अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ।। ८ ।। इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।। ९ ।।
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ।। ८ ।।
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।। ९ ।।
भाष्यम्
‘स च यो यत्प्रभावश्च’ इति वक्तुं तज्ज्ञानसाधनान्याह– अमानित्व-मित्यादिना ।। आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः ।। ‘ज्ञात्वाऽपि स्वात्मनोऽल्पत्वं दम्भो माहात्म्यदर्शनम्’ इति ह्यभिधानम् । आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् ।। ८,९ ।।
भावप्रदीपिका
उत्तरप्रघट्टकमवतारयति– स चेति । लक्षणं प्रभावं च अनादिमत्परं ब्रह्म इत्यनेन वक्तुमित्यर्थः । मानाहङ्कारवैलक्षण्येन दम्भं सप्रमाणकं दर्शयति– आत्मेति । आर्जवपदमप्रतीतिनिरासाय व्याचष्टे– आर्जवमिति ।।
प्रमेयदीपिका
ननु षट्स्वर्थेषु प्रतिज्ञातेषु अमानित्वादिकमनन्तर्भूतं किमित्युच्यत इत्यत आह– स चेति ।। इति प्रतिज्ञातमर्थद्वयं वक्तुं ‘ज्ञेयं यत् तत्’ (१३.१३) इत्यादिना । ‘न यादृशतादृशेन श्रवणेन तदनुभवारूढं भवतीत्याशयेन’ इति शेषः । मानाहङ्काराभ्यां दम्भं पृथग्दर्शयति– आत्मेति ।। आर्जवं ज्ञानसाधनं यथा स्यात्तथा व्याचष्टे– आर्जवमिति ।। एतच्च सन्मार्ग इति ज्ञातव्यम् ।। ८,९ ।।
भावबोधः
नन्वेवं व्याख्यानेऽप्यार्जवस्य न ज्ञानसाधनत्वं सम्भवति । दुर्मार्गे मनोवाक्कायकर्मणामवैपरित्यस्य सम्यग्ज्ञानविरोधित्वादित्यत आह– एतच्चेति ।। ८ ।।
भावदीपः
।। वक्तुमिति भाष्ये ‘केन’ इत्याकाङ्क्षां पूरयति–ज्ञेयं यत्त-दित्यादिनेति ।। ‘तज्ज्ञान’ इत्यतः पूर्वं शेषमाह– न यादृशेत्यादि ।। सन्मार्ग इतीति ।। अन्यस्य ज्ञानानुपायत्वादिति भावः ।। ८,९ ।।
भावरत्नकोशः
।। षट्स्वर्थेष्विति ।। ‘तत्क्षेत्रं यत्’ इत्येकः, ‘यादृक्’ इति द्वितीयः, ‘यद्विकारि’ इति तृतीयः, ‘यतश्च यत्’ इति तुरीयः, ‘स च यः’ इति पञ्चमः, ‘यत्प्रभावः’ इति षष्ठः, इति प्रतिज्ञातोऽर्थ इत्येवं षट्स्वर्थेष्वित्यर्थः । इतिशब्दमनूद्य अध्या-हरति– इति प्रतिज्ञातमर्थद्वयमिति ।। ‘वक्तुम्’ इत्यनूद्य तत्र शेषमाह– वक्तुं ज्ञेयमिति ।। यादृशतादृशेन अमानित्वादिधर्मं विना कृतेन । ‘तत्समासेन मे शुणु’ इति गीतत्वादाह– श्रवणेनेति ।। तद् ज्ञेयं वस्तु । ‘भवति’ इत्यनन्तरम् किन्तु, अमानित्वादिसहायसम्पत्ति-सहितेन’ इति शेषः । मानेति ।। आत्मगुणश्लाघनं मानः, अविद्यमानात्मगुणाभिमानोऽहङ्कार इति मानाहङ्कारशब्दार्थः, एवं डम्भ इति, कथं गीतायाम् ‘अमानित्वम्’ ‘अनहङ्कार एव च’ इत्युक्त्वा, ‘अडम्भित्वम्’ इत्युच्यते ‘इत्याशङ्कायाम् इति शेषः । भावनम् विभावनम्, ‘प्रदर्शनम्’ इति यावत् इत्यभिधानपदार्थः । आर्जवम् अवक्रिमा भूम्ना प्राणिषु दृश्यत इति कथमिदं ज्ञानसाधनेषु पठ्यते इत्यत आह– आर्जवं ज्ञानसाधनं यथा स्यादिति ।। दुर्मार्गे मनोवाक्कायकर्मणाम् अवैपरीत्यं ज्ञानप्रतिरूपमेव । अत आह– एतच्चेति ।।
गीताक्षरार्थस्तु ‘‘स च यो यत्प्रभावश्च’ इति प्रतिज्ञातमर्थद्वयं ‘ज्ञेयं यत्तत्’ इत्यादिना वक्तुं साधनानां विकारेष्वन्तर्भावं च ज्ञापयितुम्, न यादृशतादृशेन श्रवणेन तदनुभवारूढं भवति, किन्तु अमानित्वादिसाधनसम्पत्तियुक्तेन इत्याशयेन ज्ञेयभगवज्ज्ञानसाधनान्युच्यन्ते– अमानित्वम् इत्यादिपञ्चश्लोक्या ।। मानः आत्मगुणश्लाघः, सोऽस्यास्तीति मानी, सः न भवतीत्यमानी, तस्य भावः अमानित्वम् । आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः, तद्वान् दम्भी, स न भवतीत्यदम्भी, तस्य भावः अदम्भित्वम् । अहिंसा अहिंसनं प्राणिनामपीडनम् । क्षान्तिः सहनम्, परापराधप्राप्तावपि अविक्रिया । आर्जवं ऋजुभावः, सन्मार्गे मनोवाक्काय-कर्मणाम् अवैपरीत्यम् । आचार्योपासनं मोक्षसाधनोपदेष्टुः शुश्रूषादिना सेवनम् । शौचम्–
‘शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथाऽऽन्तरम् ।।’
इति शास्त्रोक्तं द्विविधम् । स्थैर्यं स्थिरभावः मोक्षमार्ग एव कृतव्यवसायत्वम् । आत्म-विनिग्रहः मनसो विशेषेण नियमनम् ।। ८ ।।
गीताक्षरार्थस्तु- इन्द्रियार्थेषु शब्दादिविषयेषु । कर्मसु ‘अहं कर्ता’ इत्यभिमानाभावः अनहङ्कारः । ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनम्’ इत्यत्र ‘असन्देहः’ इति पदमिव ‘अनहङ्कारः’ इति पदं साधु । जन्मनि, मृत्यौ, जरायां, व्याधिषु दुःखलक्षणदोषस्य पुनः पुनरालोचनं जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । तत्र जन्मनि गर्भवासयोनिद्वारनिस्सरणनिमित्तदुःख-दोषालोचनम्, मृत्यौ भयकम्पादिदुःखानुदर्शनम्, जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनम्, व्याधिषु शिरोरोगादिषु तन्निमित्तदोषानुदर्शनमिति द्रष्टव्यम् ।। ९ ।।
भावदीपिका
।। तदिति ।। ‘ज्ञेयं यत्तत्’ इत्यादिना वक्ष्यमाणं प्रमेय-मित्यर्थः । दुर्मार्गे मनोवाक्कायकर्मणाम् अवैपरीत्यस्य सम्यग्ज्ञानविरोधित्वादाह– एतच्चेति
।। ८-११ ।।
भावप्रकाशः
।। मानाहङ्काराभ्यामिति ।। आत्मगुणश्लाघादिर्मानसः, स्वातन्त्र्याभिमानमहंकार इति विवेकः । दुर्मार्गे मनोवाक्कायकर्मणामवैपरीत्यस्य ज्ञानविरोधि-त्वादाह– एतच्चेति ।। ८ ।।