तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ।। ३ ।।
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ।। ३ ।।
भाष्यम्
क्षमा तु क्रोधाभावेन सहापकर्तुरनपकारः । ‘अक्रोधोऽदोषकृच्छत्रोः क्षमावान् स निगद्यते’ इत्यभिधानात् ।। ३ ।।
भावप्रदीपिका
अक्रोधपदागतार्थतया क्षमापदं व्याचष्टे –क्षमेति ।।३।।
प्रमेयदीपिका
अक्रोधः इत्युक्तत्वात् क्षमा इति पुनरुक्तिरित्यत आह– क्षमा त्विति ।। क्रोधं दोषमपकारं च न करोति इति अक्रोधदोषकृत् । शत्रोः अपकर्तुः
।। ३ ।।
भावरत्नकोशः
दोषशब्दार्थः – अपकारमिति ।। क्रोधदोषकृन्न भवतीति अक्रोधदोषकृद् इत्यस्य फलितप्रदर्शनम् – न करोत्यक्रोधदोषकृदिति ।। ‘अपकर्तुः’ इति भाष्याविसंवादाय शत्रुशब्दार्थमाह– शत्रोरपकर्तुरिति ।।
गीताक्षरार्थस्तु– तेजः प्रागल्भ्यम् । क्षमा क्रोधाभावेन सह अपकर्तुः अनपकृतिः । धृतिः देहेन्द्रियेषु अवसादप्राप्तावपि तन्निरोधकोऽन्तःकरणवृत्तिविशेषः । शौचम् द्विविधम्– मृज्जलाभ्यां कायमलशोधनं बाह्यम्, भगवद्ध्यानादिना मनःकालुष्यापकर्षणम् आन्तरमिति । अद्रोहो जिघांसाभावः । नातिमानिता अत्यर्थं मानोऽतिमानः, सोऽस्यास्तीति अतिमानी, तस्य भावः तत्ता, नसमासः तदभावः नातिमानिता । आत्मनः पूज्यतातिशयभावनाऽभावः । अहङ्कार-राहित्यमिति तु विवृतिकृतः । एते च ‘अभयं सत्त्वसंशुद्धिः’ इत्यादिनोपदिष्टाः षडिं्वशतिर्गुणाः दैवीं सम्पदमभिजातस्य प्रतिजातस्य भवन्ति । अभिरयं प्रत्यर्थे लक्षणे कर्मप्रवचनीयः । कर्मप्रवचनीययुक्ते च द्वितीयोपपद्यते । मुमुक्षुवर्गे जातस्य देवी सम्पल्लक्षणम् इत्येते धर्मा मुमुक्षुणाऽवश्यमापादनीया इति भावः ।। ३ ।।
भावप्रकाशः
।। दोषमपकारमिति ।। दोषमित्यनूद्यापकारमिति विवृतम्
।। ३,४ ।।