त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।।२१।।

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत्  ।।२१।।

भावरत्नकोशः

गीताक्षरार्थस्तु पुमर्थविरोधिषु दोषेषु सर्वथा परिवर्जनीयं दोषत्रयमुच्यते– त्रिविधमिति ।। कामः क्रोधस्तथा लोभः इतीदं त्रिविधं नरकस्य प्राप्तौ द्वारमात्मनो नाशनं महानर्थरूपनित्यनिरयप्रापकं च । एवं सति आत्मा नष्ट इव शून्यतां नीत इवेति आत्मनाशनत्वं दोषत्रयस्य । तस्माद् अनर्थहेतुत्वात् एतत् त्रयं कामादित्रिकं त्यजेत्

।। २१ ।।