ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।। ६१ ।।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।। ६१ ।।

भावरत्नकोशः

ननु प्रकृतिशब्दितेच्छाया एव नियोक्तृत्वे ईश्वरो नियोक्ता न स्यात् इति शङ्का ईश्वरस्वरूपमुपदिशता निराक्रियते– ईश्वर इति ।। सर्वेषां भूतानां जीवानां हृद्देशे ईश्वरः अन्तर्यामी तिष्ठति । तदवस्थितिप्रयोजनं सूच्यते– यन्त्रारूढानीति ।। यन्त्रशब्दः शरीरार्थः, तानि आरूढानि अधिष्ठितानि भूतानि शरीराभिमानिनो जीवान् मायया स्वरूपभूतया इच्छया भ्रामयन् स्वस्वकर्मसु नियोजयन् सन्निति । केचित्तु ‘यन्त्रारूढानि’ इत्यत्र इवशब्दं संयोज्य, यथा दारुयन्त्रारूढानि कृत्रिमाणि भूतानि सूत्रधारी लोके भ्रामयति, तथेश्वरो मायया भ्रामयन् तिष्ठतीति व्याचक्षते ।। ६१ ।।