न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।। ६ ।।

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।। ६ ।।

भाष्यम्

स्वरूपं कथयति– न तदित्यादिना ।। ६ ।।

भावप्रदीपिका

संसारविमर्शनद्वारा ब्रह्मस्वरूपप्राप्तिर्निर्ममत्वादिनेत्युक्तम् । कीदृशं तत्स्वरूपम् ? इत्यत उत्तरश्लोकमवतारयति– स्वरूपमिति ।

प्रमेयदीपिका

उत्तरवाक्यानां सङ्गत्यप्रतीतेस्तां सूचयन्नाह– स्वरूप-मिति ।। अनेन कादृशं तत्पदम्, यत्प्राप्तिः पुरुषार्थः? इत्याकाङ्क्षायामिदमुच्यत इत्युक्तं भवति । स्वरूपम् इत्यनेन पदम् इत्युक्तस्य धाम इति वक्ष्यमाणस्य चार्थोऽप्युक्तो भवति । स्थानतेजसोरसङ्गतत्वात् ।। ६ ।।

भावबोधः

ननु पदमव्ययं तद्धाम ममेति वाक्यगतपदधामशब्दयोः स्थानतेजोऽर्थत्वं किन्न स्यादित्यत आह – स्थानतेजसोरिति ।। ६,७ ।।

भावदीपः

पदधामशब्दयोरर्थान्तरशङ्कां निराह– स्थानेति ।। ६ ।।

भावरत्नकोशः

।। उत्तरवाक्यानाम् ‘न तद्भासयते’ इत्यादीनाम् । अनेन ‘न तदित्यादिना’ इति प्रतीकेन । पदम् ‘गच्छन्त्यमूढाः पदमव्यययं तत्’ इत्यत्रोक्तम् । उक्तस्य पदपदस्य न केवलं सङ्गतिः, किन्तु अर्थोऽपि इत्यपिशब्दः । ननु पदधामशब्दयोः स्थानतेजोऽर्थत्वं किं न स्यात् इत्यत आह– स्थानतेजसोरिति ।। ‘तत्परिमार्गितव्यम्’ इत्युक्तपरिमार्गणकर्मत्वेन, ‘पुरुषं प्रपद्यते’ इति प्रपदनीयत्वेन च प्रस्तुतभगवत एवात्र वक्तव्यतया प्रसिद्ध्या स्थानस्य, ‘धाम तेजः’ इति शङ्करोक्तरीत्या तेजसश्चानाकाङ्क्षितत्वादिति भावः ।। ६ ।।

गीताक्षरार्थस्तु– ‘‘न तद्भासयते’ इति षट्श्लोक्यक्षरार्थस्तु ‘गच्छन्त्यमूढाः पदमव्ययम्’ इत्युक्तावाशङ्कते कीदृशं तत्पदम् यत्प्राप्तिः पुरुषार्थ इति तत्रोच्यते– न तद्भासयत इति ।। तद् ब्रह्मत्वेन प्रसिद्धं यत् पदं सर्वावभासनसमर्थोऽपि सूर्यो न भासयते न दीपयति न प्रकाशयति । शशाङ्कः चन्द्रो न भासयते पावकः अग्निश्च न भासयत इति सूर्याद्य-प्रकाश्यमित्युच्यते । यत् च गत्वा प्राप्य न निवर्तन्ते पुनः संसारं न यान्ति इति मुक्तप्राप्यमित्युच्यते । तत्परमम् उत्तमं मम धाम स्वरूपम् ।। ६ ।।

भावदीपिका

ननु ‘स्वपदं च सुरान्नयन्’ इत्यादौ पदशब्दस्य स्थानार्थता-प्रसिद्धेः तथा ‘तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते’ इत्यभिधानेन धामशब्दस्य तेजो-वाचित्वावगमात्, अत्र गीतायां पदधामशब्दौ स्थानतेजोवाचकौ किं न स्याताम्? इत्यत आह– स्थानतेजसोरिति ।। ६,७ ।।

भावप्रकाशः

 ननु पदधामशब्दयोः स्थानतेजोऽर्थत्वं किं न स्यादित्यत आह– स्थानतेजसोरिति ।। ‘तत्परिमार्गितव्यम्’ इत्याद्युक्तपरिमार्गणीयत्वादेः स्थानादाव-सम्भवादिति भावः ।। ६,७ ।।