सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ।। १७ ।।

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः  ।। १७ ।।

गीताक्षरार्थस्तु– ‘मां प्राप्यावस्थितानां तु न पुनरावृत्तिः’ इति प्रतिज्ञामात्रेण प्रागुक्तमर्थं स्थापयितुम् अशेषसृष्टिप्रलयादिकारणत्वरूपसामर्थ्यम् आत्मनो वक्तुम् उपोद्घात उच्यते सहस्रेति । सहस्रशब्दोऽत्र न दशशतवाची, किन्तु ततोऽपि बह्वर्थपरः । यद् ये जनाः सहस्रयुगपर्यन्तं बहुसहस्रयुगानि पर्यन्तः अवसानं यस्य तत् तथा द्विपरार्धात्मकम् अहर्विदुः युगसहस्रां तां बहुसहस्रयुगादधिकां द्विपरार्धप्रलयात्मिकां रात्रिं च ब्रह्मणः परब्रह्मणः विदुः, त एवाहोरात्रविदः । परब्रह्मणः कूटस्थनित्यस्यापि सृष्ट्यादिसव्यापारनिर्व्यापारावस्थे रात्राविव प्रलयकाले प्रवृत्त्यभावाद्, अह्नीवान्यदा प्रवृत्तिसद्भावाद् अहोरात्रत्वेनोपचर्यत इत्याकरादौ स्फुटम् ।। १७ ।।