चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।। १६ ।।

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।। १६ ।।

भावरत्नकोशः

ननु त्वत्प्रपत्तेर्मायातरणाकारणत्वात् स्वदोषाद्वा त्वां न प्रपद्यन्त इत्यत्र कथं निर्णय इत्याशङ्क्य प्रेक्षावतां मद्भजनमेव निर्णयकारणमिति मनसि निधाय, तदुपपादनाय दुष्कृतित्वादिस्वदोषशून्याः केचिन्मां प्रपद्यमानाः सन्तीत्युच्यते– चतुर्विधा इति । आर्तः व्याघ्रचोररोगाद्यभिभूतः तन्निवृत्तिकामः सन्निति योज्यम् । जिज्ञासुः आत्मज्ञानेच्छुः, अर्थार्थी भोगलोलः, ज्ञानी आत्मविच्चेत्येवं चतुर्विधाः सुकृतिनः जनाः मां भजन्ते सेवन्ते । ‘भरतर्षभ’, ‘अर्जुन’ इति सम्बुद्धिरादरार्था ।। १६ ।।