सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ।। ४ ।।

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।

तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ।। ४ ।।

भाष्यम्

महद्ब्रह्म प्रकृतिः । सा च श्रीभूदुर्गेति भिन्ना । उमासरस्वत्याद्यास्तु तदंशयुता अन्यजीवाः । तथा च काषायणश्रुतिः–

श्रीर्भूर्दुर्गा महती तु माया सा लोकसूतिर्जगतो बन्धिका च ।  उमावागाद्या अन्यजीवास्तदंशा स्तदात्मना सर्ववेदेषु गीताः’ इति ।।

मम योनिः इति गर्भधानार्था योनिः । नतु माता, वाक्यशेषात् ।

भावप्रदीपिका

मम योनिर्महद्ब्रह्म इत्यत्र महद्ब्रह्मशब्दार्थमाह– महदिति । सत्वं रजस्तमः इति व्याख्याति– सा चेति । उमासरस्वतीन्द्राणीत्यादिपुराणेषु श्रूयत इत्यत आह– उमेति । मम योनिः इति मम मातेत्यर्थं वाक्यशेषश्रुतिभ्यां दूषयति– ममेति ।

प्रमेयदीपिका

अत्र ‘महद् ब्रह्म’ इति जडाविद्योच्यते’ इति प्रतीति-निरासार्थमाह– महदिति ।। प्रकृतिः महालक्ष्मीः । ननु सत्त्वं रजस्तमः इति जडा प्रकृतिः वक्ष्यते । तत्सन्निधानादत्रापि सैव युक्तेति चेन्न । तत्रापि चेतनप्रकृत्यभि-धानात् । कथमस्याः सत्त्वादिभेदभिन्नत्वम् ? इत्यत आह– सा चेति ।। जडप्रकृते-रभिमानिनी तत्कार्यसत्त्वादिगुणाभिमानिनी एतद्रूपत्रयवतीत्यर्थः । ननु भगवती ‘माहेश्वरी ब्राह्मी कौमारी माहेन्द्री श्री भू दुर्गा’ इति सप्तधा भिन्ना आगमेषूच्यते । तत्कथं त्रिधा भिन्नोच्यते ? इत्यत आह– उमेति ।। आद्याः चतस्रो भगवत्या अन्याः । कुतः ? जीवाः । कथं तद्रूपत्वोक्तिः ? तदंशयुताः तत्सन्निधानोपेताः । कुत एतत् ? इत्यत आह– तथा चेति ।।

 मम योनिः’ इत्येतत् परे व्याचक्षते ‘मम स्वरूपभूता योनिः कारणं विश्वस्य । प्रतीत एवान्वये ‘मम माता’ इत्यापत्तेः’ इति । तन्निरासार्थमाह– ममेति ।। भार्येत्यर्थः । ‘मम’ इत्यनुवादेनान्यथाप्रतीतावन्वयबाधः स्यादिति सूचयति । प्रतीता-न्वयाङ्गीकारे ‘माता’ इत्यपि प्रतीयेत । तत्र कथं भार्येति निश्चय इत्यत आह– नत्विति ।। ‘इति प्रतीतिः प्रसज्यते’ इति शेषः । कुतो न ? इत्यत आह– वाक्येति ।। ‘तस्मिन् गर्भं ददाम्यहम्’ इति वाक्यशेषात् भार्यार्थतानिश्चयात् ।।

भावबोधः

ननु योनिशब्दस्यैव व्याख्यानात् ममेत्यस्यानुवादो व्यर्थः इत्यत आह– ममेत्यनुवादेनेति ।। अन्यथा ‘स्वरूपभूता’ ‘विश्वस्य’ इतिपदद्वयाध्याहारे मम योनिरिति यथाश्रुतान्वयबाधः स्यादित्यर्थः ।

भावदीपः

।। ‘भगवती’ इत्यनुवादः ‘माहेश्वरी’ इत्यादि प्रभेदोक्तिः । आद्या इति भाष्यैकदेशानुवादः । तदवधिमाह– चतस्र इति ।। ‘माहेन्द्री’ इत्यन्तमित्यर्थः ।। ‘ममेत्यनुवादेनेति ।। इति सूचयति इत्यन्वयः ।। अन्यथेति ।। परोक्तयोजनापक्ष इत्यर्थः ।।

भावरत्नकोशः

‘मदीया त्रिगुणात्मिका माया सर्वेषां भूतानाम् उपादान-कारणभूता देशतः कालतोऽनवच्छिन्नत्वात् महत्, सर्वकार्यवृद्धिहेतुत्वाद् ब्रह्म’ इति परैर्व्याख्यानादाह– जडाविद्येति ।। प्रतीतिनिरासार्थं परापव्याख्यानाहितप्रतीतिनिरासार्थमस् । प्रकृतिशब्देन जडाविद्योपस्थाप्यत इति कथं तन्निरासः इत्यतः ‘महालक्ष्मीः प्रकृतिः’ इति तात्पर्योक्तं प्रकृतिशब्दार्थमाह– प्रकृतिर्महालक्ष्मीरिति ।। ‘युक्ता ग्रहीतुम्’ इति शेषः । अस्याः चेतनप्रकृतेः । भगवत्याः महालक्ष्म्याः । जीवाः दुःखस्पृष्टचेतनाः । अनेन भाष्ये ‘अन्याश्च जीवाश्च इति विग्रहाश्रयणाद् ‘अन्याः’ इत्येव पूर्तेः, जीवपदमतिरिच्यत इति शङ्का परास्ता । अन्यत्वे जीवत्वस्य हेतूकरणार्थत्वात् । कथं ‘तर्हि’ इति शेषः । तद्रूपत्वोक्तिः महालक्ष्मीरूपत्वोक्तिः । ‘इत्यतः उक्तम् इति शेषः । ‘तदंशयुताः’ इत्यतः परं ‘इति’ शब्दोऽध्याहार्यः । जयन्तीजानक्यादिप्रतीतिनिरासाय अंशशब्दितविवक्षितमर्थमाह– तत्सन्नि-धानोपता इति ।।

भाष्ये महती माया लक्ष्मीः ‘श्रीः भूः दुर्गा’ इति रूपत्रयवती लोकसूतिः लोकस्य सवित्री जगतः देवमानवदानवात्मकस्य बन्धिका । श्रीर्देवानाम् भूर्नृणाम् दुर्गा दानवानां बन्धकर्त्रीति विवेकः । वाक् सरस्वती । आद्यशब्देन कुमारस्त्री रतिः, महेन्द्रस्त्री शची च ग्राह्ये । अन्यजीवाः मायाया अन्याः, कुतः जीवाः । कथं तर्हि मायारूपत्वोक्तिः इत्यत उक्तम्– तदंशा इति ।। मायांशा इव तत्सन्निधानवत्य इति यावत्, ‘यतोऽतः’ इति शेषः । तदात्मता मायारूपता, सर्ववेदेषु तत्रतत्रागमेषु गीता इत्यर्थो द्रष्टव्यः । विश्वस्य ‘इत्यध्याहृतेनान्वयः’ इति शेषः । ‘न’ इत्यनन्तरं ‘पुनः’ इति च । क्वचित्तु ‘प्रतीते एवान्वये’ इति सप्तम्यन्तपाठः । इत्यापत्तेरिति ।। योनिशब्दस्य कारणार्थत्वाद् ‘मम योनिः मम कारणम् इत्यर्थे ‘मम माता’ इत्यापत्तेरित्यर्थः ।

ननु गर्भाधानार्थयोनिः का स्यात् इत्यतः ‘अत्र योनिः भार्या’ इत्यन्यत्र उक्तं योनिशब्दार्थं निर्दिशति– भार्येत्यर्थ इति ।। ननु ‘योनिभार्या तथा स्थानं योनिः कारणमेव च’ इत्यभि-धानाद् योनिशब्दो नानार्थ इति विवक्षितार्थो व्याख्यातव्यः । तत्र ‘मम’ इत्यनुवादो व्यर्थः इत्यत आह– ममेत्यनुवादेनेति ।। अन्यथा ‘स्वरूपभूता’ इति, ‘विश्वस्य इति च पदद्वया-ध्याहारेणान्वय इति परपक्षे । प्रतीतान्वयेति ।। ‘मम योनिः’ इति यथाश्रुतान्वयाङ्गीकार इत्यर्थः । तत्र तथा सति । ‘माता’ इत्यनन्तरमध्याहार्यमाह– इति प्रतीतिरिति ।। निश्चयाद् इति हेतोः ‘न तु मातेति प्रतीतिः प्रसज्यते’ इति साध्येनान्वयः ।।

भावदीपिका

नन्वीश्वरमाहात्म्यस्यैव सर्वापेक्षया प्राधान्यात् कथं ‘प्राधान्येन’ इत्युक्तम् इत्यत आह– प्राचुर्येति ।। इतिकर्तव्यतांशप्रपञ्चकग्रन्थबहुत्वापेक्ष-येत्यर्थः । नन्वेवं तर्हि पञ्चानामप्यध्यायानां भेदः किंनिबन्धनः इत्यत आह– अवान्तरेति ।। अत एव ‘क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति’ इति तात्पर्यं हृदि कृत्वैतदध्यायार्थमाह– तत्रेति ।। ।। जडप्रकृतेरभिमानिनीति ।। लक्ष्मीरित्यर्थः । भगवती महालक्ष्मीः । माहेश्वरी उमादेवी ब्राह्मी सरस्वती कौमारी कुमारः कामः, तत्पत्नी कौमारी रतिः माहेन्द्री शची भगवती माहेश्वर्यादिसप्तधेत्यर्थः । आद्याः माहेश्वर्याद्याः । जीवा इति ।। दुःखस्पृष्टचेतना इत्यर्थः । ‘नित्यादुःखा रमा, अन्ये तु स्पृष्टदुःखाः समस्तशः’ इत्युक्तेरिति ध्येयम् । तेन रमाया अपि ‘जीवभूतां महाबाहो’ इति पूर्वं प्राणधारकत्वेन जीवत्वोक्तेः माहेश्वर्यादीनां भगवत्या अन्यत्वे जीवत्वं कथं हेतुरुच्यते इति शङ्काऽनवकाश इति ध्येयम् ।

।। प्रतीत एवेति ।। ‘मम स्वरूपभूता’ इत्यध्याहृत्य व्याख्यानाकरणे ‘मम योनिः’ इति प्रतीत एवान्वयेऽङ्गीकृते सतीत्यर्थः । मम मातेतीति ।। भार्यायाश्च मातृत्वं बाधितमिति भावः । ननु योनिशब्दस्यैव व्याख्यानात् ‘मम’ इत्यनुवादो व्यर्थः इत्यत आह– ममे-त्यनुवादेनेति ।। अन्यथेति ।। ‘स्वरूपभूता’ ‘विश्वस्य’ इति पदद्वयाध्याहारे तव यथा-श्रुतान्वयबाधः स्यादित्यर्थः । अस्माकं तु प्रतीतान्वय एवेति भावः । इत्यपीति ।। योनिशब्दस्य गर्भाधानस्थले कारणे च प्रसिद्धेरित्याशयः ।।

भावप्रकाशः

 ।। महालक्ष्मीरिति ।। वक्ष्यमाणविरूपत्वोपपादनाय महत्त्व-विशेषणम् । तथा च महालक्ष्मीर्लक्ष्म्या मूलरूपमित्यर्थः । मातापितृकर्तृकगर्भाधानार्था योनि-र्भवतीत्यत आह– भार्येत्यर्थ इति ।। ननु योनिशब्दस्यैव व्याख्यानान्ममेत्यनुवादो व्यर्थ इत्यत आह– ममेत्यनुवादेनेति ।। बाध इति ।। स्वरूपभूतेत्यध्याहारेण व्याख्यानादिति भावः ।

Load More