एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।। ३२ ।।
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।। ३२ ।।
भाष्यम्
ब्रह्मणः परमात्मनः मुखे । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ (९.२४) इति वक्ष्यति । मानसिकवाचिककायिककर्मजा एव हि ते सर्वे । एवं ज्ञात्वा तानि कर्माणि कृत्वा विमोक्ष्यसे ।।
भावप्रदीपिका
‘ब्रह्मणो वेदस्य’ इत्यपव्याख्यानमेवेति भावेनाह– ब्रह्मण इति ।। विष्णोः सर्वयज्ञभोक्तृत्वस्य भगवदनभिमतत्वात् कथमर्थः ? इत्यत आह– अहं हीति । नन्वेवं नानाविधयज्ञसद्भावे कर्मात्मकयोगं विहायैव यागान्तरे नियोजयेत्याशङ्कोत्तर-त्वेन ‘कर्मजान्’ इति श्लोकं व्याचष्टे– मानसेति ।। ३२ ।।
भावप्रकाशिका
‘नन्वहं मुमुक्षुरन्यदैवत्यज्योतिष्टोमादियज्ञं कथं करिष्यामि ?’ इति भ्रान्त्या स्वविहितो यज्ञो न त्याज्य इति सूचनाय यदुक्तं भगवता परब्रह्मण एव सर्वयज्ञ-भोक्तृत्वम् ‘एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे’ इति । तदन्यैराच्छादितं ‘ब्रह्मणो वेदस्य वेदसिद्धा एव च ते यज्ञाः’ इति । अतः पुनर्भगवद्भावप्रकाशाय ब्रह्मशब्दार्थमाह– ब्रह्मण इति ।। कथमयं भावो भगवतः ? इत्यत आह – अहं हीति । ननु भवतु सर्वो यज्ञो विष्णु-दैवत्यः । तथाऽपि ‘सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः’ इति सर्वकर्मणां दोषावृतत्वोक्तेर्न कर्मात्मकं युद्धाश्वमेधादियज्ञं करोमि, किन्त्वकर्मात्मकं ज्ञानादियज्ञमित्याशङ्कापरिहार-त्वेनोत्तरार्धं व्याचष्टे– मानसेति ।।
प्रमेयदीपिका
‘ब्रह्मणो मुखे वितताः’ इत्यस्य ‘वेदे प्रतिपादिताः’ इति व्याख्यानमसत् । मुखशब्दवैयर्थ्यादित्यभिप्रायेणाह– ब्रह्मण इति ।। परमात्मनः सर्वयज्ञ-भोक्तृत्वं कुतो भगवत्-सम्मतमित्यत आह– अहं हीति ।। उपासनादीनां कर्मजत्वाभावात् ‘कर्मजान् विद्धि तान् सर्वान्’ इत्ययुक्तम्््? इत्यत आह– मानसिकेति ।। अत्र विमोक्ष्यसे इति सन्नन्तान्मुचः कर्मकर्तरि च लट् । तस्य प्रकृतोपयुक्ततया अर्थमाह– एवमिति ।। एवं ज्ञात्वा यदि सर्वेऽपि यज्ञाः कर्मजा इति जानासि तर्हि तानि युद्धादीनि स्वविहितानि कर्माणि कृत्वैव विमोक्ष्यसे संसारादात्मानं मोक्तुमिच्छसि । सर्वेषां कर्मजत्वज्ञाने तवैव मोक्षार्थं युद्धादिकं कर्तव्यमितीच्छा भविष्यतीत्यर्थः ।।
भावबोधः
।। कर्मकर्तरीति ।। मोक्षकर्मीभूतस्यैवात्मनः कर्तृत्वमिति भावः । कर्मवत्कर्मणा तुल्यक्रिय इति कर्तृभूतस्यापि कर्मणः कर्मवद्भावात् सार्वधातुके यगिति यक् ।।
वाक्यार्थप्रदीपः
।। सन्नन्तान्मुचः कर्मकर्तरि लडिति ।। ‘मुच्लृ मोक्षणे’ इत्यस्मात् धातोः कर्मणः समानकर्तृकात् ‘इच्छायां वा’ इति इच्छायां सनि ‘सन्यङोः’ इति द्वित्वे ‘मुचोऽकर्मकस्य गुणो वा’ इति गुणे अत्र ‘लोपोऽभ्यासस्य’ इत्यभ्यास लोपे चोः कुः’ इति कुत्वे ‘इण्कोः’ इति षत्वे ‘कषयोगे क्षः’ इति क्षत्वे ‘सनाद्यन्ता धातवः’ इति धातुसंज्ञायां ‘कर्मवत् कर्मणा तुल्यक्रियः’ इति कर्मवद्भावे यदा कर्तृत्वं कर्मत्वेन विवक्ष्यते तदा सकर्मणामप्यकर्मकत्वात् ‘लःकर्मणि च भावे चाकर्मकेभ्यः’ इति कर्तरि लकारे ‘सार्वधातुके यक्’ इति सूत्रे यग्विधानेन कर्मकर्तर्युपसङ्ख्यानमिति यक्प्राप्तौ कर्मवद्भावातिदेशेन कर्तृत्वस्यानिवृत्तेः ‘कर्तरि शप्’ इति शपि च प्राप्ते ‘विप्रतिषेधे परम्’ इति परत्वात् शप्यप्राप्ते ‘कर्मकर्तरि यग् वाच्या’ इत्युक्तेः यकि, ‘यस्येति च’ इति सनोऽकारलोपे च सति ‘थासः से’ इति से भावे ‘मोक्ष्यसे’ इति रूपसिद्धिरिति भावः ।।
भावदीपः
।। इति व्याख्यानमसदिति ।। कुतः? इत्यतो ब्रह्मशब्दस्य वेदार्थकत्वे ‘ब्रह्मणि वेदेऽपि वितताः’ इत्येतावता पूर्तेरिति भावेन हेतुमाह – मुखेति ।। सन्नन्तान्मुच इति ।। यद्यपि ‘मुच्लृ मोक्षणे’ इत्यतः ‘धातोः कर्मणः समानकर्तृकादिच्छायां वा’ (पा.सू.३.१.७) इति सन्प्रत्यये ‘सन्यङोः’ इति द्विवचने ‘हलन्ताच्च’ इति सनः कित्वेन गुणाभावे च मुमुक्षेति भाव्यम् । तथाऽपि गुणाभ्यासलोपौ छान्दसावित्युपेत्य सन्नन्तात् मोक्ष-शब्दात् ‘वर्तमाने लट्’ (पा.सू.३.२.१२३) इति लटि, तस्य सिबादेशे ‘कर्मवत् कर्मणा तुल्यक्रियः’ (पा.सू.३.१.८७) इति तृतीयाध्यायाद्यपादीयसूत्रेण ‘कर्तरि शप्’ (पा.सू.३.१. ६८) इत्यतः प्रथमान्तं कर्तृपदमनुवर्त्य ‘कर्मणा तुल्यक्रियः कर्मकारकक्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । कर्मकारकनिमित्तं यथा आत्मनेपदे चिण्वद्वद्भावादिकार्याणि लभते’ इत्युक्तेः यकि सति, ‘अतो लोपः’(पा.सू.६.४.४८)इति अकारलोपे ‘स्वयमेव विभिद्यते काष्ठम्’ इत्यादाविव ‘मोक्ष्यसे’ इति रूपसिद्धेः ‘कर्मकर्तरि च लट्’ इत्युक्तम् ।।
भावरत्नकोशः
‘ब्रह्मणो वेदस्य मुखे द्वारे, वेदद्वारेणावगम्यमाना ब्रह्मणो मुखे वितता उच्यन्ते’ इति सङ्करभाष्यमर्थतोऽनुवदति– ब्रह्मण इति ।। मुखशब्देति ।। उक्तार्थत्वे ‘ब्रह्मणा वितताः’ इत्येव विन्यासापत्तेरिति भावः । ‘भगवदुपासनं यज्ञः’ इत्युक्तत्वादुक्तम्– उपासनेति ।। आदिपदेन तपोज्ञानादीनां ग्रहणम् । अत्र श्लोके । सन्नन्तान्मुच इति ।। ‘धातोः कर्मणः समानकर्तृत्वादिच्छायां वा’ इति ‘मुच्ऌ मोक्षणे’ इति धातोरिच्छार्थे सनि ‘मुचोऽकर्मकस्य गुणो वा’ इति सन्नन्तस्य पक्षे गुणः । ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपः । ततः सन्नन्तधात्वर्थकर्मणः कर्तृत्वविवक्षायां ‘कर्मवत् कर्मणा तुल्यक्रियः’ इति तस्य कर्मवद्भावेन कर्मार्थकलट्प्रत्यययोगात्मनेपदादिकार्यम् । सति चैवं ‘विमोक्ष्यसे’ इति रूपमिति भावः ।
भावदीपिका
।। अहं हीतीति ।। तथा च ‘अहं हि’ इति सर्वयज्ञभोक्तृत्व-स्योच्यमानत्वेन भोक्तृत्वस्य च मुखाभावेऽसम्भवान्मुख इत्युक्तमिति भावः ।। उपासनादीनामिति ।। ‘दैवमेवापरे यज्ञम्’ इत्युक्तोपासनादिरूपयज्ञानामित्यर्थः ।। अत्र विमोक्ष्यस इति सन्नन्तान्मुचः कर्मकर्तरि लडिति ।। अत्र ‘विमोक्ष्यसे’ इत्यस्य ‘आत्मानं मोक्तुमिच्छसि’ इत्यर्थस्याभिप्रेतत्वेन मोक्षकर्तृभूतस्यैवाऽत्मनः कर्तृत्वं विवक्षितम्, ‘कर्मवत्कर्मणा तुल्य’ इति कर्तुः कर्मवद्भाव उच्यते, वत्सः स्वयमेवेति प्रयोगात् इत्यवधेयम् ।
ततश्चायं साधनप्रकारः । विपूर्वकात् ‘मुच्लृ मोक्षणे’ इत्यस्माद् ‘इच्छायां सन्’ इति सन्प्रत्यये नकारलोपे धातोरभ्यासे ‘मुमुच्’ इति जाते ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपे मुच् इति जाते ‘मुचोऽकर्मकस्य गुणो वा’ अकर्मकस्य मुचो गुणो वा स्यात् , सकारादौ प्रत्यये परे इति सूत्रेण उकारस्य ओकारो गुणः । अत्र कर्मणः कर्तृत्वस्याभिप्रेतत्वेन स्वतन्त्रस्य कर्तृभिन्नस्य कर्मणोऽ-भावादकर्मकत्वम् । एवं च ‘मोच् स’ इति जाते ‘चोः कुः’ इति चकारस्य कुत्वे ‘मोक् स’ इति जाते सकारस्य षत्वे कषयोर्योगे क्षेति जाते ‘विमोक्ष’ इति सन्नन्तः शब्दः । पश्चात् ‘सार्वधातुके यक्’ इति यक्प्रत्यये ककारलोपे ‘अतो लोपः’ इत्यनेन क्षकारस्थस्य अकारस्य लोपे ‘विमोक्ष् य’ ‘विमोक्ष्य’ इति जाते पश्चाल्लट् । तस्य चाऽत्मनेपदिनि मध्यमपुरुषे थास् इत्यादेशे ‘थासः से’ इति थासः सेभावे ‘विमोक्ष्यसे’ इति लडात्मनेपदिनि मध्यमपुरुषैकवचने रूपं ‘भवसे’ इतिवद्भवतीति द्रष्टव्यम् ।।
भावप्रकाशः
।। सन्नन्तान्मुचेरिति ।। मुचेः सनि द्वित्वे ‘मुचोऽकर्मकस्य गुणो वा’ इति गुणे अत्र लोपः अभ्यासस्य इत्यभ्यासलोपे च मोक्षेति भवति । ततः सन्नन्तधात्वर्थकर्मणः कर्तृत्वविवक्षायां ‘कर्मवत् कर्मणा तुल्यक्रियः’ इति कर्मवद्भावेन कर्मार्थलट्प्रत्ययवत् यगात्मनेपदयोः सतोः मोक्ष्यत इति भवतीति भावः ।।