अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कार्तिं च हित्वा पापमवाप्स्यसि।। ३३ ।।

अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।

ततः स्वधर्मं कार्तिं च हित्वा पापमवाप्स्यसि।। ३३ ।।

भावरत्नकोशः

युद्धाकरणे अनर्थप्राप्तिप्रतिपादनमुखेनापि तत्कर्तव्यतोपदिश्यते– अथ चेत् इत्यादि । इमं यदृच्छया पारलौकिकश्रेयस्साधनत्वेनोपपन्नं, धर्म्यं धर्मादनपेतं सङ्ग्रामं युद्धं न करिष्यसि चेत् ततः स्वधर्माकरणात् न केवलमुभयोर्हानिः पापमवाप्स्यसि च ।। ३३ ।।