सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ।। ३२ ।।
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ।। ३२ ।।
भावरत्नकोशः
सर्गाणामिति ।। सृज्यन्त इति सर्गाः भूतानि, तेषाम् आदिः मध्यम् अन्तश्च तद्धेतुभूतोऽपि अहमेव । ‘अहमादिश्च मध्यं च भूतानामन्त एव च’ इत्युपक्रमे भूतोत्पत्तिस्थितिलयकर्तृत्वमात्रमुक्तम् । अत्र तु सृष्टिस्थितिलयलक्षणक्रियासु भगवतस्तिरोहित-विभूतिरूपाणि सन्ति उपासितव्यानीत्युच्यत इति भेद इति आहुः । केचित्तु पूर्वत्र सर्वप्राण्यु-दयादिनिमित्तत्वमुक्तम् । अत्र तु आकाशादिभूतोत्पत्त्यादिहेतुरस्मीत्युच्यत इति विशेष इत्याहुः । पूर्वोक्तं जगदुत्पत्त्यादिहेतुत्वम् अवश्यज्ञातव्यमिति विभावनयाऽत्र स एवार्थः स्मर्यत इति अपरे । अधिकश्चासावात्मा च अध्यात्मा, तद्विद्या अध्यात्मविद्या परब्रह्मविषयकज्ञानम्, तत्साधनविद्या वा । प्रवदतां वक्तृद्वारेण प्रवदनभेदानामेवेह वादजल्पवितण्डानां ग्रहणम् । प्रवदतां जल्पवितण्डादि कुर्वतामित्यपि आहुः । तन्मध्ये वा अहं तस्य तत्त्वनिर्णयहेतुत्वात्
।। ३२ ।।