यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।। १२ ।।

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।। १२ ।।

भाष्यम्

पूर्वोक्तमेव ज्ञानं प्रपञ्चयति– यदादित्यगतम् इत्यादिना

।। १२ ।।

भावप्रदीपिका

नोत्तरत्राद्वैतमुच्यत इत्याह– पूर्वोक्तमिति ।। १२ ।।

प्रमेयदीपिका

ननु ‘न तद् भासयते’ (१५.१६) इत्यादिना स्वरूपं कथितम् । तत्किमुत्तरेण? इत्यत आह– पूर्वोक्तमेवेति ।। ‘अधश्च मूलान्यनु-सन्ततानि’ (१५.२) इति यत्सर्वान्तर्यामित्वरूपं विज्ञानमुक्तम्, यच्चोर्ध्वशब्देन सर्वोत्तमत्वं तदध्यायशेषेण प्रपञ्चयतीत्यर्थः ।। १२ ।।

भावबोधः

ननु ‘यदादित्यगतम्’ इत्यादिना ‘द्वाविमौ’ इत्यादिना च वक्ष्यमाणान्तर्यामित्वसर्वोत्तमत्वरूपं विज्ञानं पूर्वस्मिन्नध्याये केनोक्तमित्यत आह– अधश्चेति

।। १२ ।।

भावरत्नकोशः

‘यदादित्यगतम्’ इत्यादिना ‘द्वाविमौ पुरुषौ’ इत्यादिना च वक्ष्यमाणयोः सर्वान्तर्यामित्वसर्वोत्तमत्वयोः पूर्वाध्यायेऽनुक्तत्वात् कथं ‘पूर्वोक्तमेव’ इति भाषणम्, कथं च ‘संसारस्वरूपतदत्ययोपायविज्ञानान्युच्यन्ते’ इति प्रतिज्ञातविज्ञानस्याप्रदर्शनम् इत्यत आह– अधश्चेत्यादिना ।। विज्ञानं विज्ञातव्यं भगवन्माहात्म्यम् । ‘ऊर्ध्व उत्तमः सर्वतः’ इति भाषितत्वादाह– सर्वोत्तमत्वमिति ।। ‘अध्यायशेषेण’ इत्यत्र ‘यदादित्यगतम्’ इत्यादिचतुःश्लोक्या सर्वान्तर्यामित्वप्रपञ्चनम्’, द्वाविमौ इत्यादित्रिश्लोक्या सर्वोत्तमत्वप्रपञ्चनम्, तदुत्तरश्लोकद्वयस्यापि तत्फलकथनरूपस्य तच्छेषत्वम् इति विवेक्तव्यम् ।। १२ ।।

गीताक्षरार्थस्तु– ‘अधश्च मूलान्यनुसन्ततानि’ इति यत् सर्वान्तर्यामित्वरूपं विज्ञानशब्दितं भगवन्माहात्म्यमुक्तम्, तत्प्रपञ्च्यते– यदादित्यगतमित्यादिचतुःश्लोक्या ।। तेजः प्रकाशनशक्तिः जगद् भासयते प्रकाशयति यच्चन्द्रमसि यच्चाग्नौ तत्तेजो मामकं मदीयम्, यद् आदित्यादौ मत्सन्निधायत्तं तेजः तत् मामकं मदधीनं विद्धि जानीहि ।। १२ ।।

भावदीपिका

।। स्वरूपमिति ।। विज्ञानशब्दवाच्यभगवत्स्वरूपमित्यर्थः

।। १२ ।।

भावप्रकाशः

 ननु ‘यदादित्यगतम्’ इत्यादिना ‘द्वाविमौ’ इत्यादिना च वक्ष्यमाणयोः सर्वान्तर्यामित्वसर्वोत्तमत्वयोः प्रागनुक्तत्वात् प्रपञ्चयतीति कथमुक्तमित्यत आह– अधश्चेति ।। १२ ।।