प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ।। १ ।।

।। अथ श्रीमद्भगवद्गीतायां त्रयोदशोऽध्यायः ।।

भाष्यम्

पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन ।।

भावप्रदीपिका

एतदध्यायप्रतिपाद्यं दर्शयति– पूर्वोक्तेति । ज्ञानं ज्ञान-साधनं प्रथमषट्कोक्तम् । ज्ञेयं भगवत्स्वरूपं तत्र तत्रोक्तम् । क्षेत्रं भूमिरापोऽनलः इत्याद्युक्तम् । पुरुषौ न त्वेवाहम् इत्यादिना ।

प्रमेयदीपिका

पूर्वसङ्गतत्वेनाध्यायप्रतिपाद्यं दर्शयति– पूर्वोक्तेति ।। पूर्वमाषष्ठसमाप्तेर्यज्ज्ञानं ज्ञानसाधनमुक्तम्, यच्च सप्तमादिभिः षडि्भर्ज्ञेयं ब्रह्मस्वरूप-मुक्तम्, यदपि ‘भूमिः आपः’ (७.४) इत्यादिना क्षेत्रमुक्तम्, यच्च ‘न त्वेवाहम्’ (२.१२) इत्यादिना पुरुषतत्वमुक्तम् । तत्सर्वम् अनेनाध्यायेन दर्शयति भगवान् । किमर्थम्? पिण्डीकृत्य विक्षिप्तमेकीकृत्य । गौणोऽत्र क्त्वाप्रत्ययः । पिण्डीकरणार्थमित्यर्थः । पिण्डीकरणे मिश्रत्वादप्रतिपत्तिरेवेत्यत उक्तम्– विविच्येति ।। प्रकरणशुद्ध्येत्यर्थः ।।

भावबोधः

।। विविच्य दर्शनापेक्षया पिण्डीकरणस्य पश्चात्तनत्वेन पूर्वकाली-नत्वा भावात् कथं पिण्डीकृत्येत्युक्तमित्यत आह– गौण इति ।। भिन्नकालसम्बन्धरूपगुणयोगे-नेत्यर्थः ।। १ ।।

भावदीपः

।। पुरुषतत्वमिति ।। तज्जीवेश्वरस्वरूपमित्यर्थः ।। पिण्डीकरणेति ।। विविच्य प्रदर्शनकार्यतया ततः पूर्वभावित्वायोगादाह– गौणोऽत्र क्त्वाप्रत्यय इति ।। क्त्वाऽऽदेशस्थानीभूत इति ज्ञेयम् ।। पिण्डीकरणपरिज्ञानबुद्ध्यपेक्षया पूर्वकालीन-त्वाभिप्राय इत्यर्थः ।।

।। विविच्य दर्शनापेक्षया पिण्डीकरणस्य पश्चात्तनत्वेन पूर्वकालीनत्वाभावात् कथं पिण्डीकृत्येत्युक्तमित्यत आह– गौणोत्र क्त्वाप्रत्यय इति ।।

भावरत्नकोशः

।। पूर्वसङ्गतत्वेन पूर्वषट्कद्वयसङ्गतत्वेन इत्यनन्तरम् ‘एतत्’ इत्युपस्कर्तव्यम् । ‘साधनं प्राधान्येनोक्तमतीतैरध्यायैः’ इति सप्तमे भाषणाद् अत्र ज्ञानशब्देन लक्षणया, ‘ज्ञायतेऽनेन’ इति योगेन वा ज्ञानसाधनमेव ग्राह्यमिति भावेन तमनूद्य व्याचष्टे– ज्ञानं ज्ञानसाधनमिति ।। उक्तं प्राचुर्येण । पुरुषतत्त्वं चेतनस्वरूपस्थितिः । ‘दर्शयति’ इत्यत्राख्यातोपात्तकर्त्रुक्तिः– भगवानिति ।। उक्तस्य पुनः प्रदर्शनं किमर्थमिति कृतचोद्यस्य कथमनेन परिहारः इत्यतस्तं भाष्यारूढं वक्तुमाह– गौण इति ।। ‘पिण्डीकृत्य’ इत्यत्र क्त्वाप्रत्ययादेशेन ल्यपा पिण्डीकरणं विविच्य दर्शनात् पूर्वकालीनम् इति प्रतीयते । अत्र च क्त्वाप्रत्ययः यथा पूर्वकालीनम् उत्तरकालीनेन प्रत्यासन्नं तथा उत्तरकालीनमपि । तथा पिण्डीकरणं विविच्य प्रदर्शनलक्षणकारणेन प्रत्यासन्नमिति प्रत्यासत्तिलक्षणगुणयोगेन प्रवृत्त इति व्याख्यातव्य इत्यविवक्षितार्थ इत्यर्थः ।

तर्हि कोऽयमर्थो विवक्षितः इत्यतस्तं दर्शयति– पिण्डीकरणार्थमित्यर्थ इति ।। विप्रकीर्णस्यैकीकरणार्थमित्यर्थः । अभ्युपगता च मीमांसकैः ‘अग्निहोत्रं जुहोति’ ‘यवागूं पचति’ इत्यत्र श्रुतक्रमम् अविवक्षित्वा, तिप्रत्ययस्य क्त्वाप्रत्ययार्थमङ्गीकृत्य ‘यवागूं पक्त्वा अग्निहोत्रं जुहुयात् ’इति वचनव्यक्तिः । तथा च कृतचोद्यपरिहारो भाष्यारूढ इति भावः । एतेन ‘विविच्यदर्शनपश्चात्तनस्य पिण्डीकरणस्य तत्पूर्वकालत्वायोगात्कथं भाष्ये समानकर्तृकयोः पूर्वकाले’ इति सूत्रविहितक्त्वाप्रत्ययादेशल्यबुक्तिः’ इति शङ्का परिहृता । पिण्डीकरण-विविच्यदर्शनयोः आकाङ्क्षाक्रमेण फलफलिभावो ज्ञातव्य इत्यभिप्रायावेदनात् । अन्ये तु ‘गौणः’ इति पदं यथा ‘सिंहश्चैत्रः’ इत्यत्र सिंहपदं मृगेन्द्रगतक्रौर्यादिगुणयोगेन चैत्रे वर्तत इत्य-विवक्षितार्थः, एवम् अविवक्षितार्थत्वगुणयोगेन क्त्वाप्रत्यये वर्तयितव्यम् इत्यविवक्षितार्थक इति व्याख्येयम्् । तथा च पिण्डीकरणार्थम् इत्यर्थलाभ इत्याहुः । गौणः तुमर्थलक्षक इत्यर्थ इति अपरे ।

यद्यपि ‘श्रोतृशेमुषीमारोहयितुम्’ इत्यध्याहारे भाष्ये क्त्वाप्रत्ययादेशल्यबपि विवक्षितार्थः सम्पत्स्यते, न सम्पत्स्यते चाविवक्षितोऽर्थः । तथापि सहश्रुतनिखिलपदानां सम्भूयकारित्वस्य व्युत्पत्तिसिद्धत्वादर्थविशेषलाभाच्च अध्याहारापेक्षया प्रत्ययमात्रस्य विवक्षितार्थवर्णनमेव उचित-मिति भावेनैवमुक्तम् । ‘विविच्य’ इत्यस्य तात्पर्यम्– प्रकरणशुद्ध्येति ।।‘एतज्ज्ञानमिति प्रोक्तम्’ इति, ‘एतत्क्षेत्रं समासेन सविकारमुदाहृतम्’ इति, ‘ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वा’ इत्यादिरूपया च तत्तत्प्रकरणपरिशुद्ध्येत्यर्थः ।। १–३ ।।

भावदीपिका

प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।

कुर्मस्त्रयोदशाध्यायटीकां भावप्रदीपिकाम् ।।

।। पुरुषभेद इति ।। जीवेश्वरभेद इत्यर्थः । चतुर्विधनाशाभावप्रतिपादकेन तुशब्देनेश्वरे जीवभेदस्य प्रतिपादितत्वादिति भावः । ननु विविच्य प्रदर्शनापेक्षया पिण्डीकरणस्य पश्चात्तनत्वेन पूर्वकालीनत्वाभावात्, कथं ‘पिण्डीकृत्य इति पूर्वकालीनत्वार्थकक्त्वादेशभूतल्य-प्प्रत्ययः इत्यत आह– गौण इति ।। तथा च विविच्य प्रदर्शनापेक्षया पिण्डीकरणे पूर्वकालीनत्वं न विवक्षितमित्यर्थः । क्त्वाप्रत्ययः तदादेशभूतल्यप्प्रत्ययः । तदेव दर्शयति– पिण्डीकरणार्थमिति ।। प्रकरणशुद्ध्येति ।। ‘एतज्ज्ञानमिति प्रोक्तम्’ इत्यादिप्रकारेणेत्यर्थः

।। १ ।।

भावप्रकाशः

ननु विविच्य प्रदर्शनं नाम प्रकरणशुद्ध्या प्रदर्शनं पिण्डीकरणं च विक्षिप्तस्यैकीकरणम् । नच तयोः पौर्वापर्यमस्ति । तत्कथं पिण्डीकृत्येत्युक्तम् । ‘समान-कर्तृकयोः पूर्वकाल’ इत्युक्तेरित्यत आह– गौण इति ।। तुमनर्थलक्षकं इत्यर्थः ।। १ ।।

अर्जुन उवाच–

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ।। १ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– पूर्वम् आषष्ठसमाप्तेः प्राचुर्येण यद् ज्ञान-साधनमुक्तम्, यच्च सप्तमादिभिः षडि्भरध्यायैर्ज्ञेयं ब्रह्यस्वरूपमुक्तम्, यदपि ‘भूमिरापः’ इत्यादिना क्षेत्रमुक्तम्, यच्च ‘न त्वेवाहम्’ इत्यादिना पुरुषतत्वमुक्तं तद्विप्रकीर्णतयोक्तं सर्वं बुद्ध्यारोहार्थं सङ्क्षिप्यास्मिन्नध्याये प्रदर्श्यते ‘तत्क्षेत्रं यच्च’ इति । प्रतिज्ञातभगवज्ज्ञानस्यैव मोक्षहेतुत्वात् क्षेत्रं भगवत्स्वरूपं चोभयं किमर्थमुच्यते? इत्याशङ्का तावत्परिह्रियते– श्रीभगवानुवाच ।। इदं शरीरम् इति द्वाभ्याम् ।।