सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। ७ ।।

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। ७ ।।

भाष्यम्

ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति– सर्वभूतानीत्यादिना ।। ७ ।।

भावप्रदीपिका

उत्तरश्लोकमवतारयति– ज्ञानमिति ।।

प्रमेयदीपिका

यथा ‘मया ततम्’ इत्याद्युक्तोपपादनार्थान्युत्तरवाक्यानि न तथा सर्वभूतानि इत्यादि । किन्तु स्वतन्त्रमेव ज्ञानप्रतिपादकमिति भावेनाऽह– ज्ञानेति ।। प्रलयादीति ।। तत्कारणत्वम् । ‘प्रकृतिं स्वामवष्टभ्य’ इति वचनात् ।।७।।

भावदीपः

।। आदिपदार्थमाह– तत्कारणत्वमिति ।। ७ ।।

भावरत्नकोशः

।। उक्तोपपादनार्थानीति ।। ‘मया ततम् इदम्’ इति ‘मत्स्थानि भूतानि’ ‘न च मत्स्थानि’ इति चोक्तार्थानाम् ‘पश्य मे योगमैश्वरम्’ इति हेतु-कथनेन, ‘यथाऽऽकाशस्थितः’ इति दृष्टान्ताभिधानेन चोपपादनादिति भावः । ज्ञानप्रतिपादनम् ज्ञातव्यार्थोपदेशः । जगद्धर्मस्य प्रलयादेर्भगवन्माहात्म्यत्वाभावाद् अस्याध्यायस्य च भगव-न्माहात्म्यस्पष्टनार्थत्वात् कथं ‘प्रलयादि प्रपञ्चयति’ इति भाषणम् ? इत्यत आह– तत्कारणत्वमिति ।। अत एव ‘विसृजामि’ इति असकृत्सर्जनकर्तृत्वमुच्यत इति । ‘सर्वभूतानि प्रकृतिं यान्ति’ इत्यत्रापि ‘मया’ इति संयोजने प्रलयकारणत्वमेव भाष्याभिमतमिति भावः ।। ७ ।।

गीताश्लोकार्थः ‘सर्वभूतानि’ इत्यादेः ‘बहुधा विश्वतोमुखम्’ इत्यन्ताया नवश्लोक्या अक्षरार्थस्तुप्रतिज्ञातज्ञानप्रदर्शनाय ‘मया’ इत्यादिना भगवतो व्याप्तत्वसर्वाधारत्वाद्युक्त्वा ‘न च’ इत्यादिश्लोकद्वयेनोपपाद्य च, अधुना प्रतिज्ञातज्ञानप्रदर्शनार्थं भगवतः प्रलयादिकारणत्वं प्रपञ्च्यते– सर्वभूतानीति ।। सर्वाणि भूतानि सशरीरजीवजातानि कल्पक्षये प्रलयकाले मामिकां मदधीनां प्रकृतिं त्रिगुणात्मिकां यान्ति तत्र लीनानि भवन्ति । पुनश्च तानि कल्पादौ सृष्टिकाले विशेषेण विविधतया च सृजामि इत्युक्तमेव ।। ७ ।।

भावदीपिका

।। तत्कारणत्वमिति ।। गीतायां तस्यैवाभिधानादिति भावः

।। ७ ।।

भावप्रकाशः

 ननु प्रलयादेः विष्णुमाहात्म्यत्वाभावात् कथं ज्ञानप्रदर्शनार्थ-मित्युक्तमित्यत आह– तत्कारणत्वमिति ।। ७ ।।