धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।। २५ ।।

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।। २५ ।।

भावरत्नकोशः

‘धूमः’ इत्यत्र धूमादिशब्दैर्दशदेवता उच्यन्ते । तत्र तत्त-द्देवताधिष्ठितमार्गेषु । चान्द्रमसं चन्द्रमसि भवं ज्योतिः प्रकाशं योगी इष्ट्यादिकारी ।। २५ ।।