पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ।। २१ ।।

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ।। २१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यत्तु सर्वेषु भूतेषु जीवेषु पृथक्त्वेन भिन्नत्वेन ज्ञानम् यच्च नानाभावान् नानाप्रकारान् पदार्थान्, जडानिति यावत् पृथग्विधान् प्रत्येकं भिन्नस्वरूपान् वेत्ति विषयीकरोति तज्ज्ञानं राजसं विद्धि ।। विष्णोरन्यस्य प्रपञ्चस्य याथात्म्यम् अवगाहमानं सर्वभूतेषु विद्यमानं विष्णुमेकत्वेन अनवगाहमानं भगवत्स्वरूपं सन्दिग्धतयाऽव-गाहमानं च ज्ञानं राजसमिति यावत् । ‘सर्वभूतेषु पृथक्त्वेन यज्ज्ञानम् इत्यस्य व्याख्या नानानाभावान् इत्यादि तु उत्तरप्रस्थाने ।। २१ ।।