एवं युञ्जन् सदाऽऽत्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ।। २८ ।।
एवं युञ्जन् सदाऽऽत्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ।। २८ ।।
भाष्यम्
पूर्वश्लोकोक्तं प्रपञ्चयति– एवं युञ्जन्निति ।। २८ ।।
भावप्रकाशिका
ननु योगिनः सुखावाप्तिरुच्यते ‘प्रशान्तमनसम्’ इति श्लोके तदुत्तरश्लोके च । अतः को विशेषोऽनयोः ? इत्यत आह– पूर्वेति ।। २७,२८ ।।
प्रमेयदीपिका
प्रशान्तमनसम् इत्युक्तमेव पुनः कस्मादुच्यते? इत्यत आह– पूर्वेति ।। २८ ।।
भावदीपः
।। उक्तमेवेति ।। ‘सुखमात्यन्तिकम्’इत्यादिश्लोकोक्तमेवेत्यर्थः । अथवा युञ्जन्नेवं सदाऽऽत्मानम् इत्यादिश्लोकोक्तमेवेत्यर्थः ।। २७ ।।
भावरत्नकोशः
भाष्ये पूर्वशब्देन कः श्लोको ग्राह्य इत्यतस्तं दर्शयति– प्रशान्त-मनसमितीति ।। योगिना सुखं किमायासेन प्राप्यते , कीदृशं च तत् इति शङ्कामपनुदता पूर्वश्लोकोक्तमेव प्रपञ्च्यते एवं युञ्जन्निति । उक्तदिशा आत्मानं मनो युञ्जन् भगवति युञ्जानः, भगवन्तं ध्यायन्निति वा, विगतकल्मषः वीतरागादिदोषः सुखेन ओशेन ब्रह्मसंस्पर्शं भगवत्संसर्गाभिव्यक्तम् अत्यन्तम् अतिशयितं सुखमश्नुते प्राप्नोति ।। २८ ।।