इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ।। २७ ।।

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ।। २७ ।।

भाष्यम्

द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोर्न हि किञ्चिज्ज्ञातुं शक्यम् ।।

भावप्रदीपिका

ननु द्वन्द्वमोहादेवाज्ञानं नेश्वरेच्छात इत्याशङ्कोत्तरभूतम् ‘इच्छाद्वेषसमुत्थेन’ इति श्लोकं व्याचक्षाणः, तावत् ‘द्वन्द्वमोह’शब्दार्थमाह– द्वन्द्वेति । श्लोकं योजयति–इच्छेति ।।

भावप्रकाशिका

नन्वतिवृद्धेच्छाद्वेषाभ्यामेव सुखदुःखादिविषयज्ञानवद् भगव-द्विषयज्ञानसम्भवात् कथमज्ञानं भगवदिच्छया ? इत्याशङ्कापरिहारत्वेनोत्तरं श्लोकं व्याचक्षाणो ‘द्वन्द्वमोह’शब्दार्थं तावदाह– द्वन्द्वेति । आदिशब्दादिच्छाद्वेषादि । मोहस्येच्छाद्वेषसमुत्थत्वं लोकप्रसिद्धमिति हिशब्देन प्रदर्शयन्, द्वन्द्वमोहसम्मोहयोर्निमित्तनैमित्तिकभावोक्तिः तयोरेक-निमित्तकत्वज्ञापनायेति सूचयन्नज्ञानमेवात्र मोहसम्मोहशब्दार्थ इति सूचयति– इच्छेति । किञ्चिदिति सुखदुःखादिकमीश्वरादिकं च । अत इच्छाद्वेषाभिवृद्धिरेवोभयविषयज्ञानमिति भावः ।

प्रमेयदीपिका

‘इच्छाद्वेषौ द्वन्द्वम् । तज्जन्यो मोहो द्वन्द्वमोहः । तेन’ इति कश्चित्। तदसदिति भावेनाऽह– द्वन्द्वेति ।। अन्यथा इच्छाद्वेषसमुत्थेन मोहेनेत्येव स्यादिति भावः । व्याख्यानव्याख्येयभावश्चागतिका गतिः । द्वन्द्वमोहस्य इच्छाद्वेषसमुत्थत्वं कथम्? इत्यत आह– इच्छेति ।। किञ्चित् सुखादिकम् । ‘हेयत्वादिना’ इति शेषः ।।

भावबोधः

ननु द्वन्द्वमोहेनेत्येतदिच्छाद्वेेषेत्यनेन व्याख्यायते । ततो न दोष इत्यत आह– व्याख्यानव्याख्येयभावश्चेति ।। २७ ।।

भावरत्नकोशः

।। कश्चिदिति ।। ‘इच्छाद्वेषौ द्वन्द्वशब्देनाभिधीयेते, तन्निमित्तो मोहो द्वन्द्वमोहः, तेन’ इति भाषमाणः सङ्कर इत्यर्थः । अपव्याख्यानं भाष्यभावोक्त्या दूषयति– अन्यथेति । परव्याख्याने इत्यर्थः । नन्विच्छाद्वेषौ द्वन्द्वः, तज्जन्यो मोहो द्वन्द्वमोहः, इतीच्छा-द्वेषयोर्द्वन्द्वत्वं व्याख्यातुं ‘द्वन्द्वमोहेन’ इत्येवं व्याख्यानव्याख्येयभावाङ्गीकारेण सङ्करो द्वन्द्वशब्द-वैयर्थ्यदोषं पर्यहार्षीत् स्वग्रन्थ इत्यत आह– व्याख्यानेति ।। अगतिका गतिः गत्यन्तरशून्या गमनिका । भाष्योक्तगत्यन्तरे सम्भवति नागतिकं व्याख्यानं युक्तमिति भावः । भाष्यमनूद्यार्थमाह– किञ्चिदिति ।। ननु सुखादेर्ज्ञातैकसत्त्वात् कथं तदज्ञानमित्यत उक्तम्– हेयत्वादिनेति । इच्छाद्वेषसमुत्थं द्वन्द्वमोहलक्षणमेतत् । ‘द्वन्द्वमोहेन’ इति तृतीययोक्तं कारणमित्यर्थः ।।

भावप्रकाशिका

।। इत्येव स्यादिति ।। द्वन्द्वशब्दस्तु व्यर्थमिति भावः । ननु ‘इच्छाद्वेषसमुत्थेन’ इत्येतदेव ‘द्वन्द्वमोहेन’ इत्यनेन व्याख्यायत इति न दोष इति चेत्, तत्राह– व्याख्यानेति ।। द्वन्द्वशब्द एवेच्छाद्वेषपदेन व्याख्यायत इत्यत आह– अगतिका गतिरिति ।। गतिरिति ।। गतिः गमनिका व्याख्या गतिशून्या गमनिकेत्यर्थः । गतिस्त्वस्मद्रीत्याऽस्तीति भावः

Load More