यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ।। २७ ।।

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

कर्म चैव तदर्थीयं सदित्येवाभिधीयते ।। २७ ।।

प्रमेयदीपिका

‘यज्ञे तपसि ....कर्म चैव’ इत्यनेन यज्ञादिषु सच्छब्दो व्याख्यातः । तेन ब्रह्मविषयत्वेन निष्ठया चेति लब्धम् ।। २७ ।।

भावबोधः

।। ब्रह्मविषयत्वेनेति ।। कर्म चैव तदर्थीयमित्यनेनेत्यने-नेत्यर्थः । निष्ठायां चेति ।। ‘यज्ञे तपसि दाने च स्थितिः’ इत्यनेनेत्यर्थः । स्थितेरेव निष्ठात्वादिति भावः ।। २७ ।।

भावदीपः

।। कर्म चैवेतीति ।। ‘कर्म चैव तदर्थीयम्’ इत्यनेनेत्यर्थः

।। २७ ।।

भावरत्नकोशः

।। सच्छब्दो व्याख्यात इति ।। ‘यज्ञे तपसि’ इत्यनेन यज्ञादिषु स्थितिशब्दिता निष्ठा सच्छब्दप्रवृत्तौ निमित्तमुक्तम् । तथा च तादृशनिष्ठाविषयत्वेन यज्ञादिकं ‘सत् इत्युच्यते । ‘कर्म चैव तदर्थीयम् ’इत्यनेन च भगवदुद्देश्यकं यज्ञादिकर्म ‘सत्’ इत्युच्यत इत्येवं व्याख्यात इत्यर्थः । तेन एवंव्याख्यानेन, ‘कर्म चैव’ इत्यनेन ब्रह्मविषयत्वम्, ‘यज्ञे तपसि’ इत्यनेन निष्ठया इति लब्धमिति द्रष्टव्यम् ।।

 गीताक्षरार्थस्तु यज्ञादिषु सच्छब्दो व्याख्यायते– यज्ञ इति ।। यज्ञे तपसि दाने च स्थितिः निष्ठा च सदित्युच्यते । तदर्थीयम् ‘ओं तत्सदिति निर्देशो ब्रह्मणः’ इति ब्रह्मविषयं कर्म च ब्रह्मप्रीत्युद्देश्यकम् एव कर्म सदित्यभिधीयते इत्यनेन ‘ब्रह्मविषयत्वम्, ‘निष्ठा च’ इति इतिकर्तव्यता लभ्यते ।। २७ ।।

भावदीपिका

।। ब्रह्मविषयत्वेनेति ।। ‘कर्म चैव तदर्थीयम्’ इत्यनेने-त्यर्थः । निष्ठया चेति ।। ‘यज्ञे तपसि दाने च स्थितिः’ इत्यनेनेत्यर्थः । स्थितेरेव निष्ठात्वादिति भावः ।। २७ ।।

भावप्रकाशः

 ।। सच्छब्दो व्याख्यात इति ।। यज्ञे तपसीत्यनेन यज्ञादिषु निष्ठा सच्छब्दप्रवृत्तिनिमित्तमिति युक्तम् । तथा च तादृशनिष्ठाविषयत्वेन यज्ञादिकं सदित्युच्यत इति लभ्यते । कर्म चैवेत्यनेन भगवदर्थयज्ञादिकर्म सदित्युच्यत इत्येवं सच्छब्दो यज्ञादौ व्याख्यात इत्यर्थः । तेनेति ।। कर्म चैवेत्यनेन ब्रह्मविषयत्वं लब्धम् । यज्ञे तपसीत्यनेन निष्ठेति योगमन्वयः ।। २७ ।।