इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।। ४२ ।।
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।। ४२ ।।
भाष्यम्
शत्रुहनने आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह– इन्द्रियाणीति ।। ‘असङ्ग-ज्ञानासिमादाय तराति पारम्’इति ह्युक्तम् । शरीराद् इन्द्रियाणि पराणि उत्कृष्टानि । न केवलं बुद्धेः परः श्रुत्युक्तप्रकारेणाव्यक्तादपि । ‘अव्यक्तात् पुरुषः परः’ (काठ.१.३.११) इति हि श्रुतिः ।।
भावप्रदीपिका
असर्वोत्तमत्वज्ञानादपि कामादिजयेन मोक्ष इति शङ्का मा भूदित्याह– न केवलमिति ।।
भावप्रकाशिका
प्रकटमप्युत्तरश्लोकप्रतिपाद्यमपव्याख्यातिरोहितं प्रकाश-यति– शत्रुहनन इति ।। इन्द्रियाद्यभिमानीन्द्रादितारतम्यपूर्वकपरमपुरुषहरिज्ञानं हि कामादिशत्रुनाशकम् । ज्ञानस्यायुधरूपेण कामादिशत्रुनाशकत्वे प्रमाणमाह– असङ्गेति ।। इन्द्रियाणि पराणि कस्मात् ? इत्याशङ्कायामाह– शरीरादिति । बुद्धेः सकाशात् परत्व-ज्ञानस्यैव संसारनिवृत्तिहेतुत्वोक्तेः, तावदेव भगवतः परत्वम्, न तु सर्वोत्तमत्वमिति शङ्का मा भूत् । अव्यक्तादपि परत्वश्रुतेरिति भावेनाह– न केवलमिति । का सा श्रुतिः ? इत्यत आह– अव्यक्तादिति ।।
प्रमेयदीपिका
‘इन्द्रियाणि पराणि’ इत्यस्य पूर्वेण सङ्गतिर्न दृश्यते । अत आह– शत्रुहनन इति ।। ‘एवं बुद्धेः परम् ’(३.४३)इत्यनेन वक्तुम् । ज्ञानस्यात्राऽऽ-युधत्वे प्रमाणमाह– असङ्गेति ।। असङ्गं वैराग्यसहितम् । तराति पारम् । पारमतितर । ‘छन्दसि परेऽपि’ (पा.सू.१.४.८.१) इति वचनात् । परत्वस्यावधिसापेक्षत्वात् कस्मा-दिन्द्रियाणि पराणि? इत्यत आह– शरीरादिति ।। सन्निधानादिति भावः । किं परत्व-मन्यत्वम्? नेत्याह– उत्कृष्टानीति ।। ‘यो बुद्धेः परतस्तु सः’ इति परमात्मोच्यते । तस्य बुद्धेः परत्वे महताऽत्मना साम्यं स्यादित्यत आह– न केवलमिति ।। काऽसौ श्रुतिर्यद्बलादध्याहारः? इत्यत आह– अव्यक्तादिति ।।
भावबोधः
।। सन्निधानादिति ।। इन्द्रियाणां शरीरसंयुक्तत्वादित्यर्थः ।।
भावदीपः
‘वक्तुम्’ इत्यस्य ‘केन’? इत्याकाङ्क्षायामाह– एवं बुद्धेः परमित्यनेन वक्तुमिति ।। अतितरेति ।। कञ्चित् प्रत्युच्यते । अतिक्रान्तो भवेत्यर्थः ।। ननु ‘उपसर्गाः क्रियायोगे’ (पा.सू.१.४.५९) इत्युक्तेः, उपसर्गस्य ‘तर’ इति क्रियातः ‘अति’ इत्युपसर्गस्य प्राक् प्रयोज्यत्वात् ‘अतितर’ इति पूर्वनिर्देशेन भाव्यम् । कथं तरातीति पश्चा-न्निर्देशः? इत्यत आह– छन्दसि परेऽपीति ।। छन्दोविषये उपसर्गाः परतोऽपि भवन्तीत्युक्तेर्न दोष इत्यर्थः ।। सन्निधानादिति ।। ‘इन्द्रियाणि’ इत्युक्त्यैव तदाश्रयतया शरीरस्य बुद्धौ सन्निहितत्वादित्यर्थः ।। महता आत्मनेति ।। महत्तत्त्वाभिमानिना चतुर्मुखेनेत्यर्थः ।।
वाक्यार्थप्रदीपः (पां.टि.)– ननु ‘अति’ इत्यस्योपसर्गतया ‘ते प्राक्धातोः’ इति उपसर्गाणां धातोः प्राक् प्रयोक्तव्यत्वविधानात् अतीत्युपसर्गस्यापि धातोः प्राक् प्रयोक्त-व्यत्वेन‘अतितर’ इत्येव भवितव्यम् ।‘तराति’ इति तु कथम्? इत्यतः प्राक् प्रयोक्तव्यतया विहितानामपि उपसर्गाणां ‘छन्दसि परेऽपि’ इति पश्चात् प्रयोगस्याप्यभ्यनुज्ञानात् युक्तः पश्चादपि प्रयोग इत्याशयेनाह– तराति पारमित्यादिना ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यचरणानां निजशिष्यकेशवेन विरचिते
व्याकरणस्पृष्टप्रमेयदीपिका
वाक्यार्थप्रदीपे तृतीयोऽध्यायः ।।
भावरत्नकोशः
‘वक्तुम्’ इति भाष्ये केनेत्याकाङ्क्षायां शेषमाह– ‘एवं बुद्धेः परम्’ इत्यनेनेति ।। अत्र कामरूपशत्रुहनने । ‘असङ्गो ह्ययं पुरुषः’ इति सुप्रसिद्धासङ्गत्वस्य कथं ज्ञानविशेषणत्वम् ? इत्याशङ्क्य ‘असङ्गशस्त्रेण सङ्गराहित्यसहितेन ज्ञानेन’ इति पञ्चदशाध्यायभाष्यविवक्षितमर्थमाह– असङ्गमिति ।। न विद्यते सङ्गो विषयरागः, सामानाधि-करण्येन यस्य तद् असङ्गमिति भावेन तात्पर्यमाह– वैराग्यसहितमिति ।। मत्वर्थीयोऽच्प्रत्ययो वा । असङ्गम् असङ्गवदित्यस्य तात्पर्यतोऽनुवादः– वैराग्यसहितमिति ।। ‘असङ्गसहितं ज्ञानम् असङ्गम्’ इति मध्यमपदलोपी समास इति भावेनेयमुक्तिरिति तु मन्दम् । ‘असङ्गम्’ इति टीकोक्त्ययोगात् । असङ्गसहितं ज्ञानमसङ्गज्ञानमित्येव वाच्यत्वात् ।
ननु ‘ते प्राग्धातोः’ इति पूर्वं प्रयोक्तव्यत्वेन विहितस्यातेः कथं पश्चात् प्रयोगः? इत्यत आह– छन्दसीति ।। छन्दसि ते गत्युपसर्गाः पश्चादपि प्रयुक्ताः साधव इति पाणिनिवचना-दित्यर्थः । भागवतवचनं च छन्दस्तुल्यमिति भावः । सन्निधानादिति ।। ‘इन्द्रियाणि’ इत्युक्त्यैव तदाश्रयतया शरीरस्य बुद्धौ सन्निधानादित्यर्थः । महताऽत्मनेति ।। ‘तेभ्यो बुद्धिस्सरस्वती । तस्या ब्रह्मा महानात्मा’ इति काठकभाष्ये बुद्धिशब्दस्य सरस्वत्यर्थकत्वेन तत उत्तमत्वोक्तौै भगवतो महत्तत्त्वमानिना चतुर्मुखेन साम्यशङ्का स्यादित्यर्थः । ‘बुद्धेरात्मा महान् परः’ इति श्रुत्यनुगमाय ‘महताऽऽत्मना’ इत्युक्तम् ।। अध्याहार इति ।। ‘इन्द्रियेभ्यः’ इत्यनन्तरं ‘परा अर्थाः, अर्थेभ्यः’ इत्यध्याहारः, बुद्धेरित्यनन्तरं ‘आत्मा महान् परः । महतः परमव्यक्तम् अव्यक्तात्’ इति चाध्याहार इत्यर्थः ।
भावदीपिका
।। अत्रेति ।। कामादिरूपशत्रुवध इत्यर्थः । ननु ‘ते प्राग् धातोः’ इत्युपसर्गाणां धातोः प्राक् प्रयोज्यत्वोक्तेः ‘अतितर’ इति वक्तव्यम्, कथं ‘तराति’ इत्युक्तम्? अत आह– छन्दसीति ।। ‘छन्दसि परे व्यवहिताश्च’ इति छन्दसि उपसर्गाः धातोः परतोऽपि भवन्तीत्युक्तत्वाददोष इति भावः ।। सन्निधानादिति ।। इन्द्रियाणां शरीरसंयुक्तत्वेन सन्निहितत्वादिति भावः ।। महताऽऽत्मनेति ।। महत्तत्त्वाभिमानिना चतुर्मुखेनेत्यर्थः । ‘बुद्धे-रात्मा महान् परः’ इति श्रुतौ महत आत्मनो बुद्धेः परत्वोक्तेरिति भावः ।। अध्याहार इति ।।
‘मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।
महतः परमव्यक्तमव्यक्तात् ।।’
इति गीतायामध्याहार इत्यर्थः ।
भावप्रकाशः
ननु ‘ते प्राग्धातोः’ इत्यनेनोपसर्गाणां धातोः पूर्वं प्रयोग-नियमोक्तेः ‘अतितर’ इति प्रयोक्तव्यम् । कथं ‘तराति’ इति धातोः पश्चादुपसर्गप्रयोगः? इत्यत आह– अतिपारमितीति ।। छन्दसीति ।। अनेन सूत्रेण च्छन्दसि उपसर्गाणां धातोः पश्चात् प्रयोगोऽपि साधुरित्युक्तत्वादित्यर्थः । सन्निधानादिति ।। ‘इन्द्रियाणां शरीरसंयुक्तत्वादित्यर्थः’ इत्युक्तं भावबोधे । अन्ये तु ‘देहिनमित्यत्र प्रकृतिभागेन शरीरस्य प्रकृतत्वात्’ इत्याहुः । महतात्मनेति ।। महत्तत्त्वाभिमानिना ब्रह्मणेत्यर्थः । बुद्धेरात्मा महानिति श्रुत्यनुगमाय–महताऽत्मनेत्युक्तम् ।।