सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ।। २५ ।।

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।

कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ।। २५ ।।

गीताक्षरार्थस्तु– ज्ञानिनामपि कर्म कार्यं चेद् अज्ञवत् तर्हि विद्वदविद्वत्कर्मणोरविशेषः स्यादित्यत उच्यते– सक्ता इति ।। कर्मणि कर्मफले सक्ताः इच्छावन्तः विद्वान् ज्ञान्यपि असक्तः फलेच्छारहितः लोकसङ्ग्रहं लोकस्यापथगमननिवर्तनं चिकीर्षुः कर्म कुर्याद् इति सक्त्यसक्त्या तयोर्विशेष इति विभाव्यते ।। २५ ।।