शक्नोतीहैव यः सोढुं प्राक्च्छरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ।। २३ ।।

शक्नोतीहैव यः सोढुं प्राक्च्छरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ।। २३ ।।

भाष्यम्

तत्परित्यागं प्रशंसति– शक्नोतीति ।। कामक्रोधोद्भवं वेगं सोढुं शक्नोति, शरीरविमोक्षणात् प्राक् । यथा मनुष्यशरीरे सोढुं सुशकं तथा नान्यत्रेति भावः । ब्रह्मलोकादिस्तु जितकामानामेव भवति ।। २३ ।।

भावप्रदीपिका

‘प्राक् शरीरविमोक्षणात्’ इत्यस्य कृत्यं दर्शयितुं श्लोकान्वयं दर्शयति– कामेति ।। तत्कृत्यमाह– यथेति ।। ब्रह्मादिलोके कामादिक्षयः सुतरां भवति । अतः कथं मानुष्यशरीर एवेत्युच्यते ? इत्यत आह– ब्रह्मेति ।। २३ ।।

भावप्रकाशिका

तदर्थमेव कामपरित्यागं प्रशंसतीत्याह – तदिति ।। ‘प्राक् शरीरविमोक्षणात्’ इत्यस्योपयोगं वक्तुं श्लोकान्वयं तावदाह कामेति । तस्योपयोगमाह– यथेति ।। एतेनेहैव लोक एतच्छरीरात् विमोक्षणात् प्रागित्युक्तं भवति । नन्वितोऽपि ब्रह्मलोकादिगतदिव्यशरीरे सोढुमतिसुशकत्वात् कथम् ‘इहैव’ इत्यादिविशेषः ? इत्यत आह– ब्र्रह्मेति ।। २३ ।।

प्रमेयदीपिका

उत्तरश्लोकमप्यन्तर्भावयितुमाह– तदिति ।। ‘कामभोग-परित्यागं सन्न्यासार्थम्’ इति वर्तते । इहैव ‘शरीरविमोक्षणात् प्राक्’ इति प्रशंसायामनुपयुक्त-मिति भावेन तद्विहायान्यद्योजयति– कामेति ।। वेगं मनसोऽनवस्थानम् । एवं तर्हि इहैव ‘शरीरविमोक्षणात् प्राक्’ इति किमर्थमुक्तम्? इत्यतस्तदनूद्य तात्पर्यमाह– शरीरेति ।। इहैव इत्यनुवादे ग्राह्यम् । ‘अस्मिन्नेव लोके’ इति । अत एवोक्तम्– मनुष्यशरीर इति ।। ‘अतोऽत्रैव तत्सहनाय प्रयतितव्यम्’ इत्यभिप्रायशेषः ।। ननु ब्रह्मलोकादौ तत्सहनमत्यन्त-सुशकम् । तत्कथमेवमुच्यते? इत्यत आह– ब्रह्मेति ।। तथाचान्योन्याश्रय इति भावः ।। अन्यत्र इति पश्वादिशरीरं व्युदस्तमिति हृदयम् । एतेनात्र वाक्यभेदः कार्य इति सूचितम् ।।

शरीरविमोक्षणपर्यन्तं न सकृत्’ इति कश्चित् । तदसत् । तथा सति ‘आशरीर-विमोक्षणात्’ इति स्यात् । इहैव इति च व्यर्थम् ।। २३ ।।

भावबोधः

।। अन्योन्याश्रयत्वमिति ।। तथा च ब्रह्मलोकादिस्थितानां कामादिसहनं न साधनमित्यर्थः । ननु तर्हि कामादिसहनस्य तत्रापि विद्यमानात्वात् कथं नान्य-त्रेत्युक्तं भाष्य इत्यतस्तदभिप्रायमाह– अन्यत्रेति ।। वाक्यभेदः कार्य इति ।। यः कामक्रोधोद्भवं वेगं सोढुं शक्नोति, स युक्तः स सुखी नरः इत्येकं वाक्यम् । तच्च सहनमिहैव प्राक् शरीरविमोक्षणादित्यपरं वाक्यमिति वाक्यभेदः कार्य इत्यर्थः ।

भावदीपः

।। अन्योन्याश्रयत्वमिति ।। कामराहित्ये सति श्रुतब्रह्मलोकादि-प्राप्तिः, तत्प्राप्तौ सति तदित्येवमिति भावः ।। नन्वेवं नान्यत्र सोढुं सुकरम् (सुशकं) इति कथम्? इत्यत आह– अन्यत्रेतीति ।। एतेनेति।। ‘कामक्रोध’ इति भाष्येण,‘इहैव प्राक् तच्छरीर-विमोक्षणात्’ इत्येतावद् विना सर्वमेकं वाक्यम् । तच्च ‘सहनसामर्थ्यं मानुषशरीरविमोक्षणात् प्राक्’इत्यपरम् इत्येवं वाक्यभेदः सूचित इत्यर्थः । न सकृदिति सोढुं शक्नोति स युक्तः स सुखीत्यर्थमाह कश्चिदित्यर्थः ।। २३ ।।

भावरत्नकोशः

।। अन्तर्भावयितुमिति । तथा च तेनापि श्लोकेन संन्यास एव महाफलसाधनज्ञानाङ्गत्वेनावश्यं कर्तव्य इति स्पष्टीकृतो भवतीति विभावितमिति भावः । वर्तते ‘संन्यासार्थम्’ इति पदं पूर्वभाष्यादनुवर्तते । ‘प्रशंसयति’ इति पाठे ‘स्वार्थे णिच्’ इत्यादिरूपेण पूर्ववद् व्याख्येयम् । इति पदजातम् । ‘कामक्रोधवेगं यः सोढुं शक्नोति स युक्तः स सुखी’ इत्यनेनैव कामपरित्यागप्रशंसासम्भवात् अन्यत् पदजातं तत्रानुपयुक्तमित्यर्थः । तत् उक्तं पदजातम् । वेगाख्यसंस्कारस्य तान्त्रिकैः कामक्रोधजन्यत्वानङ्गीकारादाह– वेगमिति ।। ‘वेगः प्रवाहजवयोरपि’ इत्यभिधानादत्र वेगशब्देन जवो ग्राह्यः । योग्यतया मनसोऽन्वयः । ताभ्यां हि मनसो जवशब्दितम् अनवस्थानम् उद्भवतीति भावः । ‘वेगः उद्वेगः’ इत्यभिप्रेत्य तदर्थमाह ‘वेगं मनसोऽनवस्थानम्’ इति इत्यपि आहुः ।। इति ‘अर्थः’ इति योज्यम् ।

नन्वनुवादभाष्ये कुतस्तस्य ग्रहणम् ? ‘अस्मिन् लोके’ इति, ‘तदर्थः’ इति च कुतो वाच्य-मित्यत उपष्टम्भकमाह– अत एवेति ।। ‘इहैव’ इत्यनुवादे ग्राह्यत्वात् तस्य चोक्तार्थत्वादेव भाष्ये ‘मनुष्यशरीरे’ इति तत्तात्पर्यमुक्तम् । अन्यथा तत् कथमस्य तात्पर्यरूपं स्यात् । ‘शरीरविमोक्षणात् प्राक्’ इत्येवानुवादे शरीरशब्देन मनुष्यशरीरालाभात् ‘इहैव’ इत्यनुवादे तस्य ‘अस्मिन्नेव लोके’ इत्युक्तार्थत्वे च मनुष्यशरीरं लभ्यते । तस्यैतल्लोकमात्रवृत्तित्वात् । पश्वादिशरीरस्यैतल्लोकस्थत्वेऽपि तस्य कामक्रोधसमुद्भववेगसहनायोग्यतयैव निरास इति ‘मनुष्यशरीरे’ इति तात्पर्यकथनम् उक्तमर्थं ज्ञापयतीति भावः । अत्रैव मनुष्यशरीर एव । तत्सहनाय कामादिवेगसहनाय । एवशब्द-व्यावर्त्यमुक्तं भाष्ये नान्यत्रेति ।।

तत्र शङ्कते– नन्विति ।। एवमुच्यते ‘नान्यत्र’ इत्येवमुच्यते । अनेन कृतचोद्यस्य किमुत्तरमुक्तं भवति ? इत्यत आह– तथा चेति ।। जितकामानामेव ब्रह्मलोकप्राप्तिः, प्राप्तब्रह्मादिलोकानां जितकामत्वम् इत्यन्योन्याश्रयत्वमित्यर्थः । ननु तर्हि कामादिसहनस्य ब्रह्मलोकादावसत्त्वात् कथं ‘नान्यत्र’ इत्यप्रसक्तप्रतिषेध इत्यत आह– अन्यत्रेतीति ।। पश्वादिशरीरस्य कर्मभूमिस्थत्वेन तत्र कामादिसहनप्रसक्तौ तद्व्युदासार्थमेव भाष्ये ‘नान्यत्र’ इत्युक्तमित्यर्थः ।

केचित्तु यदि साधनरूपं कामादिसहनं न ब्रह्मलोकादौ तर्हि साध्यरूपस्य तस्य ब्रह्मलोकादौ प्रसक्त्यभावात् तद्व्यावृत्त्यर्थं ‘नान्यत्र’ इति न वक्तव्यमित्यत आह– अन्यत्रेतीति इत्यवतारयन् ।। एतेन ‘कामक्रोध’ इति, ‘शरीरविमोक्षणात्’ इति च भाष्येण ‘यः कामक्रोधोद्भवं वेगं सोढुं शक्नोति, स युक्तः स सुखी नरः’ इत्येकं वाक्यम् । ‘तच्च सहनम् इहैव प्राक् शरीरमोक्षणात्’ इत्यपरं वाक्यम् इत्येवम् अत्र गीतायां वाक्यभेदः कार्यः इति सूचितमित्यर्थः ।

यावन्मरणं तावन्न विस्रम्भणीयम्’ इति सङ्करेण भाषणादाह– शरीरविमोक्षणपर्यन्तमिति । ननु ‘प्राग्दीव्यतोऽण्’ इत्यादाविव आङोऽभावेऽपि तदर्थबोधः किं न स्यात् ? इत्यतो दोषान्तरमाह– इहैवेतीति ।। २३ ।।

गीताक्षरार्थस्तु– संन्यासस्यात्यावश्यकत्वावेदनाय कामभोगपरित्यागः प्रशस्यते– शक्नोतीति । यः कामक्रोधोद्भवं कामक्रोधौ उद्भवौ उत्पादकौे यस्य मनसोऽनवस्थानलक्षणस्य वेगस्य स तथा तं सोढुं प्रसहितुं शक्नोति स नरः युक्तो योगयुक्तः, स एव च सुखी भवति । तच्च सहनम् इहैव अस्मिन्नेव लोके शरीरविमोक्षणात् प्राक् । यथा मनुष्यशरीर एव सुकरं नान्यत्र पश्वादिशरीरे । अतः अत्रैव तत्सहनाय प्रयतितव्यमित्यभिसन्धिना ‘इहैव शरीरविमोक्षणात् प्राक्’ इत्युक्तमिति

।। २३ ।।

भावदीपिका

।। अन्तर्भावयितुम् ‘संन्यासादित्रितये’ इति शेषः ।। संन्यासार्थमिति ।। तथा च तदुपयोगिकथनेन संन्यासकथनपरत्वमेवेति भावः । प्रशंसाया-मनुपयुक्तम् प्रशंसानुपयोगीत्यर्थः । उत्तरत्र ‘नान्यत्र’ इति व्यावर्त्यकथनादाह– इहैवेति ।। अनुवादे ‘शरीरविमोक्षणात् प्राक्’ इत्यनुवादपरे भाष्ये । तस्यार्थमाह– अस्मिन्नेवेति ।। भूलोक एवेत्यर्थः ।। अत एवेति ।। ‘इहैव’ इत्यस्यैतल्लोकपरत्वादेवेत्यर्थः ।। मनुष्यशरीर इति ।। तस्यैतल्लोकगतत्वादित्यर्थः ।। तत्सहनेति ।। कामक्रोधवेगसहनेत्यर्थः ।। एवमुच्यत इति ।। ‘इहैव, नान्यत्र’ इति कस्मादुच्यत इत्यर्थः । नन्वनेन को दोष उक्त इत्यत आह– तथा चेति ।। कामादिजयानन्तरं ब्रह्मलोकप्राप्तिः, तत्प्राप्तौ कामादिजय इत्यन्योन्याश्रयः स्यादित्यर्थः । तथा च ब्रह्मलोकस्थितानां कामादिसहनं न साधनरूपमिति भावः । ननु तर्हि कामादिसहनस्य ब्रह्मलोकेऽपि सत्त्वात्, कथं ‘नान्यत्र’ इत्युक्तं भाष्य इत्यतस्तदभिप्रायमाह– अन्यत्रेतीति ।। वाक्यभेद इति ।। ‘यः कामक्रोधोद्भवं वेगं सोढुं शक्नोति स युक्तः, स सुखी नरः’ इत्येकं वाक्यम् । ‘तच्च सहनमिहैव प्राक् शरीरविमोक्षणात्’ इत्यपरं वाक्यमित्यर्थः ।। २३ ।।

भावप्रकाशः

वेगाख्यगुणस्य कामक्रोधजन्यत्वाभावादाह– मनसोऽनवस्थान-मिति ।। नन्विहेवैत्येतदनुवादे कुतो ग्राह्यम् । तथात्वेऽपि वाऽस्मिंल्लोक इत्यर्थः कुतो वाच्य इत्यत आह– अत एवेति ।। इहैवेत्यस्यानुवादे ग्राह्यत्वदेवेति तस्योक्तार्थत्वादेवेति चार्थः । यद्यनुवादे इहैवेति न स्यात्, यदि च तस्योक्तार्थो न स्यात्तदा मनुष्यशरीर इति तात्पर्योक्तिः कथं स्यात् । शरीरविमोक्षणात् प्रागित्यनेन शरीर इत्यस्य लाभेऽपि मनुष्यशरीर इत्यस्यालाभात् इहैवेत्युक्ते तस्योक्तार्थत्वे च मनुष्यशरीरलाभः । तस्यैतल्लोकमात्रवृत्तित्वादिति भावः । न च पश्वादिदेहस्याप्ये-तल्लोकस्थत्वात् मनुष्यादिशरीर इति वक्तव्यम् । पश्वादिदेहे सहनाभावेनायोग्यतयैव तन्निरासात् । एवशब्दवैय्यर्थ्यमाशङ्कते– नन्विति ।। कथमेवमुच्यत इति ।। नान्यत्रेति कथमुच्यत इत्यर्थः । ततश्च तदर्थकैवशब्दवैय्यर्थ्यमिति भावः । अन्योन्याश्रयत्वमिति ।। तथाच ब्रह्मलोकादिस्थितानां कामादिसहनं न साधनरूपम् । तदेव चात्र विवक्षितमिति भावः ।। ननु यदि साधनरूपं कामादि-सहनं न ब्रह्मलोकादौ तर्हि साधनरूपस्य ब्रह्मलोकादौ प्रसक्त्यभावात् तद्व्यावृत्त्यर्थं नान्यत्रेति न वक्तव्यमित्यत आह– अन्यत्रेतीति ।। पश्वादिशरीरस्य कर्मभूमिस्थत्वात् तत्र साधनरूपकामादि-सहनप्रसक्तौ तद्व्युदासार्थं नान्य इत्युक्तमिति भाव इत्याहुः ।

भावबोधे तु– ननु तर्हि कामादिसहनस्य ब्रह्मलोकादावपि सत्त्वात् कथं नान्यत्रेतीत्युक्तमित्यत आह– अन्यत्रेतीत्युक्तम् ।। वाक्यभेद इति ।। यः कामक्रोधोद्भवं वेगं सोढुं शक्नोति स युक्तः स सुखी नर इत्येकं वाक्यम् । तच्च सहनमिहैव प्राक् शरीरविमोक्षणादित्यपरं वाक्यमिति वाक्यभेद इत्यर्थः । नन्वाङोऽभावेऽपि तदर्थो ज्ञायते ‘प्राग्दीव्यत’ इत्यादौ । तद्वत् किं न स्यादित्यत आह– इहैवेति चेति ।। २३ ।।