सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ।। २४ ।।
सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ।। २४ ।।
भाष्यम्
सर्वान् सर्वविषयान् । अशेषतः एकैकविषयोऽपि कामः स्वल्पः कादा-चित्कोऽपि न कर्तव्य इत्यर्थः । मनसैव नियन्तुं शक्यते नान्येनेत्येवशब्दः ।।
भावप्रदीपिका
‘सर्व’ शब्दागतार्थतया ‘अशेष’ पदार्थमाह– सर्वानिति । मनोव्यतिरिक्तेनापीन्द्रियनियमने दोषाभावात् किमर्थं ‘मनसैव’ इत्यधारणम् ? इत्यत आह– मनसैवेति ।। २४ ।।
भावप्रकाशिका
‘सर्व-अशेष’ शब्दयोरर्थभेदमाह– सर्वानित्यादिना ।। नन्वन्येनापीन्द्रियग्रामनियमने को दोषः, येन ‘मनसैव’ इत्यवधार्यते ? इत्याशङ्क्यान्येन नियन्तुमशक्यत्वादेवावधार्यते नान्यदोषेणेत्याह– मनसैवेति ।। २४ ।।
प्रमेयदीपिका
‘सर्वान्’ ‘अशेषतः’ इत्येतयोस्तात्पर्यमाह– सर्वानिति ।। ‘कामः स्वल्पः कादाचित्कोऽपी’ति मूलपाठः । नन्विन्द्रियग्रामनियमनमेवावश्यकम् । नतु करणनियमः । कथमुच्यते मनसैवेन्द्रियग्रामम् इति । तत्राह– मनसैवेति ।। स्वरूपकथन-मेतदिति भावः । इति ‘ज्ञापयितुम्’ इति शेषः ।। २४ ।।
भावदीपः
।। इति मूलपाठ इति ।। ‘कामः सङ्कल्पः’ इत्यद्यतनकोशगतपाठो लेखककृत इत्युक्तं भवति ।। २४ ।।
भावरत्नकोशः
।। इति मूलपाठ इति । क्वचित्कोशेषु ‘कामः सङ्कल्पः कादाचित्कः’ इति परिदृश्यमानः पाठः कृत्रिम इत्यर्थः । इन्द्रियग्रामेति । श्रोत्रादीन्द्रिय-समुदायेत्यर्थः । करणनियमः ‘मनसैव, न त्वन्येन करणेन’ इति नियमनकरणनियम इति सुधीन्द्रतीर्थश्रीमच्चरणाः । ‘इति’ इति भाष्यपदमनूद्यातःपरं शेषमाह– इतीति । एतत् मनसै-वेत्यवधारणम् ।।
किञ्च सङ्कल्पप्रभवान् ‘एतदर्थमिदं कुर्याम्’ इति सङ्कल्पः प्रभवः उत्पादको येषां ते तथोक्ताः तान् सर्वान् सर्वविषयान् कामान् अशेषतः निःशेषतः, एकविषयोऽपि कामः स्वल्पः कादा-चित्कोऽपि न कर्तव्य इति वक्तुम् इदम्, त्यक्त्वा, इन्द्रियग्रामं श्रोत्रादीन्द्रियसमुदायं समन्ततः सर्वतः विषयेभ्यः मनसैव नियम्य, इन्द्रियग्रामो मनसैव नियन्तुं शक्यते, नान्येनेति स्वरूपकथनाय एवशब्दः ।। २४ ।।
भावदीपिका
।। तात्पर्यमाहेति ।। सर्वशब्दस्य सङ्कोचोऽपि युक्तः, नाशेषशब्दस्यावशेषनिवारकस्य । अत एव ‘विषयोऽपि’ इत्यनेनाशेषपदतात्पर्यकथनं युक्तमित्यव-धेयम् । ‘कामः सङ्कल्पः’ इति पाठः प्रामादिक इत्याह– काम इति ।। नत्विति ।। येन ‘मनसैव’ इति मनोरूपं करणं नियम्यत इत्यर्थः ।। २४ ।।
भावप्रकाशः
क्वचित्पुस्तके कामः सङ्कल्प इति मूलपाठो दृश्यते । सोऽपपाठ इत्याह– कामः स्वल्प इति ।। २४ ।।