राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ।। २ ।।

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ।। २ ।।

भाष्यम्

राजविद्या प्रधानविद्या ।।

भावप्रदीपिका

राजविद्यापदं राज्ञां विद्येति प्रतीतिनिरासाय व्याचष्टे– राजेति ।।

प्रमेयदीपिका

‘राज्ञामश्वपतिजनकादीनां विद्या राजविद्या’ इति कश्चित् । तदसत् । ब्राह्मणादीनामनधिकारप्रसङ्गादिति भावेनाऽह– राजेति ।। राजेव राजा । राज्ञी चासौ विद्या चेति राजविद्येत्यर्थः ।।

भावदीपः

।। राज्ञी चासाविति ।। तत्र ‘स्त्रियाः पुंवद्भाषितपुंस्कात्’ इति पुंवद्भाव इति भावः ।। क्वचित् राजा चासौ विद्या च इति पाठः । तत्र स्त्रीत्वमविवक्षितम् । किन्तु प्राधान्यमेव विवक्षितम् । अतो न स्त्रीप्रत्ययः । ‘टापं चैव हलन्तानाम्’ इत्युक्तेः राजन्शब्दाद् अच्प्रत्यये टिलोपे ‘राजा’ इति रूपम् । ‘राजा चासौ विद्या च’ इति विग्रहे समासे च पुंवद्भावे राजविद्येति साध्विति ।। राट्शब्दात् हलन्ताद्वा इति टापि कृते राजा चासाविति विग्रहेन ‘ङ्यापोः सञ्ज्ञाछन्दसोः बहुलम्’ इति बहुलग्रहणाद् ह्रस्वत्वे राजविद्येति साध्विति ज्ञेयम् ।। लेखकदोषमूलोऽयं क्वचित् पाठः इत्येके ।।

वाक्यार्थप्रदीपः 

।। राजा चासौ विद्या चेति ।। यद्यपि राज्ञी चासौ विद्या चेति वक्तुमुचितम् । तथापि तथासति विद्यायाः स्वयं प्रधानसम्बन्धित्वेन अप्रधानत्व-प्राप्त्या प्रधानविद्येति भाष्योक्तप्राधान्यहानिप्रसक्त्या तल्लाभार्थं राजा चासौ विद्या चेति विग्रह-प्रदर्शनं कृतमिति ध्येयम् ।।

भावरत्नकोशः

।। कश्चिदिति ।। रामानुज इत्यर्थः । ‘राज्ञां विद्या राजविद्या’ इति हि तेन भाषितम् । राजशब्दस्य क्षत्रियत्वजातिनिमित्तस्य कथं प्रधानार्थत्वेन भाषणम्, इत्याशङ्क्य, नात्र राजशब्दो जातिवचनः । किन्तु राजगतप्रधानत्वलक्षणगुणयोगेन चैत्रे सिंहशब्द इव विद्यायां गौण इत्याह– राजेवेति ।। ‘घन इव श्यामो घनश्यामः’ इत्यादौ घनशब्द एव गौण्या वृत्त्याऽन्यत्र वर्तते, इवशब्दस्तु न वृत्तावन्तर्गत इतिवत्, राजशब्द एव गौणो विद्यायां वर्तत इति भावः । ‘प्रधानानां विद्या’ इति न भ्रमितव्यमिति भावेन स्वपक्षे विग्रहं दर्शयति– राजा चासौ विद्या चेति ।। ननु राजशब्दस्य विद्याविशेषणत्वे ‘ऋन्नेभ्यो ङीप्’ इति ङीपि ‘राज्ञी चासौ विद्या’ इत्येव विग्रहः प्रदर्शयितुमुचित इति चेन्न । ‘स्त्रियाम्’ इत्यधिकृत्य ङीपो विहितत्वेन प्रकृते प्राधान्यमात्रस्य विवक्षितत्वेन, स्त्रीत्वविवक्षाभावात् । राजपत्नीत्वरूपराज्ञीशब्दार्थस्य विद्यायामसम्भवेन प्राधान्यस्यैव वक्तव्यतया राजशब्देन पुंलिङ्गेनैव तदुपस्थापनौचित्याच्च । ‘राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुंसि स्यात् ।।’ इत्यभिधानसिद्धं च क्षत्रियाद्यर्थस्य पुंलिङ्गत्वम् । ‘विद्यानां राजा राजविद्या’ इति भाषमाणः शङ्करोऽपि पुंलिङ्गमेव राजशब्दं निरदिशत् ।

किञ्च ‘राजा नृपे लताभेदे पत्यौ क्षत्रियचन्द्रयोः’ इति नानार्थरत्नमालायां राजशब्दः सोमलतायां पुंलिङ्ग एवाभिहित इति ‘राजलता’ इति समासे ‘राजा चासौ लता च’ इत्येव विग्रहः प्रदर्शनीय इति, अत्रापि पुंलिङ्ग एव विद्यायां प्रयोक्तुमुचितः । एतावांस्तु विशेषः ‘यद्राजशब्दो लतायामभिधावृत्त्या वर्तते, विद्यायां तु गौण्या वृत्त्या’ इति ।

गीताश्लोकाक्षरार्थस्तु राजेव राजा प्रधानम्, राजा चासौ विद्या चेति राजविद्या । विद्यानां प्रधानमिति यावत् । राजगुह्यम् गूहनीयेषु प्रधानं पवित्रं पावनम् । अत एव उत्तमम् । धर्म्यं सर्वस्य जगतो धारको भगवान् धर्मः, ‘तस्मादनपेतं तद्विषयम्’ इत्यर्थे धर्मशब्दाद् यत्प्रत्ययः । सर्वजगद्धारकभगवद्विषयकं प्रत्यक्षावगमम् अक्षेषु इन्द्रियेषु नियमनाय प्रतिस्थितं ब्रह्म प्रत्यक्षम्, अवगम्यते साक्षात्क्रियत अनेनेत्यवगमम् । साक्षात्कारानुकूलशास्त्रजनितपरोक्षज्ञानम् । ‘ग्रह वृ दृ निश्चिगमश्च’ इति गमेः करणे अप्प्रत्ययः । अप्प्रत्ययान्तस्य ‘घञबन्तः’ इति पुंलिङ्ग-त्वानुशासनेऽपि, इह ‘लिङ्गमशिष्यम्’ इति वचनात् तन्नाश्रितम् । वस्तुतस्तु ‘घञबन्त’ इति सूत्रे ‘भावार्थ एवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्याम्, स्त्रीत्वविशिष्टे तु भावे क्तिन्नादिभिः बाधेन, परिशेषात् । कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम् । ‘सम्बन्धमनुवर्तिष्यते’ इति भाष्यात्’ इत्याधुनिकवचनात् करणे अप्प्रत्ययान्तोऽप्यवगमशब्दः नपुंसकलिङ्ग एव युक्त इति । प्रत्यक्षस्य ब्रह्मणोऽवगमम् । एवं च ‘धर्म्यम्’ इत्यनेन न पौनरुक्त्यम् । ‘धर्म्यम्’ इत्यस्य ‘भगवद्विषयकम्’ इत्यर्थात्, ‘प्रत्यक्षावगमम्’ इत्यस्य च ‘ब्रह्मापरोक्षज्ञानसाधनपरोक्षज्ञानम्’ इत्यर्थकत्वात् । कर्तुं सुसुखं सुकरम् अव्ययम् अव्ययमोक्षफलकम् । ‘इदं ज्ञानं प्रवक्ष्यामि’ इति प्रस्तुतं ज्ञानम् इह भावे ल्युटि प्रथमान्तं संयोज्यम् । ‘एवं प्रशस्तम्’ इति स्तुतिमात्रपरत्वादस्य श्लोकस्य क्रियाभिसन्धाभावो न दोषाय ।। २ ।।

भावदीपिका

राजशब्देन कथं प्रधानत्वं लब्धम् इत्यत आह– राजेवेति ।। यथा राजा सर्वप्रधानः तथेत्यर्थः । राजा चासौ विद्या चेति ।। ननु कथमयं विग्रहः । पुंलिङ्गस्त्रीलिङ्गयोः विशेषणविशेष्यभावायोगात् । अतः ‘राज्ञी चासौ विद्या च’ इति वक्तव्यम् । इति चेत् उच्यते । ‘पुंयोगादाख्यायाम्’ इति सूत्रेण या पुमाख्या पुंयोगात् स्त्रियां वर्तते तत्र ङीष् विहितः, ‘गोपी’ इत्युदाहृतं च । तद्वत्, अत्र विद्यायां राजयोगाभावेनोक्तसूत्रेण ङीषोऽ-प्राप्तेः, अगत्या तथैव विग्रहोऽङ्गीकार्यः । एवमेव ‘राजगुह्यम्’ इत्यत्रापि ‘राजा च तद् गुह्यं च’ इत्येव विग्रहः कार्यः । अत एव ‘इन्द्रियजयफलमाह’ इत्यत्र गीताभाष्यटीकायाम् ‘इन्द्रिय-जयश्च तत् फलं च’ इति विग्रहो दर्शित इति ज्ञातव्यम् । एवमेव ‘क्षेत्रजेषे मघवन्’ इत्यत्र भाष्यम् ‘मुक्तिक्षेत्रविजयाय’ इति । तद्व्याख्यातं टीकाकारैः ‘मुक्तिश्च तत् क्षेत्रं च’ इति ।

भावप्रकाशः

ननु ‘राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुंसि स्यात्’ इति अभिधानाद्राजशब्दः प्रभ्वादिवाची । ततश्च प्रधानेति तद्व्याख्यानमयुक्त-मित्यतो गौणत्वमाश्रित्याह– राजेवेति ।। राजा चासौ विद्या चेति ।। अत्र राजन्शब्दस्य विद्याविशेषणत्वाद्राज्ञी चासाविति वक्तव्यमिति चोद्यमुक्ताभिधाने नित्यपुल्लिङ्गत्वोक्त्या निरसनीयम् । गर्भमाधत्त राज्ञीति प्रयोगस्तु ‘पुंयोगादाख्यायाम्’ इति ङीषन्तत्वादुपपन्नः । न च मुख्यार्थस्य राजन्शब्दस्य पुंस्त्वेऽपि अमुख्यार्थलिङ्गं स्यादि वाच्यम् । अमुख्यार्थत्वेऽपि गङ्गायां घोष इत्यादौ मुख्यार्थलिङ्गत्वस्यैव दर्शनादिति ।।

Load More