एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। ६ ।।

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। ६ ।।

भाष्यम्

न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यम् इत्याह– अहमिति।। प्रभवादेः सत्ताप्रतीत्यादेः कारणत्वात् तद्भोक्तृत्वाच्च प्रभव इत्यादि ।

भावप्रदीपिका

उत्तरश्लोकमवतारयति– न केवलमिति । जगत्प्रकृती जगत्कारणप्रकृती । ननु केनाभिप्रायेण प्रभवादेर्भगवदैक्यमुच्यते ? इत्यत आह– प्रभवादेरिति । भोक्तृभोग्ययोरैक्यव्यपदेशो यथा ‘अस्य जीव एव कदलीफलम्’ इति ।

भावप्रकाशिका

न च जगत्कर्त्र्योर्भगवदधीनत्वमात्रं भगवदैश्वर्यम् । किन्तु तयोर्महदादिषु च सर्वेषु स्थित्वा भगवानेव जगदुत्पत्त्यादि करोति । स एव सर्वस्मात् परतमः । तस्मिन्नेव सर्वमिदं प्रोतमितीत्यभिप्रायेणोत्तरं श्लोकत्रयमवतारयति– न केवल-मिति । ननु भवत्पक्षे प्रभवप्रभवित्रोरभेदात् ‘अहं कृत्स्नस्य जगतः प्रभवः’ इत्याद्युक्तौ ‘अहं कृत्स्नं जगत्’ इत्येवोक्तं स्यात् । तर्हि कथं भगवतः सर्वस्माद्भेद इत्यत आह– प्रभवादेरिति । स्वकृतक्षेत्रादिरूपेणोच्यमानमैत्रादिवत् प्रभवादिभोक्तृत्वादपि प्रभव इत्याद्युच्यते । मैत्रा-देर्व्रीह्यादिप्रभवादिवत् सर्वजगत्प्रभवादिर्भगवतो भोज्य इति भावः ।।

प्रमेयदीपिका

नन्वत्रापरपरनिरूपणपूर्वकं भगवतो यत्परत्वं वक्तुभिप्रेतं तत्र शरीरेन्द्रियविषयलक्षणाख्यकार्यस्य जीवानां च तयोरेवान्तर्भाव इति दर्शयितुम् ‘एतद्योनीनि’ इत्युक्तम् । इदानीमहं परतर इति वक्तव्यम् । इदं तु किमर्थमुच्यते? इत्यत आह– न केवलमिति ।। पूर्वं वाक्यभेदेन प्रकृत्योरवरत्वं परत्वं ‘मे’ इति स्ववशत्वं चोक्त्वा ‘ययेदं धार्यते जगत्, एतद्योनीनि’ इति जगदाधारत्वकारणत्वे कथिते । तत्र प्रकृती एव भगवद्वशे जगज्जन्मस्थितिलयास्तु प्रकृत्यधीना एव न भगवदधीना इति प्रतीतम् । तन्निरासार्थमेत-दित्यर्थः । जगत्प्रति ममैश्वर्यमित्येतावत् प्रकृतिद्वारकमुपचरितमिति यावत् । प्रकृत्योः कारण-त्वादिकं मदायत्तमिति भावः । ‘जगद्धर्मयोः प्रभवप्रलययोः साक्षाद् भगवदैक्यमुच्यते’ इति प्रतीतिनिरासार्थमाह– प्रभवादेरिति ।। यथा पुत्रादिप्रभवो रिपुप्रलयश्चोपलब्धः सुखहेतुरित्युप-लब्धः पित्रादेः तद्भोक्तृत्वं तथा तद्भोक्तृत्वात् ।।

भावबोधः

।। तयोरेवान्तर्भाव इति ।। कार्यरूपजडस्य कारणे भूम्यादौ जीवानां जीवप्राणधारकचित्प्रकृतावन्तर्भाव इत्यर्थः । ‘इति दर्शयितु’मित्येनेन ‘एतद्योनीनि’ इत्यस्य प्रकृतोपयोगः स्पष्टं प्रतीयते इति भाष्ये तदनुक्तिरित्युक्तं भवति । वाक्यभेदेनेति ।। अहङ्कार इत्यष्टधा भिन्ना इयं प्रकृतिर्मे मदधीना जीवभूतप्रकृतिमपेक्ष्यापरा चेति विद्धीत्येकं वाक्यम् । इतः जडप्रकृतितः अन्यां ततः परां मे मदधीनां विद्धीत्यपरं वाक्यमिति वाक्यभेदेनेत्यर्थः ।

ननु ‘जगत्प्रकृती’ इत्यत्र द्वन्द्वसमासत्वे जगतो भगवद्वशत्वस्यानुक्तत्वादनुक्तसङ्ग्रहः । परापर-प्रकृत्योर्भगवद्वशत्वस्योक्तत्वेनैकप्रकृतिपरित्यागश्चापद्यते । षष्ठीतत्पुरुषत्वे जगदिति व्यर्थमित्यतो भिन्नपदत्वमाश्रित्यान्वयं दर्शयन् व्याचष्टे– जगत्प्रतीति ।। ‘न केवल’मित्यस्य व्यावर्त्यमाह–प्रकृत्योः कारणत्वमिति ।। विष्णोर्जगत्प्रभवादिभोक्तृत्वप्रकारं सदृष्टान्तमाह– यथा पुत्रादिप्रभव इति ।।

भावदीपः

भाष्ये अनुक्तेः पूर्वार्धतात्पर्यं दुर्गमत्वात् स्वयं व्यक्तीकुर्वन्नेवोत्तरार्ध-सम्बन्धभाष्यमवतारयति– नन्वत्रापर इत्यादिना ।। वाक्यभेदेनेति ।। ‘इयं जडरूपा प्रकृतिरपरा’ इत्येकं वाक्यम् । ‘इतः जडप्रकृतितः अन्यां जीवभूतां परां विद्धि’ इत्यन्यद्वाक्यम् । ‘सा च मे मदीया मदधीना’ इत्यपरं वाक्यम्’ इति वाक्यभेदेनेत्यर्थः ।। ‘जगत्प्रकृति’ इत्यत्र जगत्पदस्य षष्ठ्यन्ततया प्रकृतिविशेषणत्वे वैयर्थ्याद् अन्यथा योजयति– जगत् प्रतीति ।। प्रकृती मद्वशे इत्युक्तम् एतत्च्छब्दपरामृष्टम्, तस्य फलितार्थमाह– प्रकृतिद्वारकमिति ।। प्रकृत्यादिभोक्तृत्वं हरेर्व्यनक्ति– यथेत्यादिना ।।

भावरत्नकोशः

पूर्वसन्दर्भानुवादपूर्वम् ‘अहं कृत्स्नस्य’ इत्यधिगमनिकाभाष्य-मवतारयितुं शङ्कते– नन्वपरेति ।। अपरशब्दस्यानुत्तमार्थस्यार्थानुवादः– अवरेति ।। अभिप्रेत-मिति ।। अपरवस्तुपरवस्तुनिरूपणानन्तरं परतरवस्तुनिरूपणस्य विस्तरप्राप्तत्वादिति भावः । ‘एतद्योनीनि भूतानि’ इत्यर्धमपि प्रकृतानुपयुक्तम् इत्यतोऽस्य प्रकृतोपयोगं दर्शयति– तत्र शरीरेन्द्रियेति ।। ‘भूतानि सशरीरान् जीवान्’ इत्यष्टमाध्यायभाष्ये शरीरपदमुपलक्षणमिति भावेन ‘शरीरेन्द्रियविषयलक्षणस्य कार्यस्य जीवानां च’ इति भूतशब्दार्थोक्तिः ।। तयोरेवेति ।। भूत-शब्दस्य चिदचिद्विषयवस्तुवाचित्वेन शरीरादिलक्षणकार्यस्य जडप्रकृतौ, जीवानां च चित्प्रकृता-वन्तर्भाव इति दर्शयितुं जडाजडप्रकृतिकारणकानि भूतानीत्युक्तमित्यर्थः । इदं तु ‘अहं सर्वस्य जगतः’ इत्यर्धं तु । कृतचोद्यपरिहारं भाष्यारूढं वक्तुमाह– पूर्वमिति ।।इयं मे भिन्ना प्रकृतिः’ इति, ‘प्रकृतिं विद्धि मे पराम्’ इति । ‘च’, ‘मे’ इत्यस्य द्विरावृत्तितात्पर्यम् वाक्यभेदेनेति ।। ‘इयं मे भिन्ना प्रकृतिः’ इति, ‘प्रकृतिं श्रीदेवीं परां विद्धि’ इत्येकं वाक्यम् । ‘तां च मद्वशां विद्धि’ इत्यपरं वाक्यम् इति वाक्यभेदेनेत्यर्थः । एतत् ‘अहं कृत्स्नस्य जगतः’ इति वाक्यम् ।

ननु ‘जगत्प्रकृती’ इति द्वन्द्वाभ्युपगमे बहुवचनश्रवणप्रसङ्गः । परापरप्रकृत्योः प्रस्तुतत्वात् । ‘जगतः प्रकृती’ इति षष्ठीतत्पुरुषाश्रयणे जगत्पदस्य नातीव प्रयोजनम् इत्यतो ‘जगत्’ इति पृथक् पदं द्वितीयान्तम् । द्वितीया च कर्मप्रवचनीययोगलक्षणेति भावेन प्रतिशब्दं संयोजयति जगत्प्रति इति । इत्येतावत् ‘प्रकृती मद्वशे इत्येतावत्’ इत्यस्य फलितं दर्शयति– प्रकृतिद्वारकमिति ।। किमुक्तं भवतीत्यत आह– उपचरितमिति यावदिति ।। प्रकृतिनिष्ठजगदाधारत्वजगत्कारणत्वरूपम् ऐश्वर्यं प्रकृतिस्वामिन्युपचर्यत इत्यर्थः । ननु जगत्कारणत्वाद्यैश्वर्यं प्रकृतिद्वारकमुपचरितं भवतीत्युक्त्या भगवतः साक्षाज्जगत्कारणत्वादिकं गीताभिप्रेतमित्युक्तं स्यात् । नच तद्युज्यते । ‘प्रभवादेः सत्ताप्रतीत्यादिकारणत्वात्’ इत्युत्तरभाष्येण जगद्धर्मभूतप्रभवादिकारणत्वस्यैव साक्षात् प्रत्यायनात्, जडप्रकृतिस्वभावपरिणामलक्षणकारणत्वस्य भगवति सर्वथाऽनुपपत्तेश्चेत्यत आह– प्रकृत्योरिति ।।

अनेन यदुक्तं ‘प्रकृती एव भगवद्वशे, जगज्जन्मादिस्थितिलयाः तत्प्रकृत्यधीना एव, न भगवदधीना’ इति तन्निरस्तम् । प्रकृत्योरिव प्रकृतिनिष्ठकारणत्वाधारत्वयोरपि ‘अहं कृत्स्नस्य जगतः’ इति भगवदधीनत्वकथनादिति । प्राचीनटीकायां भावदीपिकायां च ‘जगतः प्रकृती जगत्प्रकृती’ इति विग्रह इति लभ्यत इति ।

ननु प्रभवप्रलययो रूपरसादिवद् भोग्यत्वाभावात् कथं तद्भोक्तृत्वं भगवतः ? इत्यतः तद्बुद्ध्यारोहाय दृष्टान्तेनोपपादयति यथा पुत्रादीति । तत्सत्तायाश्च मदधीनत्वेन तदभेदव्यपदेशः ‘सर्वं खल्विदं ब्रह्म’ ‘राजा राष्ट्रम्’ इत्यादौ दृष्टः । ‘यदधीना यस्य सत्ता तत् तदित्येव भण्यते’ इति शास्त्रात् । भोग्यभोक्त्रोरैक्यव्यपदेशश्च ‘असौ जीव एव कदलीफलम्’ इत्यादौ दृष्ट इति भावप्रदीपिकायाम् उक्तम् । उक्तं च ‘सर्वयज्ञभुजे नमः’ इत्यत्र यज्ञभोक्तृत्वात् ‘यज्ञनाम्नः’ इतीशावास्यटीकायाम् । वक्ष्यति च ‘आह च’ इति भाष्यगमनिकायाम् ।।

भावदीपिका

।। परापरेति ।। प्रकृती इत्यर्थः । विषयः शब्दादिः । तयो-रेवेति ।। परापरप्रकृत्योरेवेत्यर्थः । तत्र शरीरेन्द्रियादिरूपजडस्य कारणे भूम्यादौ, जीवानां च जीवप्राणधारकचित्प्रकृतावन्तर्भाव इत्याशयः । इति दर्शयितुमिति ।। तथा च ‘एतद्योनीनि’ इत्यस्य प्रकृतोपयोगः स्पष्टं प्रतीयत इति भाष्ये तदनुक्तिरित्युक्तं भवति । इदं त्विति ।। ‘अहं कृत्स्नस्य’ इतीदं वाक्यमित्यर्थः । वाक्यभेदेनेति ।। ‘अष्टधा भिन्नेयं प्रकृतिः मे मदधीना जीवभूत-प्रकृतिम् अपेक्ष्यापरा चेति विद्धि’ इत्येकं वाक्यम्, ‘इतो जडप्रकृतितोऽन्यां ततः परां चित्प्रकृतिं मे मदधीनां विद्धि’ इत्यपरं वाक्यमिति वाक्यभेदेनेत्यर्थः ।

ननु ‘जगत्प्रकृती’ इत्यत्र द्वन्द्वसमासाश्रयणे जगतो भगवद्वशत्वस्य साक्षादनुक्तानुवादापत्तिः, परापरप्रकृत्योर्भगवद्वशत्वस्योक्तत्वेन एकप्रकृतिपरित्यागश्चापद्येत । षष्ठीतत्पुरुषाश्रयणे तु ‘जगत्’ इति व्यर्थमित्यतो भिन्नपदत्वम् आश्रित्यान्वयं दर्शयन् व्याचष्टे– जगत्प्रतीति ।। ‘केवलं प्रकृती मद्वशे इत्येतावत्’ इत्यस्य तात्पर्यार्थः – प्रकृतिद्वारकमुपचरितमितीति ।। केवलशब्दार्थः– उपचरितमिति ।। मदधीनप्रकृतेर्जगत्कारणत्वात् तद्द्वारा परम्परया जगदपि मदधीनमित्युप-चरितमित्यर्थः । ‘केवलमुपचरितं न’ इत्यस्य फलितमर्थमाह– प्रकृत्योरिति ।। प्रकृतिनिष्ठं जगत्कारणत्वादिकमित्यर्थः । तथा च ‘प्रकृती मद्वशे इत्येतावत्’ इत्येतावता जगत्प्रति ममैश्वर्यं केवलं प्रकृतिद्वारकमुपचरितं न भवति, किं नाम ? यत् प्रकृतेर्जगत्कारणत्वादि तत् सर्वं मदधीनम्, अतोऽहमेव मुख्यतो जगत्कर्तेति जगत् प्रति ममैश्वर्यं न प्रकृतिद्वारकमुपचरितमित्याहेति भाष्यार्थो द्रष्टव्यः । विष्णोर्जगत्प्रभवादिभोक्तृत्वप्रकारं सदृष्टान्तमाह– यथेत्यादिना ।। ‘पित्रादेः’ इत्यत्रादि-पदाद् वैरिग्रहणम् । तथा च यथा पुत्रप्रभव उपलब्धः सुखहेतुरिति तदुपलब्धुः पितुः पुत्रादि-प्रभवभोक्तृत्वम्, तथा रिपुप्रलयश्चोपलब्धः सुखहेतुरिति तदुपलब्धुस्तद्वैरिणो रिपुप्रलयभोक्तृत्वम्, तथा जगत्प्रभवप्रलययोरप्युपलब्धयोर्भगवत्सुखव्यक्तिकारणत्वेन तदुपलब्धुर्भगवतस्तद्भोक्तृत्वं युक्तमित्यर्थः ।

भावप्रकाशः

 ।। तयोरेवान्तर्भाव इति ।। अपरप्रकृतिवाचकशब्देन तत्कार्य-शरीरादेरुपलक्षणम् । परप्रकृतिवाचकशब्देन तु चिद्रूपत्वाख्यगुणयोगेन गौण्या जीवानां ग्रहण-मित्यर्थः ।। कथमनेनोक्तशङ्कानिवृत्तिरित्यत आह– पूर्वमिति ।। वाक्यभेदेनेति ।। अष्टधा भिन्नेयं प्रकृतिर्मदधीनेत्येकम् । इयं चापरेति द्वितीयम् । एवमितोऽन्यां प्रकृतिं परां विद्धीत्येकं वाक्यम्, तां च मे मदधीनां विद्धीति द्वितीयमित्येवं वाक्यभेदेनेत्यर्थः ।।

ननु केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यं नेत्युक्त्याऽधिकमपि मद्वशमिति प्रतीयते । न च तद्युक्तम् । अधिकस्यैवाभावादिति चेन्न । ममैश्वर्यं जगत्प्रकृती मद्वशे इत्येतावत्केवलं नेत्यन्वयात् । ननु तथाऽपि ‘जगत्प्रकृती’ इति न द्वन्द्वः । परापरप्रकृत्योः भगवद्वशत्वस्योक्त-त्वेनैकप्रकृतिपरित्यागापत्तेः । प्रकृतिपदस्य जगदुपलक्षकत्वेन जगत्पदवैयर्थ्यापत्तेश्च । षष्ठीतत्पुरुषत्वे च ‘जगतः’ इति व्यर्थमित्यतो भिन्नपदत्वमाश्रित्य व्यवहितान्वयमाह– जगत् प्रतीति ।। ननु ‘इत्येतावत्’ इत्यनेन जगदैश्वर्यस्य प्रकृतिस्वामित्वतादात्म्यमनूद्यत इति वक्तव्यम् । नच तद्युक्तम् । तादात्म्यस्याप्रसक्तेरित्यत आह– उपचरितमिति यावदिति । उपचारजीवसम्बन्धं वक्तुमुक्तम् । प्रकृतिद्वारकमिति ।। प्रकृतिनिष्ठं जगदाधारत्वादिरूपं जगदैश्वर्यं प्रकृतिस्वामिन्युपचर्यत इत्यर्थः । ननु ‘जगत्कारणत्वाद्यैश्वर्यं प्रकृतिद्वारकमुपचरितं न भवतीत्याह’ इत्यनेन भगवतः साक्षाज्जगत्कारण- त्वादिकं गीताप्रतिपाद्यमिति प्राप्तम् । नचैतद्युज्यते । ‘प्रभवादेः सत्ताप्रतीत्यादी’ति भाष्येण जगत्कारणत्वादिस्वाम्यस्यैव गीताप्रतिपाद्यत्वोक्तेः । अन्यथा सत्ताप्रतीत्यादिशब्दवैयर्थ्यादित्याङ्क्य ‘न केवल’मित्यस्य फलितमाह– प्रकृत्येरिति ।। ननु प्रभवादिरूपादिवद्भोग्यत्वाभावात् कथं तद्भोक्तृत्वं भगवत इत्यत आह– यथा पुत्रादीति ।।

 

Load More