अविनाशि तु तद् विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।। १७ ।।

अविनाशि तु तद् विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।। १७ ।।

भाष्यम्

किं बहुना? यद्देशतोऽनन्तं तन्नित्यमेव । वेदाद्यन्यदपि इत्याह– अवि-नाशीति ।। नापि शापादिना विनाश इत्याह– विनाशमिति ।। अव्ययं च तत् ।। १७ ।।

भावप्रदीपिका

ननु नैतावताऽपि सृष्ट्युपपत्तिरित्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतार्य व्याचष्टे– किमिति ।। गौतमशापादिना वेदादेर्विनाशात् कुतो नाशाभावः? इत्यत आह– नापीति ।। शापादिना व्ययोऽपि नास्ति कुतो नाश इत्याह– अव्ययं चेति ।। १७ ।।

भावप्रकाशिका

यदेतत्सूचितं प्रकृत्यादिनित्यत्वमागमादपि सिद्धमिति, तदागमविशेषस्य नित्यत्व एव घटते, नान्यथेति भावेनोत्तरश्लोकमवतार्य व्याचष्टे– किं बहुनेत्यादिना ।। युगपदनेकदेशेष्वभि-धीयमानप्रत्यभिज्ञयैकत्वावगतेर्देशतोऽनन्तत्वं वेदस्य । देशतोऽनन्तत्वं ह्यनन्तदेशवर्तित्वम् । अतस्तन्न्यायेन देशस्यापि नित्यत्वमिति, आदिशब्देन देशः । कालश्च, तस्यापि सर्वगतत्वात् । शापेन युगभेदेन वा विस्मरणादिरेव वेदस्य, न नाश इत्याह– नापीति ।। न केवलमविनाशः, किन्तु ह्नासोऽपि नास्तीत्याह– अव्ययं चेति ।। १७ ।।

प्रमेयदीपिका

अविनाशि तु’ इति श्लोके सर्वगतस्य नित्यत्वमुच्यते । तत् प्रकृतानुपयुक्तमित्याशङ्क्य पूर्वार्धं तावत् प्रकृतोपयोगं सूचयन् व्याचष्टे– किं बहुनेति ।। वाक्यानामुपासनार्थत्वात्, सम्प्रदायस्य च मूलानिश्चयात्, प्रकृतिब्रह्मणोश्च स्वरूपस्यैवासिद्धेः, जीवादन्यस्यानादि-नित्यस्याभावात् पुनरनुमानस्य व्याप्त्यसिद्धिरित्याशङ्क्य किं बहुना प्रकृत्यादिस्वरूप साधनेन ।। किञ्चेदमिदं नित्यमिति बहुना प्रत्येकमुक्तेन ।। ‘यद्देशतोऽनन्तं तन्नित्यमेव’ इत्येवं (त्येक)सङ्ग्राहकसङ्गृहीतं वेदादिकं जीवाद् अन्यदपि अस्ति, तद् व्याप्तिग्रहणस्थलं भविष्यति इत्याह भगवान् इत्यर्थः ।। वेदशब्देन वर्णा गृह्यन्ते । आदिपदेनाकाशादयः । एतेषां च प्रत्यभिज्ञानादिना नित्यत्वसिद्धिः ।।

ननु कालावयवाः क्षणादयः सर्वगता अपि न नित्याः । सत्यम् । नह्यत्र व्याप्तिरुच्यते। किन्तु बहूक्तिपरिहारायोपलक्षणमात्रमिति । तुशब्दार्थ एवेति ।। तथाप्युत्तरार्धः पुनरुक्त इत्यत आह– नापीति ।। पूर्वं स्वाभाविको नाशो निषिद्धः । ‘अविनाशि’ इति ताच्छीलिकप्रत्ययात्। अत्र तु नैमित्तिकः । ‘कश्चित् कर्तुं नार्हति’ इति वचनात् ।।

प्रागनुक्तस्य वेदादेरव्ययत्वस्य कथमनुवादः? इत्यत आह– अव्ययश्चेति ।। विधानमेवेदं कैमुत्येन शापादिना विनाशस्याभावं साधयितुमिति भावः ।। १७ ।।

भावबोधः

वेदशब्देन वर्णा इति ।। वर्णानामेव कूटस्थतया अनादिनित्यत्वम् । नतु क्रमविशिष्ट-वाक्यादिरूपवेदस्य । क्रम्य नित्यत्वेऽपि कृतकत्वेन अनादित्वाभावाद्विशिष्टवेदग्रहणे साधन-वैकल्यं स्यादिति भावः । अत एव कूटस्थतया अनादिनित्यत्वोपेताव्याकृताकाशादय एवादि-पदेन ग्रह्या इत्याह– आदिपदेनेति ।। नित्यत्वसिद्धिरिति ।। अनादित्वेत्यपि ग्राह्यम् । ‘पूर्वं गकारं श्रुतवतः पुनस्तच्छ्रवणे स एवायं गकार इति तावत्प्रत्यभिज्ञा जायते । सा च श्रुत–श्रूयमाणगकाराभेदं गोचरयन्ती उच्चारणजन्यत्वं विरुणद्धि । न हि प्राक्तनस्येदानीन्तनेनोत्पत्ति-र्युज्यते । एवं पूर्वं पूर्वतरमित्यनादिनित्यतैव वर्णानां प्रत्यभिज्ञया सिध्यति’ इति तत्त्व-निर्णयटीकोक्तप्रकारेणेदं बोध्यम् । आदिपदेनानादिनित्यत्वप्रतिपादकागमग्रहणम् ।। ताच्छील-केति ।। इनेरित्यर्थः ।। १७ ।।

भावदीपः

वाक्यानामिति ।। ‘प्रकृतिः पुरुषः’ (गी.भा.१६ उदा.वि.पु.व.) ‘सदेव सोम्य’इत्यादि ब्रह्मादिबोधकवाक्यानामित्यर्थः ।। अनुमानस्येति ।। चेतननित्यत्वानुमानस्य ‘नत्वेवाहम्’ (२.१२) इत्यत्रोक्तस्येत्यर्थः ।। प्रत्यभिज्ञानादिनेति ।। ‘तदेवेदं वचनमिति प्रत्यभिज्ञानात्’ (वि.त.नि. प्र.परि) इति तत्त्वनिर्णयोक्तेरिति भावः ।। ‘यावद्ब्रह्म विष्ठितं तावती वाक्’, ‘अनादिर्वा अयमाकाशः’ इत्यादिरादिपदार्थः ।। ताच्छीलिकेति ।। ‘सुप्यजातौ णिनिः ताच्छील्ये’ (पा.सू.३.२.७८) इति सोपसर्गस्यापि णशेः ताच्छीलिकछान्दसणिनिप्रत्यये विनाशीति सिद्धेरिति भावः ।। १७ ।।

वाक्यार्थप्रदीपः

ताच्छीलिकेति ।। इनेरित्यर्थः । काक्वेरित्यतः ताच्छीलादिष्वित्यनुवृत्तावेव इनिरित्यादिना इनिप्रत्ययविधानादित्याशयः ।।

भावरत्नकोशः

प्रकृतानुपयुक्तमिति ।। उक्तानुमानस्य व्याप्तिसिद्धये दृष्टान्त उपदर्शनीय इति प्रकृतिपुरुषरूपदृष्टान्ते अनादिनित्यत्वं हि पूर्वश्लोके प्रकृतम् । न चात्र सर्वगतस्य नित्यत्व-वचनमुपयुज्यते । न चान्यस्य ससाध्यकस्य दृष्टान्तस्याभिधानम् । ‘अविनाशि’ इत्यत्र क्रियत इति वाच्यम् । पूर्वेणैवेष्टसिद्धेरस्याप्रयोजनत्वादिति भावः । ‘येन सर्वमिदं ततम्’ इत्यस्य ‘यद् देशतोऽनन्तम्’ इति ‘अविनाशि तु’ इत्यस्य ‘नित्यमेव’ इति व्याख्यानादाह– व्याचष्ट इति ।। व्याचक्षाण एतावतारयतीत्यर्थः । पूर्वश्लोके प्रस्तुतानुमाने प्रकृतिपुरुषौ दृष्टान्त इत्यभिधाय तत्स्वरूपासिद्धिशङ्कापरिहाराय यानि ‘सदेव सोम्य’, ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी’ इत्यादीनि श्रुतिस्मृत्यादिरूपाणि वाक्यान्यभिसंहितानि । तानि ‘योषितमगि्नं ध्यायीत’ इत्यादी-नीवोपासनार्थानि । यश्च सम्प्रदाय उक्तः सोऽपि मूलानिश्चयादप्रमाणम् । न च दर्शनं तन्मूलम् । परदर्शनस्यास्माभिः सम्प्रदायमूलत्वेन ज्ञातुमशक्यत्वात् । अतो वाक्यसम्प्रदाययोः प्रकृतिपुरुष-स्वरूपनिर्धारणासामर्थ्यादन्यस्य दृष्टान्तस्याभावादनुमाने व्याप्त्यनिश्चय इत्यभिप्रेत्याह– वाक्या-नामित्यादि ।। ‘किं बहुना’ इत्यनन्तरं शेषमाह– प्रकृत्यादिस्वरूपसाधनेनेति ।। तदेवावर्त्य किमित्यनन्तरं चशब्दं भाष्योक्तबहुभावं विवृण्वन् बहुनेत्यनन्तरं प्रत्येकमुक्तेनेत्येतच्चाध्याहृत्य योजयति– किञ्चेदमिदं नित्यमिति बहुना प्रत्येकमुक्तेनेति ।। ‘अन्यदपि’ इति भाष्ये प्रकृति-पुरुषयोः प्रस्तुतत्वेन प्रतियोगित्वप्रतीतिं व्युदस्य जीवादन्यस्यानादिनित्यस्याभावाद् व्याप्त्य-सिद्धिरिति कृतचोद्यपरिहारायाह– जीवादिति ।।

ननु ‘अविनाशि’ इत्यत्र वेदादेरनादित्वमप्यभिप्रेतम् । दृष्टान्तत्वेनाभिमते वेदादौ साध्यवत् साधनानुगतेर्वक्तव्यत्वात् । अन्यथा साधनवैकल्यापत्तेः । न च वेदस्यानादित्वं युक्तमङ्गीकर्तुम् । क्रमविशेषविशिष्टवर्णानामेव वेदत्वात् क्रमस्य च बुद्धिघटितत्वेन तज्जन्यत्वावश्यम्भावादित्यत आह– वेदशब्देनेति ।। क्रमविशेषविशिष्टवर्णा वेद इति क्रमपरित्यागेन विशेष्यभूता वर्णा लक्षणया वेदयन्ति ज्ञापयन्तीति योगेन वाऽत्र ग्राह्या इत्यर्थः । तेषां चानादित्वान्नित्यत्वाच्च साध्यसाधनानुगतिः सम्भवतीति त एव व्याप्तिग्रहणस्थलं भविष्यन्तीति भावः ।।

ननु नात्र वेदशब्देन वर्णा ग्राह्याः । मुख्यार्थानुपपत्तेरभावेन लक्षणाया अयोगात् योगाद् रूढेर्बलवत्त्वेन योगायोगाच्च । न च क्रमविशेषविशिष्टवर्णा एव वेदः । क्रमश्च बुद्ध्युपाधिको जन्य इति न तस्यानादित्वम् । ततश्च साधनवैकल्यमिति बाधकेन मुख्यार्थत्याग इति वाच्यम् । ‘नित्या वेदाः पुराणाद्याः’ इति तत्त्वसङ्ख्यानटीकायां ‘नित्यत्वं नाम कूटस्थतया आद्यन्त-शून्यत्वम् । तच्च वेदानां ‘नित्या वेदाः समस्ताश्च’, ‘अनादिनिधना’ इत्यादिप्रमाणसिद्धम् इत्युक्तत्वात् । युक्तं चैतत् । क्रमस्य सदेश्वरबुद्धिस्थत्वात् । अत एवोक्तं विष्णुतत्त्वनिर्णये ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इति ।। एवं चानादित्वसिद्धेर्न साधन-वैकल्यशङ्का । एतेनैव विनशिष्णुक्रमवतो वेदस्यानित्यत्वावश्यम्भावात् साध्यवैकल्यं स्यादित्यतो वेदशब्देन वर्णग्रहणमित्यपास्तम् । वेदनित्यत्वस्योक्तटीकाद्यभिप्रेतत्वात् ।।

किञ्च वेदस्यानित्यत्वमयुक्तम् । क्रमविशिष्टवर्णा एव हि वेदः । क्रमश्च बुद्धिनिमित्तक एव न स्वतः । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुद्ध्युपरम एव वेदे विनाशो वक्तव्यो न तु घटादाविवापरः । न चेश्वरस्य तथाविधबुद्ध्युपरमो युज्यते । तस्य सदा सर्वज्ञत्वात् । तथा च न साध्यवैकल्यशङ्का च । नापि भाष्ये ‘यद् देशतोऽनन्तम्’ इति दैशिकानन्त्यमुच्यमानं न वेदे । मानाभावात् । वर्णेषु तूपपद्यत इति वेदशब्देन वर्णग्रहणमिति वाच्यम् । ‘यावद् ब्रह्म विष्ठितं तावती वाक्’ इति श्रुतौ ब्रह्मतुल्यत्वेन वेदानां वाक्छब्दितानां सर्वदेशकालव्यापितयाऽवस्थानाभिधानात् । तस्माद् वेदशब्देन रूढ्या मुख्यार्थग्रहणेऽनु-पपत्त्यभावान्न लक्षणादिना वर्णा ग्राह्या इति चेत् ।।

अत्र वदन्ति । क्रमविशेषविशिष्टानां वर्णानां वेदत्वान्नित्यानां सर्वगतानां च तेषां वर्णानां स्वतः क्रमस्यायोगेनाभिव्यक्तिगतस्यैव तस्य वक्तव्यत्वादभिव्यक्तेश्च जन्यत्वेन तद्गतक्रमस्यापि जन्यत्वाज्जन्यक्रमविशिष्टवर्णस्वरूपस्य वेदस्य नानादित्वं मुख्यमस्ति । यथोक्तं तर्कताण्डवे ‘अनादित्वश्रुतिर्न वेदस्वरूपानादित्वपरा । बाधात् । किन्त्वानुपूर्व्या अनन्यथात्वपरा’ इति ।।

न चैवं वेदस्यापौरुषेयत्वं कथमिति वाच्यम् । क्रमस्य कृतकत्वेऽप्याधुनिकाध्यापकेन स्वबुद्धिस्थपूर्वपूर्वदिवसीयक्रमानुसारेणैव उत्तरोत्तरदिवसेष्विव ईश्वरेणापि स्वबुद्धिस्थप्रवाहानादि-पूर्वपूर्वकल्पीयक्रमानुसारेणैव उत्तरोत्तरकल्पेष्वपि वेदस्योच्चारितत्वेन रचनीयत्वाभावेऽप्य-नियतानुपूर्वीरहितत्वरूपस्य स्वप्रतिपाद्यगोचरज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यता-नाश्रयत्वस्य वा । स्वप्रतिपाद्यगोचरयथार्थज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यताना-श्रयत्वरूपस्य वाऽपौरुषेयत्वस्य वेदेऽङ्गीकृतत्वात् । अत एव सुधायां ‘नियतैकप्रकारकत्व-मपौरुषेयत्वम्’ इत्युक्तम् । एवंविधापौरुषेयत्वरूपमनादित्वमभिसन्धायैव

अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा’,

विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः’,

अनादिनित्या सा’ इत्यादीनि प्रमाणानि प्रवृत्तानि ।।

गायत्र्यधिकरणे च गायत्रीरूपवेदस्यानादित्वात् तत्स्वभावस्य गानत्राणकर्तृत्वादिरूप-प्रवृत्तिनिमित्तस्य नेशाधीनत्वमिति शङ्का

अनादीनां गुणादीनां यथा गुण्यादितन्त्रता ।

 तथाऽनादिश्रुतेरस्तु क्षेमायेश्वरतन्त्रता ।।

 अकर्तुमन्यथाकर्तुं कर्तुं चास्तीश्वरस्य यत् ।

 सामर्थ्यं तेन तत् तन्त्रमनाद्यपि च सादिवत्’

इति समाधानं च उक्तापौरुषेयत्वरूपानादित्वाभिप्रायेणैव प्रवर्तितम् । एवं च क्रमविशिष्ट-वर्णात्मके वेदे स्वरूपानादित्वाभावात् तद्ग्रहणे साधनवैकल्यं स्यादेवेति स्वरूपत एवानादि-स्वभावा वर्णा एव वेदशब्देन ग्राह्या इति टीकायां साधूक्तमिति ।।

आकाशादय इत्यत्र आकाशशब्देन अव्याकृताकाशो ग्राह्यः । न तु भूताकाशः । तत्र ‘न हि देशकालाभ्यां परिच्छिन्नस्य’ इति सुधया ‘अनन्तत्वं कथं तिष्ठेद् भूतेऽन्तत्रयसंयुते’ इति चन्द्रिकया च देशपरिच्छेदस्य विभावितत्वात् । ‘अव्याकृताकाशादयः’ इति पाठे न काऽप्यनु-पपत्तिः । आदिशब्देन प्रकृतिमहालक्ष्मीश्वरकालप्रवाहा ग्राह्याः । एतेषां च वर्णादीनाम् ।।

प्रत्यभिज्ञानेति ।। पूर्वं गकारं श्रुतवतः पुनस्तच्छ्रवणे स एवायं गकार इति प्रत्यभिज्ञा जायते । सा च प्रत्यभिज्ञान्तरवत् सोऽयमिति तत्तेदन्ताधिकरणाभेदावगाहिनी उच्चारणजन्यत्वं निरुणद्धि । न हि प्राक्तनस्येदानीन्तनेेनोत्पत्तिर्युज्यते । एवं पूर्वं पूर्वतरमित्यनादिनित्यतामेव वर्णनामवगमयति । अन्यथा तत्तद्वादिभिस्तत्तद्वस्तुनः स्थायित्वे प्रमाणत्वेन प्रत्यभिज्ञा न वक्तव्या स्यादिति तया वर्णनामनादिनित्यत्वं सिद्ध्यति । आदिशब्देन वर्णो नित्यः ध्वनि-शब्दत्वव्याप्यभिन्नत्वे सति श्रावणत्वाच्छब्दत्ववत्, श्रोत्रं नित्यद्रव्यग्राहकं निरवयवेन्द्रियत्वा-न्मनोवदित्याद्यनुमानग्रहः । ध्वनौ शब्दत्वव्याप्ये तारत्वादौ चाव्यभिचाराय ध्वनिशब्दत्व-व्याप्यभिन्नत्वे सतीति हेतुविशेषणम् । इतरानुमाने नित्यद्रव्यं वर्ण एवेति तेनापि वर्ण-नित्यत्वसिद्धिः । आकाशस्य च ‘अनादिर्वा अयमाकाशः’, ‘आकाशवत् सर्वगतश्च नित्यः’, ‘स यथाऽनन्तोऽयमाकाशः’ इत्यादिप्रमाणैरवकाशोपादानप्रागभावयोर्बुद्ध्यनारोहादियुक्तिभिः कूटस्थनित्यतावगाहिसाक्षिणा चानादिनित्यत्वसिद्धिः । प्रकृतिमहालक्ष्मीश्वरकालप्रवाहाणां ‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति ।। न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा कालः’ इति वियदधिकरणोदाहृतप्रमाणेन तत्रापीश्वरस्य ‘असम्भवस्तु सतोऽनुपपत्तेः’ इत्यधिकरणे अनुत्पत्तिः, ‘नाऽत्माऽश्रुतेः’ इत्यधिकरणे विनाशाभावश्च वर्णित इति ताभ्यां चानादिनित्यत्वसिद्धिः । उदाहृतश्रुतावात्मपरमात्मपुरुषादि-पदैर्जीवचैतन्यप्रकृतिस्वरूपकालप्रवाहा उच्यन्ते । तदभिमानिनी प्रकृतिश्चेति टीका ।।

नित्यत्वसिद्धिरिति ।। अनादिनित्यत्वसिद्धिः । यद्यपि तत्त्वसङ्ख्याने ‘पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यम्’ इति कालप्रकृत्योः पुराणतुल्यकक्ष्यतया नित्यानित्यत्वमुक्तम् । तथाऽपि सक्षणाद्यवयवकालस्य सविकारायाश्च प्रकृतेरेव तत्र नित्यानित्यत्वमभिप्रेतम् । ‘एषां विकारोऽनित्यः स्यात्’ इत्युक्तेः । अत्र तु कालप्रवाहस्य प्रकृतिस्वरूपस्यैवानादिनित्यत्वमभि-संहितम् । तथा चानुव्याख्याने ‘कालप्रवाह एवैको नित्यः’ इति ।। तत्त्वप्रकाशिकायां च ‘अविकृतप्रकृतिरेव प्रकृतिस्वरूपशब्देन गृहीता’ इति ।।

यद् देशतोऽनन्तं तन्नित्यम्’ इत्यत्र सर्वगतत्वेन नित्यत्वं विजिज्ञापयिषितमिति मत्वा चोदयति– ननु कालेति ।। नात्र सर्वगतत्वेन हेतुना नित्यत्वं ज्ञातव्यम् । किन्तु प्रमाणान्तरेण । तच्चोदाहृतं प्रत्यभिज्ञादि । आनन्त्याभिधानं तु काकवद् देवदत्तगृहमित्यत्र देवदत्तगृहे काक इव व्यावृत्तिप्रत्यायकमात्रमित्याह– सत्यमित्यादिना ।। इमौ च शङ्कापरिहारौ गीताभाष्यारूढौ कुर्वन्नाह– इति तुशब्देति ।। इति शङ्कापरिहारौ सूचयन् गीतास्थतुशब्दः एवकारेण भाष्ये व्याख्यात इत्यर्थः । तुशब्दार्थ एवेतीति वाक्यान्तरमित्यप्याहुः ।।

जीवादन्यस्यानादिनित्यस्याभावादनुमानस्य व्याप्त्यसिद्धिरिति शङ्कासमुत्सादनाय ‘अविनाशि’ इति श्लोकः । तत्र पूर्वार्धो यद्यपि वर्णाव्याकृताकाशादिव्याप्तिग्रहणस्थल-प्रदर्शनार्थोऽस्तु । तथाऽपि ‘विनाशमव्ययस्य’ इत्युत्तरार्धः पूर्वार्धोक्तार्थाविशेषात् पुनरुक्तिरूप इति भावेन शङ्कते– तथाऽपीति ।। स्वाभाविको नाश इति कथं विज्ञेयम्? विनाशोऽस्यास्तीति ‘अत इनिठनौ’ इतीनिप्रत्यये विनाशवत्त्वमात्रप्रतीतेरित्यत आह– ताच्छीलिकेति ।। नात्र तद्धित इनिरिति शक्यं वक्तुम् । न विद्यते विनाशो यस्येति बहुव्रीहिणैवोक्तलाभात् । अत इतरस्मिन् प्रत्यये निष्पादनीयेऽन्यस्यासम्भवाण्णिनिर्निष्पाद्यः । स च ‘सुप्यजातौ णिनिस्ताच्छील्ये’ इति सूत्रविहित इति ताच्छीलिकः । तस्माच्च प्रत्ययान्न विनष्टुं शीलमस्येत्यविनाशीति स्वाभाविक-विनाशो निषिद्ध इति ज्ञायत इत्यर्थः ।।

नन्वजात्यर्थे सुपि धातोर्णिनिप्रत्ययो भवति, तत्स्वभावतायां गम्यमानायामिति सूत्रं व्याकुर्वता वृत्तिकृता पुनः सुबुक्तिः प्रादिनिवृत्त्यर्थेत्युक्तम् । उदाहृतं चोष्णभोजीत्यादि । तत् कथमत्र वीत्युपसर्ग उपपदे णशेर्णिनिः । अत एव ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजि-नीराजामुपसर्गेऽपि’ इत्यत्र सुपीत्यनुवृत्तावुपसर्गोक्त्या ज्ञायते, अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति वैयाकरणा इति चेन्न ।।

भाष्ये सुपीति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्? अनुपसर्ग इत्येवं तदभूत् । इदं तु सुम्मात्रे यथा स्यात् । उदासारिण्यः प्रत्यासारिण्यः इति भाषणाद् भाष्यकारमतेनात्रोक्तार्थकणिन्युपपत्तेः । तथा च ‘स बभूवोपजीविनाम्’, ‘न्यषेधि शेषोऽप्यनुयायिवर्गः’ ‘पतत्यधो धाम विसारि सर्वतः’ इत्यादिप्रयोगाः मनोरमायामुक्ताः । अत्र तु उत्तरार्धे । नैमित्तिकः शापादिहेतुजन्यः । नाशो निषिद्ध इति वर्तते ।।

ननु ‘अव्ययस्य’ इति किमनुवादो विधानं वा । नाद्यः, प्रागनुक्तत्वात् । न च ‘अविनाशि’ इत्यनेनेदमुक्तमिति वाच्यम् । उक्तप्रत्ययेन स्वाभाविकाविनाशस्य तत्रोक्त-त्वेनाव्ययपदोक्तह्रासादिरूपाविनाशस्य तेनानुक्त्याऽनुवादायोगात् । न द्वितीयः, अनुवादके-दंशब्दसामानाधिकरण्यायोगात् । विधाने प्रयोजनाभावाच्चेत्याशङ्क्य विधानपक्ष एवाभ्युप-गम्यते । हेत्वर्थगर्भं चेदम् । अस्य प्रकृतस्य वेदादेरव्ययत्वम् अव्ययत्वाच्चास्य नाशं कर्तुं कोऽपि न शक्नोतीत्युक्तौ यत्नगौरवमिति तल्लाघवाय सामानाधिकरण्यमस्येत्यनेनाव्ययपदस्य, तत्र च यदाव्ययशब्दितं ह्रासमपि कश्चित् कर्तुं नार्हति तदा किमु वक्तव्यं शापादिना स्वरूपविनाशं कर्तुं नार्हतीति कैमुतिकन्यायेन विनाशाभावसाधनं विधानप्रयोजनमिति भावेन ‘अव्ययं च तत्’ इति भाष्यमवतारयति– प्रागनुक्तस्येत्यादिना ।। तत्तु वेदादि न केवलमविनाशि, किन्त्वव्ययं चेति भाष्यार्थः स्पष्ट इति नोक्तः ।।

केचित्तु ‘कैमुत्येन’ इत्यत्र अव्ययशब्दस्य ‘सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्’ इत्यादावविकारिणि प्रयोगाद् व्ययं विकारमपि कर्तुं नार्हति किमुत शापादिना स्वरूपनाशमिति कैमुतिकन्यायेनेत्यर्थ इत्याहुः । अव्ययशब्दस्य नाशसामान्याभावार्थकत्वाद् यदा नाशसामान्यमपि कर्तुं नार्हति तदा स्वरूपनाशादिरूपं तद्विशेषं न कर्तुमर्हतीति किमु वक्तव्यमिति कैमुत्येनेत्यर्थ इत्यप्यपरे ।। १७ ।।

गीताक्षरार्थस्तु– ‘प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तमः’, ‘प्रकृतिं पुरुषं चैव विद्ध्य-नादी उभावपि’ इत्यादिवाक्यानामुपासनार्थत्वात् सम्प्रदायस्य च मूलानिश्चयात् प्रकृतिब्रह्मणोः स्वरूपस्यैवासिद्धेर्जीवादन्यस्यानादिनित्यस्याभावात् पुनरनुमानस्य व्याप्त्यसिद्धिरित्याशङ्क्य, किं बहुना प्रकृत्यादिस्वरूपसाधनेन ।।

किञ्चेदमिदं नित्यमिति बहुना प्रत्येकमुक्तेन । यद् देशतोऽनन्तं तन्नित्यमेवेत्येवं सङ्ग्राहक-सङ्गृहीतं वर्णादिकं जीवादन्यदप्यस्ति । तद् व्याप्तिग्रहणस्थलं भविष्यतीति भावेन उच्यते– अविनाशि त्विति ।। येन वर्णाव्याकृताकाशप्रकृतिमहालक्ष्मीश्वरकालप्रवाहरूपेण वस्तुना इदं प्रत्यक्षादिप्रमाणसिद्धमर्थजातं ततं व्याप्तम्, यद् देशतोऽनन्तं तत् न विनष्टुं शीलमस्येत्यविनाशि स्वाभाविकनाशशून्यं तु नित्यमेव । अनादीत्यपि ग्राह्यम् । त्वं विद्धि विजानीहि । ननु स्वाभाविकविनाशाभावेऽपि शापादिरूपकारणविशेषेण नाशः किं न स्यादित्यत्रोक्तं– विनाशमिति ।। अस्य प्रकृतस्य वर्णादेः विनाशं शापादिनाऽपि ध्वंसं न कश्चित् कर्तुमर्हति । यदा विकाररूपं ह्रासरूपं वा व्ययमपि कर्तुं नार्हति तदा नाशं न कर्तुमर्हतीति किमु वक्तव्यमिति भावेनोक्तम् अव्ययस्येति । अव्ययं चेदं वर्णादि । ततोऽपि न नाशशङ्केति । एतेन जीवादन्यस्यानादिनित्यस्य साध्यसाधनसबन्धग्रहणस्थलस्याभावादुक्तानुमाने व्याप्त्यसिद्धिरिति शङ्का निरस्तेति ।। १७ ।।

भावदीपिका

।। प्रकृतेति ।। जीवानादिनित्यत्वेत्यर्थः । ननु कुतो व्याप्त्यसिद्धिः? जीवादन्यस्यानादि- नित्यस्य सत्त्वादित्यत उक्तम् जीवादिति ।। ननु प्रकृत्यादेः सत्त्वात् कथं तदभाव इत्यतः प्रकृतिब्रह्मणोरित्युक्तम् । ननूक्तं सम्प्रदायात् तत्सिद्धिरित्यत उक्तम् सम्प्रदायस्य चेति ।। ननु ‘प्रकृतिः पुरुषश्च’ इति वाक्यमेव मूलमित्यत उक्तम्– वाक्यानामिति ।। तथा चोपा-सनार्थमविद्यमानमेव नित्यत्वादिकं प्रकृत्यादेझ् कथ्यत इति न स्वार्थे प्रामाण्यमिति भावः । ननु क्रमविशेषविशिष्टवर्णानां वेदत्वेन तस्य चास्मदादिबुद्ध्युपाधिकस्य सादित्वादनित्यत्वाच्च कथं दृष्टान्तत्वमित्यत आह– वेदशब्देनेति ।। जहत्स्वार्थलक्षणयेति भावः । आकाशशब्देना-व्याकृताकाशं ग्राह्यम् ।। प्रत्यभिज्ञानादिनेति ।। पूर्वं गकारं श्रुतवतः पुनस्तच्छ्रवणे ‘स एवायं गकार’ इति तावत् प्रत्यभिज्ञा जायते । सा च श्रुतश्रूयमाणगकाराभेदं गोचरयन्ती उच्चारण-जन्यत्वं निरुणद्धि । नहि प्राक्तनस्येदानींतनेनोत्पत्तिर्युज्यते । एवं पूर्वं पूर्वतरमित्यनादिनित्यतैव वर्णानां प्रत्यभिज्ञया सिद्ध्यतीति तत्त्वनिर्णयोक्तप्रकारेण वर्णानां प्रत्यभिज्ञयाऽनादि-नित्यतासिद्धिः । आदिपदेन ‘आकाशवत् सर्वगतश्च नित्य’ ‘अनादिर्वा अयमाकाश’ इत्याद्यागमेनानादिनित्यतासिद्धिर्द्रष्टव्या ।।

।। न नित्या इति ।। तथा च व्यभिचार इति भावः ।। उपलक्षणमात्रमिति ।। हेतु-साध्याधिकरणपदार्थनिष्ठधर्ममात्ररूपसङ्ग्राहकमात्रं बहूक्तिपरिहारायोक्तमित्यर्थः । तथा च देशतोऽनन्तस्य नित्यत्वं प्रायिकमित्यत्र तात्पर्यम् । अन्ये तु साध्याधिकरणतावच्छेदकरूपं धर्ममात्रमित्यर्थ इत्याहुः । तन्न । क्षणादावतिप्रसक्तत्वेनानवच्छेदकत्वादिति द्रष्टव्यम् ।। तुशब्दार्थ एवेतीति ।। ‘नित्यमेव’ इत्येवशब्देन ‘अविनाशि तु’ इति गीतागततुशब्दार्थ उक्तो भवतीत्यर्थः ।। पुनरुक्त इति ।। तत्रापि विनाशाभावस्यैवोक्तेरित्यर्थः ।। ताच्छीलिकप्रत्यया-दिति ।। इनिप्रत्ययादित्यर्थः । अविनाशीत्यस्य विनाशशीलो न भवतीत्यर्थो द्रष्टव्यः ।। कश्चिदिति ।। पुरुषादिनिमित्तश्रवणादित्यर्थः ।। कथमनुवाद इति ।। वेदादीनामव्ययत्वस्य प्रागनुक्तत्वादव्ययस्यास्येत्यनुवादो न सम्भवतीत्यर्थः । कैमुत्येनेति ।। अव्ययमित्यस्यायमर्थः । ‘अय पय गतौ’ इति धातोः विविधेन प्रकारेण अयो गतिर्गमनं नाश इति यावत्, यस्यास्ति स व्ययः न व्यय अव्ययः । तथा च केनापि प्रकारेण यस्य नाशो नास्ति सोऽव्ययशब्देनोच्यत इत्यर्थः । एवं चेत् तादृशाव्ययत्वोपेतो वेदादिः तदा शापादिना नाशो नास्तीति किमु वक्तव्यम्? कैमुत्येनेत्यर्थः ।। १७ ।।

भावप्रकाशः

ननु अविनाशित्वित्यत्र वेदादेरेवानादिनित्यत्वमभिप्रेतम् । अन्यथा साधनवैकल्येन दृष्टान्तत्वायोगात् । न च वेदस्यानादिनित्यत्वं युक्तं क्रमविशेषविशिष्टवर्णानामेव वेदत्वात् । क्रमस्य च बुद्ध्युपाधिकत्वेन जन्यत्वादित्यत आह– वेदशब्देनेति ।। आकाशादय इति ।। आदिपदेन कालप्रवाहप्रकृतीश्वरा ग्राह्याः । प्रत्यभिज्ञानादिनेति ।। स एवायं गकारः आकाश-स्सर्वगतश्च नित्यः कालश्च नित्यः प्रकृतिश्च नित्येत्यादिनेत्यर्थः । क्षणादीनां सर्वगतत्वं नित्यत्वाभावं च साधयितुं कालावयवा इत्युक्तम् । अयमर्थः । कालस्तावदखण्डो न भवति किन्तु प्रवाहरूप एव । तस्य च क्षणादयः प्रवाहिणः । ते यदि न सर्वगतास्तर्हि तत्प्रवाहरूपस्य महाकालस्यापि सर्वगतत्वं न स्यात् । न चेष्टापत्तिः ।। कालाकाशेश्वरादिषु पारिमाणोत्कर्षा-नन्त्यमिति सिद्धान्तविरोधात् । अतः सर्वगताः । एवं कालावयवत्वादेव क्षणादीनां नित्यत्वं न सम्भवति । नित्यत्वं हि अविनाशित्वम् । तच्चोत्तरोत्तरकालसम्बधित्वव्याप्यम् । न च क्षणादीनामुत्तरोत्तरकालसम्बन्धित्वम् । क्षणिकत्वादेः । अन्यथा तदेकदेशस्वरूपकालावयव-त्वानुपपत्तिप्रसङ्गात् । ततश्चोत्तरोत्तरकालसम्बन्धित्वरूपव्यापकनिवृत्तौ व्याप्यनित्यत्वनिवृत्ति-रवश्यम्भवतीति कालावयवत्वेनानित्यत्वसिद्धिरिति ।।

उपलक्षणमात्रमिति ।। काकवद्देवदत्तगृहमित्यत्र काकवद्व्यावर्तकमात्रमित्यर्थः । ताछीलिक- प्रत्ययादिति ।। सुप्यजातौ ताच्छील्य इति सूत्रविहितताच्छील्यार्थकणिनिप्रत्ययादित्यर्थः । न चोक्तसूत्रेणोपसर्गभिन्ने सुप्युपपदे णिनिर्विहितः । प्रकृते च वीत्युपसर्गस्योपपदत्वात् कथं णिनिरिति वाच्यम् । उपसर्गानुपसर्गात्मकसुम्मात्रे उपपदेऽनेन णिनिविधानात् । यथोक्तं महाभाष्ये । सुपीति वर्तमाने पुनः सुप्ग्रहणं किमर्थम् । अनुपसर्ग इत्येवं तदभूत् । इदं तु सुप्मात्रे यथा स्यात् । उदासारिण्यः प्रत्यासारिण्य इति । प्रागनुक्तस्येति ।। नचाविनाशि त्वित्यनेनोक्तत्वात् कथमनुक्तत्वमिति वाच्यम् । नाशसामान्याभावोऽव्ययत्वम्। तच्च प्रागनुक्त-मेव । अविनाशाशीत्यनेन तु नाशविशेषो निषिध्यते ताच्छीलिकप्रत्ययादिति भावेनानुक्त-त्वोपपत्तेः ।। १७ ।।