दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ।। ८ ।।

दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्  ।। ८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- दुःखः इत्येव’ इत्यत्र एवशब्देन तामसमोहः पूर्वोक्तो व्यावर्त्यते । दुःखशब्देन शरीरायासद्वारा प्राप्तदुःखान्यद् यत् मानसं धनव्ययादिनिमित्तं दुःखं तद् गृह्यते । यः पुमान् कर्म स्ववर्णाश्रमविहितं दुःखं परत्रापीदं दुःखसाधनमिति मिथ्याज्ञानं विना शरीरायासद्वारा मानसदुःखसाधनमिदमिति हेतोः कायक्लेशतया शरीरायासभयाच्च त्यजेत् सः पुरुष उक्तराजसं त्यागं कृत्वाऽपि त्यागफलं मोक्षं नैव लभेत् लभेत ।। ८ ।।