श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ।। ४७ ।।

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ।। ४७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु स्वविहितकर्मनिरतत्वम् अत्यावश्यकमित्ये-तदुपपाद्यते– श्रेयानिति ।। विगुणो वैगुण्यलक्षणदोषयुक्तोऽपि स्वधर्मः स्वविहितधर्मः परधर्मात् क्षत्रियादिजातिविहिताद्धर्मात् स्वनुष्ठितात् साधुकृतात् श्रेयान् प्रशस्यतरः । पुमर्थसाधने विगुणः कथं श्रेयस्साधनं स्यात् इत्यत उच्यते– स्वभावेति ।। स्वस्य ब्राह्मणादेर्भावो वर्णाश्रमादि-लक्षणः तन्निमित्तीकृत्य विहितं स्वभावनियतं कर्म कुर्वन् किल्बिषं वैगुण्यकृतदोषं नाप्नोति

।। ४७ ।।