प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ।। ३० ।।

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ।। ३० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- प्रतिज्ञातमुच्यते– प्रवृत्तिमित्यादिभि-स्त्रिभिः । प्रवृत्तिं संसारप्रवृत्तिहेतुभूतं धर्मं निवृत्तिं तन्निवृत्तिहेतुभूतं भागवतधर्मं कार्याकार्ये कर्तव्याकर्तव्ये भयाभये कार्याकार्यनिबन्धनौ अर्थानर्थौ बन्धं मोक्षं तदतिप्रकारं च या बुद्धिः वेत्ति जानाति, अवान्तरक्रियास्वातन्त्र्यविवक्षया ‘वेत्ति इत्युक्तिः विषयीकरोतीत्यर्थः, सा सात्त्विका

।। ३० ।।