कृषिगौरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।। ४४ ।।

कृषिगौरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् ।

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।। ४४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु वैश्यशूद्रयोः कर्मणी उच्येते पूर्वोत्तरार्धाभ्याम्– कृषिगोरक्षवाणिज्यमिति ।। कृषिगोरक्षवाणिज्यम् कृषिः भूमेः विलेखनम् गाः रक्षतीति गोरक्षः, तस्य भावः गौरक्ष्यम् पाशुपाल्यम्, वाणिज्यं वणिक्कर्म क्रयविक्रयादि, कृषिगौरक्ष्य-वाणिज्यम् इति द्वन्द्वैकवद्भावः । वैश्यं कर्म वैश्यजातेर्विहितं कर्म । स्वभावजम् । परिचर्यात्मकं त्रैवर्णिकशुश्रूषारूपं कर्म शूद्रस्यापि स्वभावजम् । अत्र ब्राह्मणधर्माः शमादयः । तेभ्यः किञ्चि-दूनाः क्षत्रियेषु । क्षत्रियेभ्यः किञ्चिदूना वैश्येषु । वैश्येभ्यः किञ्चिदूनाः शूद्रेषु ज्ञातव्या इत्यादि-विशेष उत्तरप्रस्थानतोऽवगन्तव्यः ।। ४४ ।।