यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ।। ३३ ।।

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ।। ३३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यद्यप्यव्ययत्वमत्र साध्यम् । तथापि तत् लोकतो ज्ञातुं शक्यत इति लेपाभावमात्रं भगवत उपपाद्यते– यथा सर्वगतमिति ।। सर्वगतं पङ्कादिमद्देशगतम् आकाशं सौक्ष्म्यात् सूक्ष्मत्वादप्रतिघत्वात् यथा पङ्कादिभिर्नोपलिप्यते । तथा सवत्र नीचोच्चादिरूपे देहे अवस्थितः आत्मा परमात्मा नोपलिप्यते देहधर्मैर्न सम्बध्यते ।।३३।।