अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।। २४ ।।

 

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।। २४ ।।

भाष्यम्

 कारणमाहाविधिपूर्वकत्वे– अहं हीति ।। २४ ।।

भावप्रदीपिका

त्वां यजतां कथमविधिपूर्वकत्वम् । त्वद्यजनस्यैव विवक्षितत्वात् ? इत्याशङ्कोत्तरत्वेन श्लोकमवतारयति– कारणमिति ।। २४ ।।

प्रमेयदीपिका

‘अहं क्रतुः’ इत्यादिनोक्तत्वात् ‘अहं हि’ इति पुनरुक्तिरित्यत आह– कारणमिति ।। ‘त्रैविद्यादिकृतानां यज्ञानां भगवांश्चेद् भोक्ता, कथं तर्ह्यविधिपूर्वकत्वम्? इति शङ्कायाम्’ इति शेषः ।। २४ ।।

भावरत्नकोशः

।। उक्तत्वात् यज्ञभोक्तृत्वस्य ‘अहं क्रतुरहं यज्ञः’ इत्यत्र क्रतुयज्ञसत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच्च क्रतुयज्ञशब्दवाच्यत्वमिति व्याख्यानस्याभि-प्रेतत्वादिति भावः ।।

त्रैविद्यादिकृतानां यज्ञानां भगवांश्चेद् भोक्ता कथं तर्ह्यविधिपूर्वकत्वम् ? इति शङ्कायाम् अविधिपूर्वकत्वे कारणमुच्यते– अहं हीति ।। सर्वेषां त्रैविद्याद्यनुष्ठितानां यज्ञानामहमेव भोक्ता । अन्यदेवतोद्देशेन त्यक्तानां हविषां त्वं कथं भोक्ता ? इत्यत उक्तम्– प्रभुः स्वामीति ।। चशब्दः परस्परसमुच्चये । एवशब्दः ‘अहम्’ इत्यनेन सम्बध्यते । एवंभूतमपि मां तत्त्वेन नाभिजानन्ति सर्वदेववरत्वेन भगवन्तं जानन्तोऽपि ब्रह्मरुद्रादीनां तत्परिवारत्वादिकं सम्यक् न जानन्ति यतः, अतस्ते च्यवन्ति प्रच्यवन्ति ।। २४ ।।

भावदीपिका

भाष्ये ‘कारणम्’ इत्यस्य ‘भगवदज्ञानरूपम्’ इत्यर्थः ।।२४।।