युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ।। १७ ।।

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ।। १७ ।।

भाष्यम्

युक्ताहारविहारस्य सोपायाहारादेः । यावता श्रमाद्यभावो भवति ताव-दाहारादेरित्यर्थः ।। १७ ।।

भावप्रकाशिका

‘युक्तः’ इत्यादिपदमनूद्य तस्य प्रातीतिकार्थं तावदाह– सोपायेति । आहरणमाहारो भोजनम् । तस्योपायसाहित्यं नाम किम् ? इत्याकाङ्क्षायां तस्यैव पदस्य तात्पर्यार्थमाह– यावतेति ।। ‘योगो भवति दुःखहा’ इत्युच्यमानत्वाच्छ्र-माद्यभावस्तत्रैवोपाय इति भावः ।। १७ ।।

प्रमेयदीपिका

आहारादीनां केन युक्तत्वम्? इत्यत आह– युक्तेति ।। उपायः समाधिः । समाधिर्हि धात्वर्थः । तद्वत्ता च प्रत्ययार्थः । अत सोपायः इत्युक्तम् । आहारादेः सोपायत्वं नाम कीदृशमित्यत आह– यावतेति ।। आदिपदेनेन्द्रियोत्सेकाऽलस्यादेः सङ्ग्रहः । उपायेन साहित्यं नाम तदविरोधित्वम् । तच्चैवम्भूतमित्यर्थः ।। १७ ।।

भावबोधः

।। धात्वर्थ इति ।। युक्त इत्यत्र युजेर्धातोः समाधिलक्षणोपाय इत्यर्थः । प्रत्ययार्थ इति । क्तप्रत्ययार्थ इत्यर्थः ।। १७ ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। धात्वर्थ इति ।। युक्त इत्यत्र समाधिलक्षण उपायो युज्धातोरर्थ इत्यर्थः ।। प्रत्ययार्थ इति ।। क्तप्रत्ययार्थ इत्यर्थः ।।

भावरत्नकोशः

‘युज समाधौ’ इति धातोर्निष्ठायां युक्तशब्दो निष्पन्न इत्यभिप्रेत्य भाष्यं घटयन् प्रकृतिप्रत्यययोरर्थमाह– समाधिर्हीति ।। निष्ठाप्रत्ययस्य ‘गत्यर्थाकर्मक’ इत्यादिना कर्त्राद्यर्थे विधानेऽपि, फलितमभिप्रेत्योक्तं– तद्वत्ता चेति ।। आदिपदेन ‘श्रमादि’ इत्यत्रत्यादि-पदेन । एवम्भूतमिति । श्रमोत्सेकालस्यानापादकत्वरूपमित्यर्थः । ‘योगो भवति दुःखहा’ इति विशेषणात् ‘श्रमाद्यभावः’ इत्युक्तमिति प्राचीनटीका ।।

युक्ताहारविहारस्य युक्तौ योगोपेतौ योगाविरुद्धौ आहारविहारौ अशनसञ्चारौ यस्य स तथोक्तः । तस्य यावता श्रम-इन्द्रियोत्सेक-आलस्यादियोगविरोध्यभावो भवति, तावदाहारादिरिति यावत् । कर्मसु कार्येषु स्वप्नावबोधौ निद्राजागरणे दुःखहा सांसारिकदुःखानि हन्तीति तथायोगः समाधियोगो भवति ।। १७ ।।

भावदीपिका

‘समाधिसाहित्यरूपं सोपायत्वं युक्तशब्दार्थः’ इत्येतदुपपादयति– समाधिर्हीति ।। धात्वर्थः युज्धात्वर्थः । ‘युज समाधौ’ इति धातोरित्यर्थः ।। तद्वत्ता समाधिमत्ता । प्रत्ययार्थः कर्तरि प्राप्तक्तप्रत्ययार्थः । ‘युज्’ अस्मात् कर्तरि क्तप्रत्यये ककारलोपे ‘चोः कुः’ इति जकारस्य गकारे ‘खरि च’ इति गकारस्य ककाररूपे चरि ‘युक्तः’ इति रूपं द्रष्टव्यम् । अत इति ।। समाधिमत्त्वस्य युक्तशब्दार्थत्वादित्यर्थः । इन्द्रियाणां विषयेषु लोलुपता इन्द्रियोत्सेक-शब्दार्थः । उपायेन समाधिना । तदविरोधित्वं समाध्यविरोधित्वम् । एवम्भूतमिति ।। श्रमाद्य-भावसम्पादकम् आहारादिकमेव समाध्यविरोधीत्यर्थः ।। १७ ।।

भावप्रकाशः

।। धात्वर्थ इति ।। ‘युज समाधौ’ इत्युक्तेर्युजिधात्वर्थ इत्यर्थः । तद्वत्ता च प्रत्ययार्थ इति । यद्यपि गत्यर्थाकर्मकेति कर्तरि क्तप्रत्यविधानात् कर्ता प्रत्ययार्थ इति वक्तव्यम् । तथाऽपि फलितमभिप्रेत्य तद्वत्तेत्युक्तम् ।। १७ ।।