ‘आस उपवेशने’ इत्यस्मात् स्त्रियां युच्प्रत्यय इति सूत्रार्थः । पूर्ववदेव प्रक्रिया ध्येया ।। अयं च युजन्तश्च स्त्रीलिङ्ग एवेत्यर्थः । तृतीयाध्यायतृतीयपादे ‘कर्मव्यतिहारे णिच् स्त्रियाम्’ (पा.सू.३.३.४३) इति प्रकृतस्त्र्यधिकारे युजो विधानादिति भावः । ‘बह्व्यः’ इति भाव्यमित्यत आह– वोत इति ।। ‘उवर्णान्ताद् गुणवचनात् शब्दात् स्त्रियां ङीष् भवति’ इत्युक्तेः ङीष्भावपक्षे ‘बहवः’ इति रूपमिति भावः । ।। द्वयोरेवेति ।। प्रश्नप्रसञ्जकपूर्वश्लोके ‘तयोः’ इति रागद्वेषयोरेवोक्तत्वादित्यर्थः ।। ३६ ।।

वाक्यार्थप्रदीपः (पां.टि.)– ननु च कारणशब्दस्य नपुंसकलिङ्गत्वात् कथं पुल्लिङ्गप्रयोगः? इत्यत आह– कारणशब्दश्चेति ।। करोतेः णिचि ‘अचो ञिणिति’ इति णित्त्वाद् वृद्धौ रपरतायां च कारिशब्दे निष्पन्ने कारयत्यनेनेति कारण इति करणे ल्युट्भावे ‘करणाधि-करणयोश्च’ इति ल्युटि तस्यानादेशे ‘णेरनिटि’ इति णिलोपे कारणशब्दो निष्पन्न इत्यर्थः । अस्त्वेवं कारणशब्दनिष्पत्तिः । तावताप्युक्तशङ्कापरिहारः कथम्? इत्यतो ‘भावे ल्युडन्त’ इति लिङ्गानुशासनीयसूत्रे भावे विहितो यो ल्युट्प्रत्यय; तदन्तः शब्दो नपुंसकलिङ्गो भवती-त्यभिधानात् । क्षीरस्वामिनापि ‘यदनान्तमकर्तरि । अकर्तरि यदनप्रत्ययान्तं तत्तृतीयम् । साध्यते अनेनेति साधनम् । अधिक्रियन्ते तस्मिन्निति अधिकरणम्’ इति अकर्तरि अनान्तस्य नपुंसकत्वमुपपाद्य कथम् ? आस्थानम् आस्थानी करणं करणी । प्रमाणं प्रमाणी । अधि-करणम्  अधिकरणी, राजधान्यं राजधानी’ इत्यादिना अनप्रत्ययान्तस्य  नपुंसकत्वनियमानु-पपत्तिमाशङ्क्य ल्युटष्टित्त्वात् ‘कृत्यल्युटो बहुलम्’ इति अनन्तानां त्रिलिङ्गत्वस्मरणात् च युक्तो लिङ्गत्रयेऽपि प्रयोगः । अत एव राजभोजनी क्षैरेयी राजभोजनः शालिः राजभोजनं भक्तम् । पूरणी पूरणः पूरणम् । गोदोहनं घटी । गोदोहनी घटः । गोदोहनं भाण्डमिति तत्रतत्र प्रयोग इत्यादिना करणे ल्युडन्तस्य त्रिलिङ्गत्वाध्यावसायात् न तस्य नपुंसकत्वनियम इत्याह– स च त्रिलिङ्ग इति ।।

उक्तार्थेऽभियुक्तप्रयोगं प्रमाणयति– अयमनुमान इति । अनुमीयते अनेनेति करणे ल्युडन्तानुमानशब्दस्य भाष्ये पंुलिङ्गेन निर्देशादित्यर्थः । अस्त्वन्यत्र प्रयोगदर्शनात् करणे ल्युडन्तस्यापि पुंलिङ्गत्वम् । करणे ल्युडन्तकारणशब्दस्य लिङ्गान्तरे प्रयोगादर्शनात् नपुसंकत्व-मेवेत्यत आह– अथवेति ।। अत्र सूत्रे स्त्रियां क्तिन् इत्यतः स्त्रियामित्यनुवर्तते । तथा च ण्यन्तेभ्यः आस– श्रन्थ इत्येताभ्यां च स्त्रियां युच्प्रत्ययो भवतीति सूत्रार्थः । तथा च ‘कारयति अनेनेति कारण’ इति करणे स्त्रियां युचि तस्यानादेशे कारणशब्दः स्त्रीलिङ्ग एव निष्पद्यत इत्याह– अयं चेति ।। ननु तथाऽपि बहुशब्दस्य तद्विशेषणतया बह्व्यः कर्मकारणाः सन्तीति वक्तव्यम् । ‘बहवः’ इति पुल्लिङ्गानुपपत्तिस्तदवस्थैवेत्यत आह– बहव इत्यपीति ।। तदुप-पादयति–  वोतो गुणवचनादिति विकल्पविधानादिति । सूत्रार्थस्तु गुणमुक्तवान् गुणवचनः कृत्यल्युटो बहुलमिति भूते कर्तरि ल्युट् । स पुनः यः प्राग्गुणमभिधाय पश्चात् मतुपो लोपात् अभेदोपचाराद्वा द्रव्यमभिधत्ते स वेदितव्यः । तस्मादुकारान्तात् प्रातिपदिकात् स्त्रियां वा ङीप् भवतीति । ततश्च बहुशब्दोऽपि बहुत्वं गुणमभिधाय पश्चात् द्रव्यमभिधत्ते इति गुणवचनो भवतीति । तस्मादुवर्णान्तात् बहुशब्दात् विकल्पेन ङीष्प्राप्तौ पट्वी पटुः, मृद्वी मृदुः इत्यादिवत् बह्वी बहुः इत्युभयथापि प्रयोगोपपत्तिरिति भावः ।

ननु गुणो नाम कः? यद्वाचित्वेन बहुशब्दात् ङीष् विकल्पित इति चेत् । उच्यते ।

सत्वे निविशतेपैति पृथक् जातिषु दृश्यते ।

 आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः’ इति ।।

सीदन्त्यस्मिन् गुणक्रियाजातय इति सत्त्वं द्रव्यम् । तत्र यो निविशते समवैति स गुणः । एतच्च सत्त्व एव निविशते इति सावधारणं व्याख्येयम् । वाक्यस्य व्यवच्छेदफलत्वात् । तेन च सत्ता व्यवृत्तिः । सा हि न केवलं द्रव्ये वर्तते । अपि तु द्रव्यगुणकर्मसु । तर्हि द्रव्यत्वं द्रव्य एव वर्तत इति तत्रातिव्याप्तिरित्यत उक्तम् । अपैति । अपगच्छति । अर्थात् सत्त्वादेव । यथा पीततायां जातायाम् आम्लादेः नीलता । नैवं द्रव्यत्वं द्रव्यादपैति । एवं तर्हि गोत्वं स्वरितमित्यादौ वर्तते अश्वादेश्चापेैतीति तत्रातिव्याप्तिरित्यत उक्तं– पृथग्जातिषु दृश्यत इति । गोत्वं हि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते । गुणस्तु दृश्यते यथा अभ्रे दृष्टा नीलता तृणादिष्वपि दृश्यते । एतेन समुदितेन सकलजातिव्यवच्छेदः । एवं तर्हि कर्म द्रव्य एव वर्तते ततः अपैति पृथक् जातिषु दृश्यते चेति तत्रातिव्याप्तिः इत्यत उक्तम् । आधेयश्चाक्रियाजश्चेति । आधेयः उत्पाद्यः । यथा पुष्पयोगाद्गन्धो वस्त्रे । अक्रियाजो नित्यः यथा आकाशदौ महत्वादिः । कर्म तु न तथा उप्ताद्यानुत्पाद्यम् । किन्तु उत्पाद्यमेव । एवं तर्हि द्रव्येऽतिव्याप्तिः । तद्धि द्रव्य एवारम्भके वर्तते तद्विनाशे अपैति च । पृथक् जातिषु अवयवेषु दृश्यते । निवर्त्यानिवर्त्यरूपं च । अवयविनो निवर्त्यत्वात् । आकाशादेश्चानिर्त्यत्वादित्यत उक्तं– सो सत्वप्रकृतिरिति ।। गुणो न द्रव्यस्वभावः द्रव्यं तु द्रव्यस्वभावमिति न तत्रातिव्याप्तिः ।

ननु च पूर्वार्धो व्यर्थः । उत्तरार्धेनैव सर्वजातिव्यावृत्तेः । नित्यत्वेन तासाम् उत्पाद्य-स्वभावत्वाभावात् । असति पूर्वार्धे यथा तैजसपरमाणुरूपं पाक्यद्रव्यरूपं च उत्पाद्यानुत्पाद्य-स्वभावमिति द्वयोरपि गुणत्वम् । न तथा पाक्यद्रव्यरूपं जातिश्चेति मिलितमुत्पाद्यानुत्पाद्य-स्वभावमिति जातिरपि गुणः स्यात् । अतः पूर्वार्धेन जातिव्यावृत्तिः । तथा चैतादृशबहुत्व-रूपगुणाभिधायित्वात् युक्तं तस्माद्धिकल्पेन ङीप् विधानमिति सकलमकलङ्कम् ।।

भावरत्नकोशः

परिपन्थित्वोक्तावपि पापाचरणप्रयोजकप्रश्नः कथमनुपपन्नः? इत्यत आह– न हीति ।। ‘हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्’ इत्यमरे कारणशब्दस्य क्लीबत्वाभिधानात् कथमत्र ‘कारणाः’ इति पुल्लिङ्गत्वम्? इत्यत आह– कारणशब्द इति ।। करोतेरिति ।। डु कृञ् करण इति धातोर्णिच्प्रत्यये, ‘अतो ञ्णिति’ इति वृद्धौ ‘कारि’ इति रूपे, ततः ‘करणाधिकरणयोश्च’ इति कार्यते एभिरिति करणे ल्युटि, ‘युवोरनाकौ’ इति युकारस्यानादेशे, ‘अट्कुप्वाङ्नुम्’ इति णत्वे ‘णेरनिटि’ इति णिलोपे च, ‘कृत्तद्धित’ इति प्रातिपादिकत्वेन जसि च, ‘कारणाः’ इति रूपम् । पापनिष्पत्तिप्रयोजका इति तदर्थ इति भावः । ततोऽपि कथं पुल्लिङ्गत्वमित्यत आह– स चेति ।। ‘करणाधिकरणयोर्ल्युट् च’ इति करणेऽधिकरणे च विहितो यो ल्युट्प्रत्ययः तदन्तशब्दः परवल्लिङ्गो भवतीति लिङ्गानुशासने स्मरणात्, तद्वृत्तौ ‘इध्मः प्रवृश्च्यतेऽनेनेतीध्मप्रव्रश्चनः परशुः । इध्मप्रव्रश्चनी छुरिका । इध्म-प्रव्रश्चनं शस्त्रमिति लिङ्गत्रयोदाहरणात् । ‘भावे ल्युट्, स नपुंसके । अन्यत्र त्वभिधेयवशाद-नियतलिङ्गः’ इति कैयटवचनाच्चेति भावः ।

यदनान्तमकर्तरि’ इत्यमरवचनमपि कर्तृपदं कारकमात्रोपलक्षकम् । कारकव्यतिरिक्ते भावमात्रे विहितम् अनान्तं नपुंसकलिङ्गं भवति’ इति हरिदीक्षितेन व्याख्यातमिति न तेनापि नपुंसकत्वं शङ्काऽर्हम् । उदाहृतं च तेनैव ‘इध्मप्रव्रश्चनः पलाशशातनः’ इति ।

ननु शास्त्रसद्भावेऽपि न पुंलिङ्गत्वमभ्युपगन्तुं शक्यम् । प्रयोगाभावात् । भावे वा तस्याभियुक्तप्रयोगत्वनिर्णयायोगात् । अत एव ‘वृन्दारका दैवतानि पुंसि वा’ इत्यनुशासने सत्यपि न दैवतशब्दः पुंलिङ्गः स्वीक्रियते । ‘प्रयोगशरणा हि वैयाकरणाः’ इत्यतोऽभि-युक्तप्रयोगं दर्शयति– अयमनुमान इति । ‘कोऽसावनुमानो नाम’ इति ‘भूवादयः’ इति सूत्रे महाभाष्ये पुंलिङ्गस्य प्रयोगादित्यर्थः । अयमिति तु ‘स चायं त्रिलिङ्गः’ इति पूर्वेणैवान्वितम् । ‘अयमित्येतदसावित्यस्यार्थानुवादः’ इत्यपि आहुः । ‘श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम्’ इति वैदिकप्रयोगानुदाहरणं तु ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इति व्यत्ययशास्त्रेण छन्दसि लिङ्ग-व्यत्यय इति यः कोऽपि परिहर्तुमुत्सहेतापीत्यभिप्रायेण ।

नन्वस्तु यत्र प्रयोग उपलभ्यते तत्र त्रिलिङ्गत्वम् । हेतुवाचिकारणशब्दस्तु नपुंसकलिङ्ग एव । ‘कारणं करणे हेतुवधयोश्च नपुंसकम्’ इति विशेषोक्तेः, ‘कारणं हेतुवधयोः’ इति कविदर्पण-वचनात्, ‘क्लीबं तु कारणं हेतौ’ इति केशववचनाच्च । लिङ्गानुशासनं तु हेत्वर्थकारण-शब्दव्यतिरिक्तशब्दविषयम् । महाभाष्यप्रयोगश्च मन्यतेर्घञि निष्पादितः कैयटे । घञन्तश्च । ‘घञबन्तश्च पुंसि’ इति लिङ्गानुशासने पुंलिङ्गोऽनुशिष्टः । अयं च ल्युडन्तो व्याख्यात इत्यनुशयादाह– अथवेति ।। ण्यन्तेभ्यो धातुभ्यः, आस उपवेशने, ‘श्रन्थ विमोचनहर्षणयोः’ इत्येताभ्यां च, स्त्रियां युच्प्रत्ययो भवतीति सूत्रेण करोतेर्ण्यन्तात् करणे युच्प्रत्यये, अनादेशे च कारणेति रूपमित्यर्थः । उदाहृतं च वृत्तिकृता ‘कारणा हारणा आसना श्रन्थना’ इति । एतावांस्तु विशेषः । उदाहृताः शब्दा भावार्थकयुच्प्रत्ययान्ताः । अयं तु करणार्थकयुजन्त इति । तदिदमुक्तम् – करणे युजिति ।।

एवमपि कारणशब्दस्य कथमनपुंसकत्वमित्यत आह– अयं चेति ।। युच्प्रत्ययान्तश्च सर्वोऽपि शब्दः स्त्रीलिङ्गः । ‘स्त्रियां क्तिन्’ इत्यतः स्त्रियामित्यनुवृत्तेरित्यर्थः । तर्हि ‘बह्व्यः’ इति भाषणं स्यात् न तु ‘बहवः’ इति । तत्राह– बहव इत्यपीति ।। ‘शब्दः’ इति शेषः । वोत इति ।। गुणवचनादुकारान्तात् प्रातिपदिकात् स्त्रियां वा ङीष् भवति । पट्वी पटुः, मृद्वी मृदुरिति सूत्रार्थः ।

यत्त्वत्र ‘बह्वादिभ्यः’ इत्यनन्तरसूत्रे बह्वादिभ्यः स्त्रियां वा ङीष् भवति । बह्व्यः बहवः इति बहुशब्दादेव ङीषो विकल्पेन विहितत्वात्, ‘बह्वादिभ्यश्चेति विकल्पविधानात्’ इति वक्तव्यम्, न तु ‘वोत इति’ इति । तन्न । बहुशब्दो गुणवचन एव । तस्येह पाठ उत्तरार्थः’ इति वृत्तिकार- वचनेन बहुशब्दस्य गुणवचनत्वादेव ङीषो वाच्यत्वात् । ‘बह्वादिभ्यः’ इत्यत्र बहुशब्दग्रहणं न कर्तव्यमिति मनोरमायां प्रत्याख्यानाच्च । अतो ‘वोतः’ इत्येव युक्तम् । ननु ‘बहवः’ इत्यादि-भाष्यम् अर्जुनप्रश्नस्याभिप्रायवर्णनार्थं प्रवृत्तम् । प्रश्नवाक्ये च ‘केन प्रयुक्तः पापं चरति’ इति पापप्रयोजकमेवावगम्यते । अतः ‘पापकारणाः’ इति भाषणीयमित्यत आह– कर्मेति पापमिति ।। द्वयोरेव ‘रागद्वेषौ व्यवस्थितौ’ इति रागद्वेषयोरेव । मदमत्सरादयः  मदमत्सरलोभमोहाः । लक्षणायां बीजमाह– अरीति ।। ‘षड्वर्गनिग्रहनिरस्तसमस्तदोषाः’ (द्वादशस्तोत्रम् ७.४), ‘यतो वसन्ते सह षट् सपत्नाः’ (भाग.५.१.१७) इत्यादौ कामक्रोधादिरूपषड्वर्गस्या-प्यरित्वापरपर्यायपरिपन्थित्वप्रसिद्धेः अत्र द्वयोरेवोक्तेः परिपन्थित्वान्वयोऽनुपपन्न इत्यन्वयानु-पपत्त्या षड्वर्गगतत्वसम्बन्धेन च युक्तमुपलक्षणमिति भावः ।

अनुवदति अर्जुनः । अनुक्तस्य कथमनुवादः ? इत्यत आह– रागशब्देनेति ।। द्वेषशब्दे-नेति ।। अयं भावः रागद्वेषशब्दयोर्द्वयोरपि न लक्षकत्वम् । एकेनैव लक्षणोपपत्तेः । रागशब्दे लक्षणाऽस्त्विति न युक्तम् । प्रथमोपस्थितत्वात् । अत एकस्यैव लक्षकत्वे वाच्ये चरमश्रुतद्वेष-शब्दस्यैव तद् युक्तम् । अत एव मीमांसकैः ‘यजमानः प्रस्तरः’ इत्यत्र प्रस्तरशब्द एव अमुख्यवृत्तिरङ्गीकृता तत्सिद्धिपेटिकायाम् । गीतायां प्रथमस्यापि रागशब्दितकामस्य भाष्ये क्रोधाद्यनन्तरमुपादानं तु पापप्रयोजकेषु सर्वेष्वपि प्राबल्याभिप्रायेण । न चैवं ‘को बलवान्’ इति प्रश्नानुपपत्तिः, कामप्राबल्यस्य निश्चितत्वादिति वाच्यम् । कामे प्राबल्यं ज्ञातवानस्मि । त्वं तु ब्रूषे क्रोधादयोऽपि काम इव पापप्रयोजका इति । तत्र केन प्रयुक्तः पापं चरति? इति प्राप्तलोकसन्देहव्यावर्तनाय, स्वयं ज्ञातस्यापि दार्ढ्याय च, प्रश्नकरणोपपत्तेरिति ।

।। प्रकृते ‘मयि संन्यस्य कर्माणि’ इत्यादावुक्तसेतिकर्तव्यताकवर्णाश्रमकर्मकर्तव्यतारूपे ‘श्रेयान् स्वधर्मो विगुणः परधर्मो भयावहः’ इति वाक्योक्ते प्रमेये । क उपयोगः कथमेक-वाक्यत्वम् । सङ्गतेरभावादिति शङ्कितुर्हृदयम् । ‘अथ’ इति भाष्ये ‘अथेत्येतदर्थान्तरम्’ इति कथं सामानाधिकरण्यम् ? इत्याशङ्क्य शेषमाह– अथेति शब्देनेति ।। ‘इति’शब्दात् परतः ‘शब्देन’ इति, ‘अर्थान्तरम्’ इत्यनन्तरं ‘सूच्यते’ इति शेषे नोक्तशङ्काऽवकाश इति भावः । सङ्गत्यन्तराभावेऽपि प्रासङ्गिकमात्रप्रश्नेऽतिप्रसङ्ग इत्यत आह– तत्रापीति ।। ‘तयोर्न वशमा-गच्छेत्’  इत्यत्र यौ द्वौ प्रस्तुतौ तत्रापि तयोरपीत्यर्थः ।। ३६ ।।

गीताक्षरार्थस्तु– ‘रागद्वेषौ व्यवस्थितौ’   इत्यत्र रागशब्देन कामो द्वेषशब्देन क्रोधादयश्च बहवः पापहेतवः सन्तीति त्वयोक्तम् । तत्रापि यो बलवान् पापहेतुस्तं प्रति परिभवाय महान्तं प्रयत्नं करिष्यामीति भावेन प्रसङ्गसङ्गत्या को बलवानिति पृच्छ्यते– अथेति ।। अथशब्देन अर्थान्तरमेतदिति सूच्यते । अयं पुरुषः पापम् अनिच्छन्नपि इत्यास्तिककामुकविशेषणम् । राज्ञा बलान्नियोजितो भृत्य इव पापं चरन् कामादिषु केन बलवता प्रयुक्तः प्रेरितः चरति, तं ब्रूहि । वृष्णिशब्दात् ‘द्व्यचः’ इति ढकि वार्ष्णेय वृष्णिकुलोद्भव इति सम्बुद्धिरिति ।। ३६ ।।

भावदीपिका

ननु तत्र रागद्वेषयोः पुरुषपरिपन्थित्वमात्रमेवोक्तम् । अत्र तु ‘अथ केन प्रयुक्तोऽयं पापं चरति’ इति पापप्रयोजकमर्जुनेन पृच्छ्यते । न हि पापप्रयोजकत्वमेव परिपन्थित्वम् । येन प्रश्नानुपपत्तिरित्यत आह– न हीति ।। ननु ‘कारणाः’ इति कथम्? कृञ् करणेऽस्माण्णिचि णित्त्वाद्’ ‘अचोऽञ्णिति’ इति ऋकारस्य आकार-रूपवृद्धौ तस्य रपरत्वे ‘कार्’ इति जाते ‘ल्युट् च’ इति भावे ल्युट्प्रत्यये लकारटकारयोर्लोपे ‘युवोरनाकौ’ इति युकारस्यानादेशे ‘णेरनिटि’ इत्यनेन णेर्लोपे ‘कारन’ इति जाते ‘रषाभ्याम्’ इति रेफात् परस्य नस्य णत्वे हि ‘कारण’ इति रूपम् । एवं च भावे ल्युडन्तस्य नित्य-नपुंसकत्वनियमात् ‘कारणानि’ इत्येव स्यादिति चेत्, तत्राऽह– कारणशब्द इति ।। ण्यन्तादिति ।। गीतायां ‘केन प्रयुक्तः’ इति पापप्रयोजकस्य पृष्टत्वादिति भावः ।। करण इति ।। तथा च न भावे ल्युडन्तोऽयं कारणशब्दः येनोक्तदोषः स्यात् । किं नाम? करणे ल्युट् । ‘करणाधिकरणयोश्च’ इति स्मरणादित्यर्थः । ततः किम्? इत्यत आह– स चेति ।। करणे ल्युडन्तः शब्द इत्यर्थः ।

तत्र ज्ञापकमाह– अयमनुमान इति भाष्य इति ।। महाभाष्य इत्यर्थः । अयमाशयः । ल्युटष्टित्करणसामर्थ्यात् ल्युडन्तस्य करणेऽधिकरणे च न नियमेन नपुंसकत्वमिति ज्ञायते । तथा पुंल्लिङ्गत्वं कुतः? इति चेत् । उक्तरीत्या टित्करणेन नपुंसकत्वनियमे त्याजिते प्रयोगानुसारेण पुंलिङ्गत्वस्यापि सम्भवात् । अत एव महाभाष्ये ‘अयमनुमानः’ इत्युदाहृतम् । लिङ्गानुशासने च ‘इध्मव्रश्चनः कुठारः’ इत्युक्तम् । ‘करणे ल्युडन्तस्त्रिलिङ्ग इति प्रकृतत्वादेव’ इत्युक्तम् । एवं च करणे ल्युडन्तः कारणशब्दः पुंलिङ्गोऽपि भवतीति ‘कारणाः’ इत्युपपन्नमिति ।

सांव्यावहारिकबहुप्रयोगाभावादाह– अथ वेति ।। ‘ण्यासश्रन्थो युच्’ ण्यन्तेभ्यो धातुभ्यः आसश्रन्थशब्दाभ्यां च युच्प्रत्ययो भवतीति सूत्रार्थः । कारणा । हारणा । आसना । श्रन्थना, इत्याद्युदाहरणम् । तथा च कृञ्धातोरुक्तरीत्या णिजन्तत्वेन तदन्ताद् धातोः करणे युच्प्रत्यये चकारलोपे योरनादेशे नस्य णत्वे च कारणेति रूपम् । ततः किं प्रकृते? इत्यत आह– अयं चेति ।। करणे युच्प्रत्ययान्तोऽयं कारणशब्द इत्यर्थः ।

ननु तर्हि ‘बहवः’ इति पुंलिङ्गम्, तस्य कथं विशेषणत्वम्? ‘बह्व्यः कर्मकारणाः’ इति वक्तव्यत्वादित्यत आह– बहव इत्यपीति ।। स्त्रीलिङ्गत्वे नियामकमाह– वोतो गुणवचना-दिति ।। वा उत इति पदच्छेदः । गुणं वक्तीति गुणवचनः । गुणवचनाद् उतः उकारान्तात् प्रातिपदिकात् स्त्रियां ङीष् वा  विकल्पेन भवतीति सूत्रार्थः । पट्वी पटुः, मृद्वी मृदुरित्या-द्युदाहरणम् । एवं च गुणवचनोकारान्तशब्दात् ङीषो विकल्पेन विधानाद् बहुत्वसङ्ख्यारूप-गुणवचनाद् उकारान्ताद् बहुशब्दाद् यदा स्त्रियां ङीष् भवति तदा ङकारषकारयोर्लोपे ‘बहु ई’ इति स्थिते ‘इको यणचि’ इत्युकारस्य वकारे ‘बह्व् ई बह्वी’ इति भवति । तद्बहुवचनं ‘बह्व्यः’ इति भवति । यदा तु स्त्रीत्वे ङीष् न भवति तदा स्त्रीलिङ्गमपि पटुर्मृदुरितिवद् बहुरित्येव भवति । तथा चोकारान्तस्त्रीलिङ्गस्य बहुशब्दस्य प्रथमाबहुवचनं ‘बहवः’ इत्येव भवति । अतः ‘कारणाः’ इति स्त्रीलिङ्गत्वात् कारणशब्दविशेषणत्वं युक्तमिति भावः ।

कर्मकारणाः’ इत्यत्र कर्मेति सामान्येनोक्तत्वात् कामक्रोधादीनां पुण्यरूपकर्मकारण-त्वस्यापि प्रसक्तौ सत्यामाह– कर्मेतीति ।। द्वयोरेवेति ।। रागद्वेषयोरेवेत्यर्थः ।। द्वेषशब्देनेति ।। ‘रागद्वेषौ व्यवस्थितौ’  इत्यत्र द्वेषशब्देनेत्यर्थः ।। अरिषड्वर्गेति ।। ‘तौ ह्यस्य परिपन्थिनौ’ (३-३४) इति रागद्वेषयोररित्वरूपं परिपन्थित्वमुक्तम् । तत्र विशिष्य द्वयोरेवारित्वेनात्र-विवक्षितत्वे विशेषज्ञापकाभावात्–

भयं प्रमत्तस्य वनेष्वपि स्याद् यतो वसन्ते सह षट् सपत्नाः’

इत्यादौ काम-क्रोध-मद-मत्सर-लोभ-मोहाख्यारिषड्वर्गप्रसिद्ध्या मदादयोऽप्युपलक्षण-तया पूर्वं ग्राह्या इत्यर्थः । एवमनुवदीति ।। ‘बहवः’ इत्यनुवदतीत्यर्थः । ‘अथेत्यर्थान्तरम्’ इति भाष्यार्थमाह– अथेतिशब्देनेति ।। सङ्गत्यन्तरेति ।। हेतुहेतुमद्भावादिरूपेत्यर्थः । प्रसङ्गं प्रसञ्जकम् । प्रश्नप्रापकमित्यर्थः । तत्रापीति ।। अरिषड्वर्गेष्वित्यर्थः ।। यत्नमिति ।। ‘वधाय’ इति शेषः ।। ३६ ।।

भावप्रकाशः

ननु ‘हेतुर्ना कारणं बीजम्’ इत्यमरेण नपुंसकनिर्देशात् कारण-शब्दः क्लीबः । तत्कथं पुल्लिङ्गत्वम्? इत्याशङ्क्य पुंस्त्वं समर्थयितुमाह– कारणशब्द इति ।। ननु करोतेर्ल्युटि ‘सावधातुकार्धधातुकयोः’ इति गुणे ‘युवोरनाकौ’ इति युशब्दस्यानादेशे णत्वे च सति करणशब्दनिष्पत्तावपि न कारणशब्द-निष्पत्तिरित्यत आह– ण्यन्तादिति ।। कार्यते एभिरिति व्युत्पत्तिरत्र बोध्या । ततः किम्? इत्यत आह– स त्रिलिङ्ग इति ।। ‘करणाधि-करणयोः ल्युट्’ इति लिङ्गाङ्गानुशासनसूत्रेण त्रिल्लिङ्गत्वोक्तेरिति भावः । नन्वप्रयोगात् त्रिलिङ्गत्वमयुक्तम् । ‘प्रयोगशरणा वैय्याकरणा’ इत्युक्तेरित्याशङ्क्य दिङ्मात्रप्रदर्शनाय पुल्लिङ्ग-प्रयोगं दर्शयति– अयमनुमान इतीति ।।

नन्वस्तु यत्र प्रयोगस्तत्र त्रिलिङ्गत्वम् । तथाऽपि हेतुवाचिकारणशब्दस्य क्लीबत्वमेव कारणं करणे हेतुबन्धयोश्च नपुंसकम्’ इति शेषोक्तेः । न च लिङ्गानुशासनविरोधः । सामान्यविषयस्य तस्योदाहृतविशेषोक्त्या बाधे सति तदन्यविषयत्वादित्यरुचेराह– अथवेति ।। ‘करोतेर्ण्यन्तात्’ इत्यनुषङ्गः । ण्यासेतीति ।। ण्यन्ताद्धातोः आसिश्रन्थिभ्यां च धातुभ्यां भावकर्मादौ स्त्रियां युजिति सूत्रार्थः । नन्वेवं सति ‘कारणा तु यातना तीव्रवेदना’ इत्यमरोक्तेः कारणशब्दस्य तीव्रवेदनावाचित्वं स्यात् । हेतुवाचित्वं तु कथम्? इत्यत उक्तम् - करण इति ।। अस्तु भावे युजन्तस्तीव्रदुःखार्थः । करणयुजन्तस्तु हेतुवाची सम्भवतीति भावः । ततः किम्? इत्यत आह– अयं तु स्त्रीलिङ्ग इति ।। ‘स्त्रियाम्’ इत्यधिकृत्य युज्विधानादिति भावः । नन्वेवं ‘कर्मकारणा’ इत्यस्य स्त्रीलिङ्गत्वाद्बहव इति पुल्लिङ्गविशेषणानुपपत्तिरित्यत आह– बहव इत्यपीति ।। नन्वेवं ‘वोतो गुणवचनात्’ इति ङीषि सति बह्व्य इति स्यादित्यत आह– वोत इति ।। उदन्ताद् गुणवाचिनः स्त्रियां वा ङीष् स्यादिति सूत्रार्थः । यद्यपि ‘बह्वादिभ्यश्च’ इति विकल्पविधाना-दिति वक्तव्यम् । बहुशब्दस्य बह्वादिषु पठितत्वात् । तथाऽपि गुणवचनत्वादेव ङीष्सिद्धेः ‘बह्वादिभ्यश्च’ इति सूत्रे बहुशब्दग्रहणं न कर्तव्यमिति शाब्दिकैः प्रत्याख्यानात् ‘वोत’ इत्येवोक्तम् ।

ननु ‘बहवः’ इत्यादिभाष्यम् ‘अथ केन’ इत्यादिप्रश्नवाक्यस्याभिप्रायप्रदर्शकम् । प्रश्नवाक्ये च ‘केन प्रयुक्तः पापं चरति’ इति पापप्रयोजकं पृष्टम् । अतस्तदानुगुण्याय ‘पापकारणाः’ इति वक्तव्ये कथं ‘कर्मकारणाः’ इति सामान्यमुक्तम्? इत्यत आह– कर्मेतीति ।। ननु मुख्यार्थ-ग्रहणे बाधकाभावादुपलक्षणमयुक्तमित्यत आह– अरिषड्वर्गप्रसिद्धेरिति ।।

भयं प्रमत्तस्य वनेष्वपि स्याद् यतो वसन्ते सह षट् सपत्नाः’

इत्यादौ काम-क्रोध-मद-मत्सर-लोभ-मोहाख्यारिषड्वर्गप्रसिद्धेरित्यर्थः । अयं भावः । मुख्यार्थबाधो नाम मुख्येऽर्थे इतरान्वयस्य प्रबलप्रमाणविरुद्धत्वम् । प्रकृते च ‘तौ ह्यस्य परिपन्थिनौ’ इत्यत्र विशेषविधिबलात् । द्वयोरेव परिपन्थित्वान्वयो लभ्यते । स च ‘षट् सपत्ना’ इत्यादिनिरवकाशप्रमाणविरुद्ध इत्यस्त्येव मुख्यार्थबाधः । अतो युक्तमुपलक्षणमिति ।

।। अनुवदतीति ।। अर्जुन इति शेषः । ननु यदुक्तं द्वेषशब्देन मदमत्सरादयोऽप्युपलक्षिता इति । तदयुक्तम् । भाष्ये ‘क्रोधादयः कामश्च’ इति पाठक्रमाद् ‘रागद्वेषौ व्यवस्थितौ’ इत्यत्र रागशब्देन क्रोधादय उपलक्षिता इति प्रतीतेरनुवदतीति चायुक्तम् । अनुवादलिङ्गाभावादित्यत आह– रागशब्देनेति ।। अयं भावः । यदि पाठक्रमाद्रागशब्दस्य क्रोधाद्युपलक्षकत्वं स्यात् तदा द्वेषशब्दवैय्यर्थ्यं स्यात् । अतस्तत्सार्थक्याय रागशब्देन मुख्यत एव कामोऽभिधीयते । द्वेषपदेन च कामान्यवैरित्वरूपेण क्रोधादय उपलक्ष्यन्त इत्येवाङ्गीकार्यम् । ततश्च बाधकबलात् पाठक्रममनादृत्य द्वेषशब्दस्योपलक्षकत्वोक्तिर्युक्ता । एवं ‘बहवः कर्मकारणाः’ इत्यादिभाष्ये ‘त्वयोक्ता’ इत्युपस्कर्तव्यम् । अन्यथा विशेषप्रश्नस्य सामान्यसिद्धिपूर्वकत्वात् । प्रकृते च सामान्यतः कामादीनां पापकारणत्वा-सिद्धत्वात् प्रबलपापकरणप्रश्नस्यासङ्गतिप्रसङ्गात् । ततश्च ‘उक्ता’ इत्यस्यैवानुवादलिङ्गस्य सत्त्वाद् ‘अनुवदति’ इति च युक्तमिति कथसूचितमित्यत आह– अथेति शब्देनेति ।। अनेनाथशब्दस्यार्थान्तररूपत्वाभावात् कथं सामानाधिकरणम्? इत्यपि निरस्तम् ।। ३६ ।।