कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ।। ९ ।।

कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ।। ९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- कार्यमिति ।। हे अर्जुन नियतं वर्णाश्रम-विहितं कर्मैव कार्यम्, न पुनस्तत्र कर्तृत्वं फलं वाऽनुसन्धेयमित्येतद् विविच्यते । सङ्गं कर्तृत्वाभिमानलक्षणम्, तस्य फलं च त्यक्त्या क्रियते स एव कर्मणि सङ्गफलत्याग एव सात्त्विकत्यागो मतः ।। ९ ।।