चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ।। १३ ।।
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ।। १३ ।।
भाष्यम्
अहमेव हि कर्तेत्याह– चातुर्वर्ण्यमिति ।। चतुर्वर्णसमुदायः । सात्त्विको ब्राह्मणः । सात्त्विकराजसः क्षत्रियः । राजसतामसो वैश्यः । तामसः शूद्र इति गुणविभागः ।।
भावप्रदीपिका
यत्पूर्वं सर्वकर्मकर्तृत्वं भगवतोऽभिप्रेतं तत्परतयोत्तरश्लोक-मवतार्य व्याचष्टे– अहमेवेति । ‘गुणकर्मविभागशः’ इत्युक्तौ गुणकर्मविभागौ दर्शयति– सात्त्विक इति ।।
भावप्रकाशिका
न चाश्चर्यं भगवतः सर्वकर्तृत्वं सर्वयज्ञभोक्तृत्वम्, तत एव हेतोः सर्वकर्मफलदत्वं च । यतः स एव सर्वकर्मिणां स्रष्टेति भावेनोत्तरश्लोकमवतार्य व्याचष्टे– अहमेवेति । समुदायसमुदायिनोरत्यन्तभेदाभावात् चतुर्वर्णसमुदायः ‘चातुवर्ण्यम्’ इति विवरणं युज्यते । न च समुदायस्यावस्तुत्वम्, पटस्याप्यवस्तुत्वापत्तेरिति भावः । तत्र तावत् सत्त्वादिगुणत्रयविभागेन चतुर्वर्णोत्पत्तिं दर्शयति– सात्त्विक इत्यादिना । निर्देशप्राथम्या-द्रजोगुणादपि सत्त्वमधिकं क्षत्रिये । तत एव हेतोर्वैश्ये रजोऽधिकं तमसः । रजसस्तमोऽधिक-मित्येव तामसः शूद्र उच्यते । न तु सत्त्वादपीति भावः ।।
प्रमेयदीपिका
‘चातुर्वर्ण्यम्’ इत्यस्य सङ्गतिं सूचयंस्तात्पर्यमाह– अहमेव हीति ।। यस्मादहमेव चातुर्वर्ण्यस्य कर्ता, त्रैविद्याश्च तदन्तर्भूतास्तस्मात् स्वपितरं मां परित्यज्याऽन्यदेवता यजन्तः कथं महाफलभाजो भवेयुः? इत्याहेत्यर्थः । ‘विचित्रा हि तद्धितगतिः’ इति वचनाद् अतिरिक्तार्थसम्भवे ‘चतुर्वर्णादिभ्यः स्वार्थे उपसङ्ख्यानम्’ (७.१.३ वार्तिकम्) इति नाऽदरणीयमिति भावेनाऽह – चतुर्वर्णेति ।।
वर्णाश्चत्वारः, गुणास्त्रयः । तत्कथं तेषु गुणविभागः ? इत्यत आह– सात्विक इति।। राजसस्थसात्विकेष्वेवायं विभाग इति ज्ञातव्यम् । निर्देशप्राथम्यात् क्षत्रिये रजसः सत्वम् अधिकम् । तत एव वैश्ये तमसो रजः । तच्च समसत्वयुतम् । रजोऽपेक्षया तमोऽधिकं शूद्र इत्यसौ तामसः । सत्वं तु तमसोऽप्यधिकम् ।।
भावबोधः
‘राजसास्तु नरास्तत्र विप्रा राजससात्विकाः इत्यादितात्पर्योदाहृत-प्रमाणानुरोधाद् आाह– राजसस्येति ।। निर्देशेति ।। ‘सात्त्विकराजसाः’ इति भाष्ये सत्त्वस्य प्रथमनिर्देशादित्यर्थः । सत्त्वमधिकमिति ।। ‘सात्त्विका स्वल्परजसः क्षत्रियाः’ इति प्रमाणादिति भावः । तत एवेति ।। ‘राजसतामसाः’ इति भाष्ये रजसः प्रथमं निर्देशादेवेत्यर्थः । समसत्त्व-युतमिति ।। ‘सत्त्वरजसो वैश्याः’ इति वचनादिति भावः । ‘अतिस्वल्पसत्त्वाधिक्येन तामसः’ इति प्रमाणानुसारेण तामसः शूद्र इति भाष्यं व्याचष्टे– रजोऽपेक्षयेति ।। मुक्तियोग्यमनुष्यवर्ण-विभागोऽयम् । तदुक्तम् । ‘ये तु भागवता वर्णास्तेषां भेदोऽयमीरितः’ इति । उपलक्षणं चैतत् ।
‘त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः ।
अन्याधिक्यं न मन्यन्ते श्रीशाद् राजसराजसा’
इत्यादिप्रमाणानुसारेण राजसराजसादयोऽपि ग्राह्याः । अन्यथा ‘यस्मादहमेव चातुर्वर्ण्यस्य कर्ता, त्रैविद्याश्च तदन्तर्भूता’ इत्याद्यसङ्गतं स्यादिति मन्तव्यम् ।।
भावदीपः
।। इति वचनादिति ।। भाष्यकारीयवचनादित्यर्थः ।। अतिरिक्तेति ।। स्वार्थादन्यसमूहार्थत्वसम्भव इत्यर्थः ।। इति नादरणीयमिति ।। पञ्चमाध्यायाद्यपादे ‘गुणवचन-ब्राह्मणादिभ्यः’ (पा.सू.५.१.१२४) इति सूत्रे वार्तिकोक्तं स्वार्थेऽप्यनुपसङ्ख्यानं नादरणीय-मित्यर्थः ।। ‘राजसानां मध्ये सात्विका एव भागवता विप्रादयः’ इत्याद्यष्टादशाध्याय-तात्पर्यानुरोधेन वा ‘राजसास्तु नृपास्तत्र विप्रा राजससात्विकाः’ इत्यादि तात्पर्यानुरोधेन वाऽऽह- राजसानां मध्य इति ।। निर्देशेति ।। ‘सात्विकराजसः’ इति भाष्ये सात्विकपदस्य प्रथमं निर्देशादित्यर्थः । ‘सञ्ज्ञाप्रमाणत्वात्’ इतिवदयं निर्देशो ज्ञेयः ।। ‘सात्विकाः स्वल्परजसः क्षत्रियाः सत्वराजसाः’ इत्यादिमानानुरोधादाह– क्षत्रिय इत्यादि ।। तत एव इति भाष्ये रजःपदस्य निर्देशप्राथम्यादेवेत्यर्थः ।। रज इति ।। ‘अधिकम्’ इत्यनुषङ्गः । व्यक्तमेतत् सर्व-मन्तिमाध्यायतात्पर्ये ।।
वाक्यार्थप्रदीपः
ननु चतुर्वर्णसमूह इति समूहे चतुर्वर्णशब्दात् ष्यञ्व्याख्यान-मयुक्तम् । समूहार्थे तद्विधायकाभावात् । ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति गुणवचनेभ्यो ब्राह्मणादिभ्यश्चादौ ष्यञ्विधानात् अस्य च तादृग्रूपत्वात् ‘एतत्सूत्र एव चतुर्वर्णादीनां स्वार्थे ष्यञ् वाच्यः’ इति वार्तिककारेण स्वार्थे ष्यञ्विधानात् समूहे तदङ्गीकारे सूत्रविरोधात् कृद्वचनविरोधाच्च-(मातृकालुप्ता)..इत्यतो न तावत् साधकाभावः । ‘प्रत्यय’ इत्यादाविव ‘तद्धित’ इति एकवचननिर्देशे कर्तव्ये तथा निर्देशमकृत्वा बहुवचननिर्देशसूचित ‘विचित्रा हि तद्धितगति’रिति वचनादेव समूहार्थेऽपि ष्यञ्सम्भवात् । अत एव प्रकृत्यारब्धसमूहार्थपरतया मुख्यप्रत्ययत्वोपपत्तौ च स्वार्थे कप्रत्यत्वाभ्युपगमानौचित्येन स्वार्थे तद्विधायकवचनस्यासम्भवित्वात् न तद्विरोधोऽपीत्याह–विचित्रा हि तद्धितगतिरिति वचनादित्यादि ।।।
भावरत्नकोशः
ननु समुदायेऽभिधेये ष्यञोऽविधानात् कथं चतुर्वर्णसमुदाय इति भाषणमित्यत आह– विचित्रेति ।। अतिरिक्तेति ।। स्वार्थातिरिक्तेत्यर्थः । प्रत्ययानां प्रकृत्यर्थाति-रिक्तार्थ एवानुशासनं भूम्ना दृश्यते । अयं च ष्यञ्प्रत्ययः प्रातिपदिकार्थातिरिक्ते समुत्पादयितुं युक्तः । सम्भवात् । प्रातिपदिके एव तदुत्पादनं नातीव चतुरस्रमिति युक्तः समुदायार्थः प्रत्यय इति भाष्यभाव इत्याशयः । प्राचीनटीकायां तु ‘समुदायसमुदायिनोरत्यन्तभेदाभावात् ‘चतुर्वर्णा एव चातुर्वर्ण्यम्’ इति स्वार्थिकष्यञ्प्रत्यय एव ‘चतुर्वर्णसमुदायश्चातुर्वर्ण्यम्’ इति विवृत इत्युक्तम् । ‘चत्वारश्च ते वर्णाश्च’ इति भाष्ये विशेषणसमासोऽयं न द्विगुरिति न ङीप् ।
‘राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः’ इत्यष्टादशाध्यायतात्पर्यनिर्णयोदाहृत-प्रमाणं राजसानां मध्ये सात्त्विका एव भागवता विप्रादय इति तत्रत्यभगवत्पादीयवचनं चानुरुन्धान एतद्भाष्यनिष्कर्षमाह – राजसस्थ सात्त्विकेष्वेवेति ।। जीवास्त्रिविधाः । सात्त्विका राजसा-स्तामसाश्चेति । तत्र राजसा अपि त्रिविधाः । राजससात्त्विका राजसराजसा राजसतामसाश्चेति । तत्रापि ये राजससात्त्विकास्तेष्वित्यर्थः । ‘राजससात्त्विकेषु’ इति वक्तव्येऽपि ‘राजसस्थ’ इति वचनं तद् राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विका इत्त्युत्तरप्रस्थानमनुसन्धापयितुम् । एवकारेण राजसस्थसात्त्विकेभ्योऽन्यत्रैवं विभागाभावं सूचयति ।
।। निर्देशेति ।। ‘सात्त्विकराजसः’ इति भाष्ये सात्त्विकशब्दस्य प्रथमं निर्देशादित्यर्थः । ‘रजसः’ इति पञ्चमी ।। रजोऽपेक्षयेत्यर्थः । तत एव राजसतामस इति निर्देशप्राथम्यादेव । रजः अधिकम् । तच्च रजः समसत्त्वयुतं स्वसमसत्त्वगुणेन युक्तं वैश्य इति ज्ञातव्यमित्यर्थः । ‘तामसः शूद्रः’ इति भाष्यं ‘रजसस्तमोऽधिकमित्येतावता तामसः शूद्र उच्यते, न तु सत्त्वादपीति’ प्राचीन-टीकां हृदि कृत्वा विवृणोति– रजोऽपेक्षयेति ।। तमसोऽप्यधिकं ‘शूद्रे’ इति वर्तते । एतदेव प्रमेयं सप्रपञ्चं ‘राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विकाः, किञ्चिद्रजोयुक्तसात्त्विकाः, समरजोयुक्त-सात्त्विकाः, सत्त्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेदः । सत्त्वप्रधानत्वाद् एतानारभ्यो-त्तरोत्तरं सर्वेऽपि मोक्षयोग्या’ इति तात्पर्यनिर्णयात् । राजससात्त्विकेषु ‘विप्रा राजससात्त्विकाः’ इत्यादेः ‘राजससात्त्विकानारभ्य हिरण्यगर्भावसानाः सर्वेऽपि हि मोक्षयोग्याः । गुणान्तरापेक्षयैषु सत्त्वाधिक्यात् । मोक्षयोग्यता भागवतानामेव। अतो राजससात्त्विकादयः सर्वेऽपि भागवता एव’ इत्यन्तात् तट्टीकाग्रन्थाच्चावसेयम् ।
अत्र भाष्यटीकयोरुक्तमुपलक्षणम् । ये नित्यत्रैविद्या राजसराजसास्तेऽपि ग्राह्याः । ते च–
‘त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः ।
अन्याधिक्यं न मन्यन्ते श्रीशाद्राजसराजसाः ।।
सत्त्वाधिको मोक्षयोग्यो योग्योऽन्धतमसस्तथा ।
तम उत्तरो रजो भूयान् समो वा सृतिपात्रकः ।।’ इति ।
तात्पर्यनिर्णये । राजससात्त्विकान् उक्त्वा राजसराजसादीनाह– त्रैविद्येति ।। कालतो भागवतान् जायमानान् व्यवच्छिनत्ति– त्रैविद्यमात्रा इति ।। सर्वाधिक्ये सर्वप्रकारेणाधिक्य इति गमयितव्यमिति । सत्त्वाधिको राजससात्त्विकादिः, तम उत्तरो नराधमादिः, रजोभूयान् त्रैविद्यः, सम एकप्रकारगुणत्रयोऽज्ञ इति च टीकाग्रन्थे चोक्तेः । एवमेतेषां ग्रहणेन ‘यस्मादहमेव चातुर्वर्ण्यस्य कर्ता, त्रैविद्याश्च तदन्तर्भूताः’ इति पूर्वटीकावाक्येन विरोधः परिहृतो भवति ।
केचित्तु राजससात्त्विकेष्विव राजसराजसेषु त्रैविद्येष्वपि योनिभेदकृत औपाधिको वर्ण-विभागोऽस्ति । भाष्योक्तश्च स्वाभाविकः । अयं त्वौपाधिकः । यथोक्तम् ‘योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम्’ इति । योनिभेदकृतत्वं च ब्राह्मणयोनिजो ब्राह्मणः इत्यादिरूपेण द्रष्टव्यम् । ‘राजसस्थसात्त्विकेष्वेव’ इति टीकायामेवकारः स्वाभाविकतद्व्यवच्छेदार्थः । तथा च चातुर्वर्ण्य-स्याहमेव कर्तेत्यत्र स्वाभाविकौपाधिकोभयविधमपि चातुर्वर्ण्यं ग्राह्यम् । तत्र च त्रैविद्यानामन्तर्भावात् ‘त्रैविद्याश्च तदन्तर्भूताः’ इति टीकावाक्येन न विरोधशङ्काऽवकाश इति आहुः । ‘शमो दमः’ इत्यादिना श्लोकत्रयेणाष्टादशाध्याये वक्ष्यत इति भाष्यार्थः ।।
भावदीपिका
ननु ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति सूत्रे ‘चतु-र्वर्णादिभ्यः स्वार्थे उपसङ्ख्यानम्’ इति वार्तिकेन चतुर्वर्णादिभ्यः स्वार्थे ष्यञ्प्रत्ययविधानात् ‘चतुर्वर्णा एव चातुर्वण्यम्’ इति वक्तव्यम्, ‘चतुर्वर्णसमुदाय’ इति कथं ष्यञ्प्रत्ययः समुदायार्थ आनीयत इत्यत आह– विचित्रा हीति ।। ष्यञ्प्रत्ययस्तु तद्धितप्रत्यय एवेति द्रष्टव्यम् ।। अतिरिक्तार्थेति ।। स्वार्थव्यतिरिक्तसमुदायरूपार्थेत्यर्थः । तथा च चतुर्वर्णशब्दात् समुदायार्थे ष्यञ्प्रत्यये ञित्त्वाद् आदिवृद्धौ ‘चातुर्वर्ण्यम्’ इति भवतीति द्रष्टव्यम् । तेषु चतुर्षु वर्णेषु । ‘राजसास्तु नरास्तत्र विप्रा राजससात्त्विका’ इत्यादितात्पर्योदाहृतप्रमाणानुरोधात् । तथा च राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विकाः, किञ्चिद्रजोयुक्तसात्त्विकाः, समरजोयुक्तसात्त्विकाः, सत्त्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेद इति गीतातात्पर्ये अष्टादशाध्यायगताचार्यवाक्यं मनसि कृत्वाऽह– राजसस्थेति ।। भाष्ये ‘सात्त्विको ब्राह्मण’ इत्यत्र रजआद्यमिश्रशुद्धसात्त्विको ब्राह्मण इत्यवगन्तव्यम् ।।
।। निर्देशेति ।। ‘सात्त्विकराजसः’ इति भाष्ये सत्त्वस्य प्रथमं निर्देशादित्यर्थः ।। सत्त्वमधिकमिति ।। ‘सात्त्विकाः स्वल्परजसः’ इति प्रमाणादिति भावः ।। तत एवेति ।। ‘राजसतामसः’इति भाष्ये रजसः प्रथमं निर्देशादेवेत्यर्थः । तच्चेति ।। तमसोऽधिकं रजश्चेत्यर्थः ।। समसत्त्वेति ।। ‘समसत्त्वरजसो वैश्याः’ इति वचनादिति भावः । ‘अतिस्वल्पसत्त्वाधिक्येन तामसः’ इति प्रमाणानुसारेण ‘तामसः शूद्र’ इति भाष्यं व्याचष्टे– रजोऽपेक्षयेति ।। अधिक-मिति ।। किञ्चिदधिकमित्यर्थः । मुक्तियोग्यमनुष्यवर्णविभागोऽयमित्यवगन्तव्यम् । यथोक्तम् -‘ये तु भागवता वर्णास्तेषां भेदोऽयमीरितः’ इति । उपलक्षणं चैतत्–
त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः ।
अन्याधिक्यं न मन्यन्ते श्रीशाद्राजसराजसाः ।।
इत्यादिप्रमाणानुसारेण राजसराजसादयोऽपि ग्राह्याः । अन्यथा ‘यस्माच्चतुर्वर्णस्याहमेव कर्ता त्रैविद्याश्च तदन्तर्भूता’ इत्याद्यसङ्गतं स्यादिति मन्तव्यम् ।।
भावप्रकाशः
‘राजसास्तु नरास्तत्र विप्रा राजससात्विकाः’ इत्यादिप्रमाणानु-सारेणाह– राजससात्त्विकेष्विति ।। जीवाः त्रिविधाः । सात्त्विकाः राजसाः तामसाश्च । राजसा अपि त्रिविधाः । सात्त्विकादिभेदात् । तत्र ये राजससात्त्विकाः तेष्वित्यर्थः एवकारेण राजस-सात्त्विकेभ्योऽन्यत्रोक्तविभागाभावं सूचयति । तच्च तात्पर्यनिर्णये स्पष्टम्– समसत्त्वयुताविति ।। समसत्त्वरजसा वैश्या इत्युक्तेरिति भावः । मुक्तियोग्यमनुष्यवर्णविभागोऽयम् । तदुक्तम् ‘ये तु भगवता वर्णास्तेषां भेदोऽयमीरितः’ इति । उपलक्षणञ्चैतत् । ये नित्यत्रैविद्याः राजसराजसाः तेऽपि ग्राह्याः । तेन ‘चातुर्वर्ण्यस्याहमेव कर्ता त्रैविद्याश्चतदन्तर्भूता’ इति पूर्ववाक्याविरोध इति भावबोधकृतः ।
अन्ये तु राजससात्त्विकेष्विव राजसराजसेषु त्रैविद्येष्वपि वर्णविभागोऽस्ति । इयांस्तु विशेषः । भाष्योक्तः स्वाभाविकवर्णविभागः, अयं त्वौपाधिकवर्णविभागः । योनिभेदकृतत्वात् । यथोक्तम् ‘योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम्’ इति । तथाच चातुर्वर्ण्यस्याहमेव कर्तेत्यत्र स्वाभावि-कौपाधिकभेदेन द्विविधमपि चातुर्वर्ण्यं ग्राह्यम् । तत्र च त्रैविद्यानामन्तर्भावात् । त्रैविद्याश्च तदन्तर्भूता इति न विरोधः । योनिभेदकृतत्वं च ब्राह्मणयोनिजो ब्राह्मण इत्यादिरूपेण द्रष्टव्यमित्याहुः ।।